अक्षर आकार:

श्रीबटुकभैरवसहस्रनामस्तोत्रम् १

shrIbaTukabhairavasahasranAmastotram 1

श्रीबटुकभैरवसहस्रनामस्तोत्रम् १

देव्युवाच - देवेश भक्तिसुलभ देवनायकवन्दित । भक्तानां काम्यसिद्ध्यर्थं निदानं ब्रूहि तत्त्वतः ॥ १॥ विनैव न्यासजालेन पूजनेन विना भवेत् । विनाऽपि कायक्लेशेन विना जप्येन चेश्वर ॥ २॥ श्रीमहादेव उवाच - अस्य श्रीबटुकभैरवसहस्रनाममालामन्त्रस्य ब्रह्मानन्दभैरवऋषिः अनुष्टुप्छन्दः बटुकभैरवो देवता । वं बीजं ह्रीं शक्तिः अभीष्टफलसिद्ध्यर्थे जपे विनियोगः ॥ बटुकः कामदो नाथोऽनाथप्रियः प्रभाकरः । भैरवो भीतिहा दर्पः कन्दर्पो मीनकेतनः ॥ ३॥ रुद्रो वटुर्विभूतीशो भूतनाथः प्रजापतिः । दयालुः क्रूर ईशानो जनीशो लोकवल्लभः ॥ ४॥ देवो दैत्येश्वरो वीरोवीरवन्द्यो दिवाकरः । बलिप्रियः सुरश्रेष्ठः कनिष्ठः कनिष्ठशिशुः ॥ ५॥ महाबलो महातेजा वित्तजित् द्युतिवर्धनः । तेजस्वी वीर्यवान्वृद्धो विवृद्धो भूतनायकः ॥ ६॥ कालः कपालकामादिविकारः काममर्दनः । कामिकारमणः कामी नायकः कालिकाप्रियः ॥ ७॥ कालीशः कामिनीकान्तः कालिकानन्दवर्धनः । कालिकाहृदयज्ञानी कालिकातनयो नयः ॥ ८॥ खगेशः खेचरः खेटो विशिष्टः खेटकप्रियः । कुमारः क्रोधनः कालाप्रियः पर्वतरक्षकः ॥ ९॥ गणेज्यो गणनो गूढो गूढाशयो गणेश्वरः । गणनाथो गणश्रेष्ठो गणमुख्यो गणप्रियः ॥ १०॥ घोरनाथो घनश्यामो घनमूर्तिर्घनात्मकः । घोरनाशो घनेशानो धनपतिर्धनात्मकः ॥ ११॥ चम्पकाभाश्चिरञ्जीवो चारुवेषश्चराचरः । अन्त्योऽचिन्त्यगणो धीमान्सुचित्तस्थश्चितीश्वरः ॥ १२॥ छत्री छत्रपतिश्छत्रछिन्ननासामनः प्रियः । छिन्नाभश्छिन्नसन्तापश्छर्दिराच्छर्दनन्दनः ॥ १३॥ जनो जिष्णुर्जटीशानो जनार्दनो जनेश्वरः । जनौको जनसन्तोषो जनजाड्य विनाशनः ॥ १४॥ जनप्रस्थो जनाराध्यो जनाध्यक्षो जनप्रियः । जीवहा जीवदो जन्तुर्जीवनाथो जनेश्वरः ॥ १५॥ जयदो जित्