श्रीबटुकभैरवसहस्रनामस्तोत्रम् ३
ॐ अस्य श्रीमद्बटुकभैरवदिव्यसहस्रनामस्तोत्रमहामन्त्रस्य
शङ्खदीप ऋषिः । अनुष्टुप् छन्दः । कालिकानन्दनः परमेश्वरः
श्रीमद्बटुकभैरवो देवता । वं बीजं ह्रीं शक्तिः प्रणवः कीलकम् ।
मम श्रीमद्बटुकभैरवप्रीत्यर्थे सहस्रनामस्तोत्रपाठे विनियोगः ॥
अथ करन्यासः ।
ॐ बटुकभैरवाय अङ्गुष्ठाभ्यां नमः ।
कालीपुत्राय तर्जनीभ्यां नमः ।
बालरूपाय मध्यमाभ्यां नमः ।
काशीनाथाय अनामिकाभ्यां नमः ।
कालकालाय कनिष्ठिकाभ्यां नमः ।
सर्वाङ्गसुन्दराय इति करतलकरपृष्ठाभ्यां नमः ।
इति करन्यासः ॥
अथ षडङ्गन्यासः ।
ॐ बटुकभैरवाय हृदयाय नमः ।
कालीपुत्राय शिरसे स्वाहा ।
बालरूपाय शिखायै वषट् ।
काशीनाथाय कवचाय हुम् ।
कालकालाय नेत्रत्रयाय वौषट् ।
सर्वाङ्गसुन्दराय अस्त्राय फट् ।
भूर्भुवः सुवरोमिति दिग्बन्धः ।
इति षडङ्गन्यासः ॥
श्रीमद्बटुकभैरवप्रीत्यर्थे बटुकभैरवदिव्यसहस्रनामजपमहं
करिष्ये इति सङ्कल्पः ॥
लमित्यादि पञ्चपूजा ।
लं पृथिव्यात्मने गन्धं कल्पयामि नमः ।
हं आकाशात्मने पुष्पाणि कल्पयामि नमः ।
यं वाय्वात्मने धूपं कल्पयामि नमः ।
रं अग्न्यात्मने दीपं कल्पयामि नमः ।
वं अमृतात्मनेऽमृतं महानैवेद्यं कल्पयामि नमः ।
सं सर्वात्मने सर्वोपचारान् समर्पयामि नमः ॥
अथ ध्यानम् ।
ॐ हिमाद्रिसन्निभं देवं ध्याये बटुकभैरवम् ।
अष्टवर्षवयोरूपं दधानं रक्तवाससम् ॥
नानारत्नाढ्यहेमालङ्कारभूषितविग्रहम् ।
बिम्बाधरं पद्मगण्डं पूर्णचन्द्रसमाननम् ॥
चतुर्बाहुं दधानं तं दण्डं मुण्डं डमर्वयम् ।
अभयप्रहस्ताब्जं देवं लावण्यविग्रहम् ॥
नवीनवनपुष्पाणां मालयाऽश्लिष्टवक्षसम् ।
मण्डलाकाराब्जनाभं सुन्दरं तं घटोदरम् ॥
चलद्यज्ञोपवीतस्य खेलाप्राङ्गणमेव हि ।
राजते विग्रहो यस्य तं घण्टायुक्तमेखलम् ॥
गूढगुल्फं महानागराजेन्द्रावृतकण्ठकम् ।
कुक्कुरे कृष्ण आरूढं हसन्तं मन्दमेव हि ॥
इति ध्यानम् ॥
मूलमन्त्रः ।
ॐ ह्रीं बटुकायापदुद्धारणाय कुरु कुरु बटुकाय ह्रीं ॐ ॥
अथ स्तोत्रम् ।
ॐ अखण्डब्रह्मखण्डश्रीरखण्डज्योतिराश्रयः ।
दिव्यरत्नगणोत्कीर्णकण्ठाभरणभूषितः ॥ १॥
अजातशत्रुरोजस्वी जितकालो नभोगतिः ।
आत्मवेत्ता ह्यात्मसाक्षी अनादिश्चान्तरात्मगः ॥ २॥
अतुलः अनघः कर्ता विकर्ता गहनो गुहः ।
एकरूप एकस्वामी ह्येकात्मा चैकरूपवान् ॥ ३॥
अपराजितोऽद्वितीयः अतितेजोऽभयप्रदः ।
अनन्तो अन्नदाताऽतिचञ्चलः कौतुकप्रियः ॥ ४॥
अनन्तसोमादित्याग्निमण्डलप्रतिमप्रभः ।
घोरपातकदावाग्निरधर्मदारुकुठारकः ॥ ५॥
अप्रकाशः प्रकाशात्मा घनो गगनभूषणः ।
विधिस्तुत्यो विशालाक्षो विद्वज्जनमनोहरः ॥ ६॥
आकाशचारी नित्यात्मा विभुत्वविजयप्रदः ।
कुलकान्तः कुलाद्रीशो विनयी विजयी वियत् ॥ ७॥
आत्मयोनिर्ब्रह्मयोनिर्जगद्योनिरयोनिजः ।
आत्मज्योतिर्शिखण्डीश्च सर्वदुष्टभयङ्करः ॥ ८॥
आदिकर्ता सृष्टिकर्ता सर्वकर्ता विशारदः ।
नानावतारकर्ता च ब्रह्माविर्भावकारणम् ॥ ९॥
आत्मप्रदः पूर्णकामो योगात्मा योगभावितः ।
जीवन्मुक्तिप्रदः वीरः सदाभक्तमनोहरः ॥ १०॥
आमर्द्दको सत्त्वनिष्ठो सत्त्वेशो सत्त्ववित्तमः ।
समस्तजगदाधारः समस्तगुणसागरः ॥ ११॥
ऋणत्रयहरः सूक्ष्मः स्थूलः सर्वगतिः पुमान् ।
अपस्मारहरः स्मर्ता श्रुतिर्गाथा स्मृतिर्मनुः ॥ १२॥
अतिरागी वीतरागी रागहेतुर्विरागवित् ।
रागघ्नो रागशमनो रागदो रागिरागवित् ॥ १३॥
भानुकोटिसहस्राभः राकाकोटिनिभाननः ।
मेघकोटिसमाभासः ताराकोटिसमुज्ज्वलः ॥ १४॥
अश्मकोटिसमदृडः सिंहकोटिमहाबलः ।
दावाग्निकोटिनलिनः विष्णुकोट्यरिमर्दकः ॥ १५॥
कृष्णकोटिलावण्यः रुद्रकोट्युग्ररूपधृक् ।
समुद्रकोटिगम्भीरः समीरकोटिमहावेगः ॥ १६॥
शिखिकोटिमनोहरः कमलकोटिसमाननः ।
हिमवत्कोट्यकम्पनः रमाकोटिसमृद्धिदः ॥ १७॥
गगनकोटिसुविस्तारः यमकोटिभयङ्करः ।
शुक्रकोटिकवीश्वरः गणेशकोटिविघ्नहा ॥ १८॥
इन्द्रकोटिविलासाढ्यः कोटिब्रह्माण्डनायकः ।
मेरुकोटिसमुछ्रायः रत्नकोटिविभूषितः ॥ १९॥
धराकोटिसमक्षमी रुद्रकोटिपराक्रमः ।
अम्बुकोटिसमस्वच्छः वह्निकोटिसुदुःसहः ॥ २०॥
इन्दुकोटिप्रभोल्लासी ब्रह्मदर्पविनाशकः ।
विरिञ्चिकेशवेन्द्रादिसर्वदेवाभयप्रदः ॥ २१॥
ऋग्वेदो रोगहन्ता च रन्तिदेवो धनुष्पाणिः ।
कलकण्ठः पिनाकधन्वा सुनादकम्बुहस्तकः ॥ २२॥
अश्ववाहनशङ्खाढ्यचन्द्रदेवाङ्घ्रिसेवितः ।
गरूडवाहनारूढसुदर्शनाढ्येशसेवितः ॥ २३॥
ऐरावतसमारूढवज्रहस्तेन्द्रपूजितः ।
नरवाहनसमारूढयक्षराजप्रपूजितः ॥ २४॥
सहस्रदलोपरि समारूढब्रह्मदेवनिषेवितः ।
अजोपरि समारूढशक्तिहस्तानलसेवितः ॥ २५॥
काकवाहनसमारूढादित्यपुत्रप्रपूजितः ।
मकरवाहनारूढपाशाढ्यवरुणार्चितः ॥ २६॥
नरारोहिखड्गहस्तनिरृत्याश्रितपादुकः ।
व्याघ्रोपरि समारूढसिंहिकाजाभिवन्दितः ॥ २७॥
महारथोपरि समारूढकश्यपात्मजनिषेवितः ।
महिषारूढदण्डाढ्ययमदेवप्रपूजितः ॥ २८॥
कन्दर्पकोटिसदृशः नानालिपिसमावृतः ।
कन्दर्पदर्पहारी च नित्यः सर्वाङ्गसुन्दरः ॥ २९॥
कमलामलनेत्रश्रीः कमलाचलमानसः ।
कालिकापरमानन्दः विशाललोललोचनः ॥ ३०॥
करणं कारणं कुण्डः कार्यं कर्म क्रिया मतिः ।
कार्यातीतो गवां नाथो जगन्नाथो गुणाकरः ॥ ३१॥
कर्दमेशो मतङ्गेशो विश्वेशो विश्वधारकः ।
विशालो विमलो जिष्णुर्जयशीलो सुखप्रदः ॥ ३२॥
कमलशोभिताकारः कमलशोभिताम्बरः ।
कमलकुसुमामोदवल्लभः कमलेश्वरः ॥ ३३॥
कमलकुसुमाधीशः कमलप्रसूनाङ्कितः ।
कमलकुसुमामोदवर्धनः कमलाप्रियः ॥ ३४॥
कलिकष्टैकशमनः कलिकष्टविवर्ज्जितः ।
कलिघ्नः कलिधर्मघ्नः कलिधर्मैकखण्डनः ॥ ३५॥
काशीवासिजनानन्दी काशीवासिजनस्तुतः ।
काशीवासिजनत्राता काशीवासिजनप्रियः ॥ ३६॥
काशीवासिसुखप्रदः काशिकाप्रीतिवर्धनः ।
काशीस्थार्तिहरः काशीमध्यस्थः काशिकाप्रियः ॥ ३७॥
कालभैरवो कान्तो कान्तारप्रियदर्शनः ।
कान्तिमान्कान्तिदाता कान्तिस्थः कान्तिवर्धनः ॥ ३८॥
कालाग्निः कालरुद्रश्च कालादित्यः कलामयः ।
कालमाली कालकण्ठस्त्र्यम्बकस्त्रिपुरान्तकः ॥ ३९॥
कालीपुत्रो महारुद्रो कालिकानन्दवर्धनः ।
कालिकाहृदयज्ञानी कालिकातनयो नयः ॥ ४०॥
कालिकालालितो कुक्कुरारूढो मुनिवेष्टितः ।
नितम्बपङ्कजः स्मेरजीतशीतांशुदिक्शतः ॥ ४१॥
कालेश्वरः कालकर्ता कल्पाब्धिः कल्पवृक्षकः ।
कोटीश कामधेन्वीशः कुशलः कुशलप्रदः ॥ ४२॥
कुक्कुटेशः कर्कटेशः व्योमकेशः प्रियसखः ।
कञ्जाभिलाषी केदारः कुङ्कुमार्चितविग्रहः ॥ ४३॥
आबालवृद्धविदितः कल्पशाखीतलस्थितः ।
रत्नमालावृतो दिव्यो शुभ्रदंष्ट्रो शुभङ्करः ॥ ४४॥
कोटिब्रह्माण्डमध्यस्थः कोटिब्रह्माण्डपालकः ।
कोटिब्रह्माण्डजनकः कोटिब्रह्माण्डधारकः ॥ ४५॥
रत्नप्रभूतो रत्नाङ्गो तपःसक्तो नीलकुन्तलः ।
स्वभक्तहृदयालयनानारत्नसुशोभितः ॥ ४६॥
गुणाधीशो गुणाध्यक्षो गुणवीक्षणलालसः ।
गुणगौरवदाता च गुणज्येष्ठो गुणप्रदः ॥ ४७॥
गुणदाता गुणप्राणो गुणगोपो गुणाश्रयः ।
गुणयायी गुणाधायी गुणपो गुणपालकः ॥ ४८॥
गौरो गौरगुणो गौरप्रकाशो क्लेशनाशकः ।
गौरीशनन्दनो गौरीप्रियपुत्रो गदाधरः ॥ ४९॥
ग्रहराजो ग्रहाधीशो ग्रहपीडानिवारकः ।
ग्रहनाथो ग्रहपालो ग्रहनायकनिषेवितः ॥ ५०॥
चराचरात्मा सूक्ष्मात्मा अमृतो धरणीधरः ।
जीवात्मा प्रयतात्मा च सर्वमूलात्मा प्रधानधृत् ॥ ५१॥
चन्दनचर्चितोऽनाधारसख्यपर एव च ।
करस्थशूलघातेन दुष्टान् हन्तुं सदोद्यतः ॥ ५२॥
चन्द्राश्रयश्चन्द्रधरोऽच्युतश्चम्पकसन्निभः ।
चामीकरप्रभश्चण्डभानुश्चण्डेशरूपधृक् ॥ ५३॥
जगद्बन्धुर्जगत्कर्ता जगद्राक्षी जगन्मयः ।
जगन्निधिर्जगद्रूपो जगदात्मा जगत्प्रभुः ॥ ५४॥
जनार्दनो जगत्स्वामी जन्मकर्मनिवारकः ।
जवनो जगदाधारो जमदग्निर्जराहरः ॥ ५५॥
जरामरणविध्वंसी जगदानन्ददायकः ।
जगद्भानतिरस्कारी जगद्भानतिरोहितः ॥ ५६॥
जन्मपाशजरामृत्युमहाव्याधिविनाशकः ।
महेन्द्रविष्णुजनको ब्रह्मतातस्तुतोऽव्ययः ॥ ५७॥
दिव्यमणिसभास्वत्नागेन्द्रपाणिकङ्कणः ।
सृष्टिस्थितिलयक्रीडः दितिसुतविमर्द्दनः ॥ ५८॥
स्वभक्तप्राणनाथश्च जगदानन्दनन्दितः ।
स्वभक्तप्राणसर्वस्वः स्वभक्तक्रन्दनक्रन्दितः ॥ ५९॥
दुराराध्यो दुराधर्षो दुष्टदूरो धनुर्धरः ।
दुर्विज्ञेयो दुराचारनाशनो दुर्मदान्तकः ॥ ६०॥
दयावान् दैवतश्रेष्ठो देवगन्धर्वसुसेवितः ।
नानायुधधरो नानापुष्पगुच्छविराजितः ॥ ६१॥
दामोदरो दलाधारो दुग्धस्नायी दधिप्रियः ।
देवराजो दिवानाथो देवज्ञो देवताप्रियः ॥ ६२॥
दुर्लभो दुर्गमो दुर्गो दुर्ज्ञेयो दुरासदः ।
दूरश्रवा दुष्कृतघ्नो दुर्द्धर्षो दुःसहोदयः ॥ ६३॥
देवासुरेश्वरो देव्यो देवनाथो देवेश्वरः ।
सर्वदेवमयो दण्डो देवसिंहो दिवाकरः ॥ ६४॥
देवो देवाग्रजो दानो दानवारिर्दिनेश्वरः ।
देवकृद्देवभृद्दाता दयारूपी दिवस्पतिः ॥ ६५॥
धनदेष्टो धनाध्यक्षो धरादर्शो धुरन्धरः ।
धूर्जटीक्षणवासी च धर्मक्षेत्रो धराधिपः ॥ ६६॥
धाराधरो धुरीणश्च धर्मात्मा धर्मवत्सलः ।
धराभृद्वल्लभो धर्मी धरणीभारविमोचनः ॥ ६७॥
धरानाथो धराधीशो धरणीनायको धरः ।
धराकान्तो धरापालो धरणीभृद्धराप्रियः ॥ ६८॥
धर्मरूपो धनुर्हस्तो धर्मशास्त्रात्मचेतनः ।
धर्मराजप्रियकरो धर्मराजसुपूजितः ॥ ६९॥
नखचन्द्रमणिज्योत्स्नाप्रकाशितमहामनाः ।
स्वभक्तहृदयाकाशलसत्पङ्कजविस्तरः ॥ ७०॥
निर्विकल्पो नगभूतो पद्मनाभो जगत्प्रसूः ।
नमस्यो नतनाभिश्च नम्रमूर्धाभिवन्दितः ॥ ७१॥
नारसिंहार्चितपदः नवनागनिषेवितः ।
नवग्रहार्चितपदो नवपल्लवशोभितः ॥ ७२॥
निजभक्तनयनानन्दः स्वभक्तचित्तरञ्जितः ।
पीनवक्षाश्चतुर्बाहुश्चतुर्मूर्तिस्त्रिलोचनः ॥ ७३॥
नित्यशुद्धो नित्यबुद्धो निरपायो निरामयः ।
निरङ्कुशो निराधारो निरञ्जनो निराश्रयः ॥ ७४॥
निरंशो निगमानन्दो निरालम्बो निदानभूः ।
निर्वाणदो निर्वृतिस्थो निर्वैरो निरुपाधिकः ॥ ७५॥
निरानन्दो निर्विकारो निरीहो निरवग्रहः ।
नित्यानन्दो नित्यमुक्तो निर्लेपो निस्पृहप्रियः ॥ ७६॥
निष्कण्टको निस्पृहश्च निरपेक्षो निरत्ययः ।
नागराजार्चितपदो नागराजप्रियङ्करः ॥ ७७॥
नीलजीमूतसङ्काशो नीलमेघसमप्रभः ।
नीलाञ्जनचयप्रख्यो नीलवस्त्रधरप्रियः ॥ ७८॥
नीलाद्रिरुचिरावेशः नीलोपचितसन्निभः ।
नीलमणिप्रभारम्यो नीलाभूषणभूषितः ॥ ७९॥
नीलवर्णप्रतीकाशश्चित्रवेशश्चिरन्तनः ।
नीलग्रीवः पद्मवक्त्रः पद्माङ्कितपदाम्बुजः ॥ ८०॥
परमात्मा परं ब्रह्म परेशः परमेश्वरः ।
परानन्दः परं धाम परमानन्ददायकः ॥ ८१॥
प्रमाणः प्रणवः प्राज्ञः प्रलयः प्राणनायकः ।
पुराणः प्राणदो पान्थो पर्जन्यो पावकप्रभुः ॥ ८२॥
पापाचलमहावज्रो पापारण्यदावानलः ।
विष्णुब्रह्मादिवन्द्याङ्घ्रिः रत्नरञ्जितपादुकः ॥ ८३॥
पुण्यकीर्तिः पुण्यगीतिर्जगत्पावनपावनः ।
कीर्तिः कीर्तिप्रदश्चैव सन्मतिः श्रीप्रदः शिवः ॥ ८४॥
पुण्याधिपः पुष्कराक्षः पुण्डरीकपुराश्रयः ।
प्राचीनः पुष्पसद्गन्धः रक्तपुष्पप्रियङ्करः ॥ ८५॥
पुरातनः पूर्वहीनः परद्रोहविवर्जितः ।
पङ्कजः पङ्कजमुखः पीनकायः पुरान्तकः ॥ ८६॥
प्रियंवदः प्रियकरः प्रियदः प्रियसञ्जनः ।
प्रियानुगः प्रियालम्बी प्रियकीर्तिः प्रियात्प्रियः ॥ ८७॥
ब्रह्म ब्रह्ममयोऽव्यक्तस्तेजोरूपस्सुखात्मकः ।
निरुक्तं व्याकृतिर्व्यक्तो निरालम्बनभावनः ॥ ८८॥
ब्राह्मणो ब्रह्महा ब्रह्मा ब्रह्मज्ञो ब्राह्मणप्रियः ।
ब्राह्मणस्थो ब्रह्मरूपो ब्राह्मणपरिपालकः ॥ ८९॥
विरोचनः सुरगणो विद्येशो विबुधाश्रयः ।
बालरूपो बलोन्माथी विवर्तो कनको गुरुः ॥ ९०॥
बुधेशो विविधाधीशो बुधाधीशो बुधाकरः ।
बुधनाथो बुधप्रीतो बुधाधिपो बुधप्रियः ॥ ९१॥
मनोभर्ता मनोगम्यो मननैकपरायणः ।
मनोवचोभिरग्राह्यो महाबिलकृतालयः ॥ ९२॥
महापादो महाहस्तो महावक्षा महायशाः ।
महामूर्द्धा महामात्रो महानेत्रो महाननः ॥ ९३॥
महानन्दो महास्कन्दो महेन्द्रो महसान्निधिः ।
महामायो महाग्रासो महावीर्यो महाभुजः ॥ ९४॥
महालयेश्वरो मोक्षो मेघनादेश्वराभिधः ।
मुक्तीश्वरो महामुक्तो मन्त्रज्ञो मन्त्रकारकः ॥ ९५॥
महेष्वासो महीकर्ता पराशक्तिसमूद्भवः ।
प्रपञ्चात्मा सदायोगी महान् पुरुषोत्तमः ॥ ९६॥
महोज्ज्वलो मनोहारी मनोगामी मनोभवः ।
मानदो मन्नाथो मल्लो मेरुमन्दरमन्दिरः ॥ ९७॥
मुक्तिप्रदाङ्घ्रिरेणुः कालीनामसुनन्दितः ।
नितम्बबिम्बव्यालम्बिकिङ्किणीकाञ्चिमण्डितः ॥ ९८॥
महेश्वरो महादेवो मुद्गलो मधुरोमृदुः ।
मनःशायी महायोगी महाकर्मा महौषधम् ॥ ९९॥
मुकुटाङ्गदकेयूरकाञ्चीकिङ्किणिभूषितः ।
नारायणविरिञ्च्यादिदेवाभीतिप्रदायकः ॥ १००॥
मोहिनीमोहनो मायी अनिकेतो चिरक्रियः ।
राजेन्द्रो भूपती माली संसाररथसारथिः ॥ १०१॥
वामनो वामदेवश्च दैत्यारिः कञ्जलोचनः ।
बलप्रदो वीतभयो भक्तार्तिपरिनाशनः ॥ १०२॥
विजितात्मा विधेयात्मा सोमात्मा सोमविग्रहः ।
ग्रहरूपी ग्रहाध्यक्षो ग्रहमर्दनकारकः ॥ १०३॥
विशिष्टः काश्यपो भानुर्भीमो भीमपराक्रमः ।
सखाश्रेष्ठो सप्तधाचारो महाकायो महाधनुः ॥ १०४॥
विव्याधी बभ्लुशः श्रेष्ठः सर्वदर्शी सनातनः ।
सर्वान्नराट् जगत्भर्ता प्रमदो नन्दिकेश्वरः ॥ १०५॥
विश्वरूपी विश्वगोप्ता विभावसुः रतीशान्तकः ।
विश्वोद्भवो विश्वकर्मा विश्वसृष्टि विनायकः ॥ १०६॥
विश्वयोनिः स्वयञ्जातः नारायणः नटेश्वरः ।
भूर्भुवःस्वः जगच्चक्षुः दिव्यमाल्याम्बरावृतः ॥ १०७॥
विष्णुर्ग्रहपतिः कृष्णः समर्थोऽनर्थनाशनः ।
अधर्मशत्रुरक्षय्यः पुरुहूतः पुरुष्टुतः ॥ १०८॥
वीरभद्रसमाश्लिष्टः कृतक्रीडानिलायनः ।
क्रीडासेतुनिधानज्ञः पुष्पसूनधनुप्रभः ॥ १०९॥
भक्तविलाससदनो नानाशास्त्रविशारदः ।
करुणारससम्पूर्णो करुणारससागरः ॥ ११०॥
भक्तिप्रियो भक्तिगम्यो भक्तिवश्यो भयापहः ।
भक्तितृप्तो भक्तिलभ्यो भक्तिनिन्दकनाशनः ॥ १११॥
भगवान् भक्तिसुलभो भक्तीशः भक्तवत्सलः ।
मिथ्याहीनो मङ्गलदो माङ्गल्यो कुक्कुटासनः ॥ ११२॥
भानुचन्द्राग्निनयनो भावनातीतविग्रहः ।
भक्तचित्ताम्बुजारूढो शङ्करोक्तक्रियाप्रियः ॥ ११३॥
भुजङ्गेन्द्रलसत्कण्ठो भुजङ्गाभरणप्रियः ।
भुजङ्गविलसत्कर्णो भुजङ्गवलयावृतः ॥ ११४॥
सर्वधर्मेश्वरो बन्धुस्तुरङ्गोऽनन्तकलान्वितः ।
धर्मसीमाथ आदियोगि भूमकः सानन्दमानसः ॥ ११५॥
भैरवो भरणो भर्ता भ्रातृव्यो नामरूपगः ।
अव्याकृतात्मा भूतात्मा पञ्चभूतान्तरोऽस्मयः ॥ ११६॥
भूतो भूमीश्वरो भूमिर्भौमो भूताभिभावकः ।
पद्मनेत्रो भवो भोक्ता भूदेवो पापभक्षकः ॥ ११७॥
वाराहशृङ्गधृक्छृङ्गी नारसिंहनिपातनः ।
विश्वभोक्ताऽथ मारघ्नो ब्रह्मचारी जितेन्द्रियः ॥ ११८॥
चन्द्रमौलि चारुकेशः मयूखमालीः त्विषाम्पतिः ।
ज्येष्ठः श्रेष्ठार्चितपदो मूलं च त्रिजगद्गुरुः ॥ ११९॥
विश्वमूलनिवासी च विश्वचित्रविधायकः ।
विश्वाधारविलासी च कृत्तिवासः धरापतिः ॥ १२०॥
वेदान्तवेद्य उद्गीथो वेदाङ्गो वेदपारगः ।
वेदवक्त्रो वेदजिह्वो सुजिह्वो जिह्मनाशकः ॥ १२१॥
वेद्यो वैद्यो वेदवेद्यो वेदवेदान्तसंस्तुतः ।
प्रतिचित्तस्थितः सद्यः स्फूर्तिदाता शुचिस्मितः ॥ १२२॥
योगाचार्यो योगगम्यो योगी योगश्चयोगवित् ।
योगाङ्गो योगसारङ्गो यक्षोयुक्तिर्यमोयमी ॥ १२३॥
रक्ताम्बरधरो रक्तो रक्तमाल्यविभूषणः ।
वनमाली शुभाङ्गश्च श्वेतः श्वेताम्बरो हरिः ॥ १२४॥
जगद्गर्भो भूगर्भो ज्ञानगर्भोऽखिलेश्वरः ।
विश्वगर्भो अग्निगर्भो स्वर्णगर्भो वरप्रदः ॥ १२५॥
रणप्रियो रणाधीशो रणनेता रणाग्रणीः ।
रणमूर्ती रणनाथो राकासूर्याग्निलोचनः ॥ १२६॥
रमापती रमानाथो रमाकान्तो रमेश्वरः ।
रम्यमूर्ती रतीशानो राकाया नायको रविः ॥ १२७॥
रुद्रः पावको वामो महाकालो जगत्पतिः ।
वीरभद्रो महादंष्ट्रो महाभीमो महोदरः ॥ १२८॥
लसद्गण्डस्थलीहैममौलिमाल्यविभूषितः ।
स्वेदबिन्दुसुधाक्लिन्नकनकाभशरीरकः ॥ १२९॥
लूतो लीलारसोल्लासी विलासी विभ्रमो भ्रमः ।
बालकानां पतिः श्रीशो विरतिः सर्वपापिनाम् ॥ १३०॥
शरणागतदीनार्तपरित्राणपरायणः ।
भविष्यज्ञो भवत्राता सलीलः भवहारकः ॥ १३१॥
शत्रुघ्नः सामगः शौरिः सेनानीः भैरवीप्रियः ।
महाकारुणिको भ्रान्तिनाशकः शोकहा विभुः ॥ १३२॥
शरभो शबरो धौम्यो विराड्रूपः स्थितिप्रदः ।
श्मशानी स्कन्दसद्वेदः सदा सुरसरित्प्रियः ॥ १३३॥
शिशुः शैशवयुक्तस्च पिङ्गकेशो जटाधरः ।
बालानां रक्षको बालः क्रीडाकौतुककारकः ॥ १३४॥
शून्यरूपः शून्यदेहः शून्यस्थः शून्यभावनः ।
शून्यगामी श्मशानस्थः श्मशानाधिपतिः सुवाक् ॥ १३५॥
सकलज्ञः समर्थज्ञः सुमनाः विष्णुपूजितः ।
सर्वशोकप्रशमनः शोकहन्ताऽभयः हेमकुण्डलः ॥ १३६॥
श्रीलः श्रीमान् श्रीयुतश्च श्रीनिवासः श्रियः पतिः ।
भ्रमणः शशिभृत्सुर्येशः शनिर्कालीनन्दनः ॥ १३७॥
सख्यप्रियो सख्यलभ्यो सख्यगम्यो महासखा ।
सख्यतृप्तो सख्यवश्यो सख्यदो चित्तचोरकः ॥ १३८॥
सत्यगम्यः सत्यहेतुः सत्यदः सत्यगोचरः ।
सत्यप्रियः सत्यरूपः सत्यः सत्यपरायणः ॥ १३९॥
सहास्यवदनो हास्ययुक्तः प्रहसिताननः ।
साक्षी समक्षवक्ता च समदर्शी समस्तवित् ॥ १४०॥
सर्वधर्मविनिर्मुक्तः सर्वलोकनमस्कृतः ।
सर्वाचारयुतः शैवः शाक्तः परमवैष्णवः ॥ १४१॥
सर्वधर्मविधानज्ञः सर्वाचारपरायणः ।
सर्वरोगप्रशमनः सर्वपाखण्डखण्डनः ॥ १४२॥
सहस्रबाहुर्महाविष्णुः शरण्यः सर्वलोककृत् ।
योगिनीचक्रमध्यस्थः कनिष्ठः कृष्णपिङ्गलः ॥ १४३॥
सर्वसिद्धिदः शुद्धः विरिञ्चिमस्तकहस्तकः ।
क्षमाधारी क्षमानाथः क्षमाधारः क्षमाधरः ॥ १४४॥
सर्वपक्षिमृगाकारः सर्वपक्षिमृगाधिपः ।
सर्वपक्षिमृगाधारो सर्वपक्षिमृगप्रियः ॥ १४५॥
संसारभयविध्वंसी मधुकण्ठः महीधरः ।
विघ्नघ्नो वालनागरो निजकेलिलम्पटः ॥ १४६॥
सुविशिष्टः सुराध्यक्षः सुकुमारः सुलोचनः ।
सागरः सगरः सार्धः सुन्दरः अतिसुन्दरः ॥ १४७॥
स्थावरः स्थिरमूर्तिश्च स्थावरेशः स्थिरासनः ।
स्थापकः स्थैर्यनिरतः स्थूलरूपी स्थलालयः ॥ १४८॥
सोममण्डलधारी च समुद्र सिन्धुरूपवान् ।
सुरज्येष्ठः सुरश्रेष्ठः सुरासुरनिषेवितः ॥ १४९॥
सिन्धुराजः सदाभूतः शशिनाथः सदाशिवः ।
सौम्यरूपः सुरसेव्यः सुरनाथः शनैश्चरः ॥ १५०॥
इति ते काशीनाथस्य बटुकस्य जगत्पति ।
सहस्रं दिव्यनाम्नां भवतु प्रीतये सदा ॥ १५१॥
फलश्रुतिः ।
सहस्रं दिव्यनाम्नां बटुकेश्वरस्य पठन्ति ये ।
स्वगृहे वा बहिर्वाऽपि भक्त्या नक्तं दिवाऽपि वा ॥ १॥
तेषां प्रीतः भवेद्देवः दद्यात् सालोक्यमेव च ।
न तस्य जायते पीडा नवग्रहस्य प्रसादतः ॥ २॥
इति श्रीशङ्खदीप दासविरचितं श्रीमद्बटुकभैरवसहस्रनामस्तोत्रं सम्पूर्णम् ॥
Additional notes :
English translation of the dhyana mantra : I meditate upon Lord
BaTuka Bhairava who is as pure white in complexion as a mountain
covered by snow. Being a little child of eight years of age,
His attire is of crimson red hue. Ornamented with numerous gold
ornaments studded with various gems on His body, His beautiful
face is like that of the Full Moon with His lips as red as
the bimba fruit and His cheeks like that of a lotus. Having
an extremely beautiful body, He is having four hands carrying
DaNDa (stick), MuNDa (beheaded head of Lord Brahmā),
Damaru and Abhaya. His chest is embellished by many garlands
of fresh forest flowers. His belly is cutely bulging with His
navel perfectly round in shape. The sacred thread runs obliquely
across His body. Around His beautiful waist is tied a girdle of
tinkling bells and His knees are well filled. Having the lord
of snakes coiled around His neck, He is smiling gently and is
seated on a black dog.
ॐ बटुकभैरवाय अङ्गुष्ठाभ्यां नमः ।
May Lord BaTuka Bhairava be appeased !
सोशल मीडिया पर शेयर करें:
सहेजें एवं डाउनलोड करें (Save & Export):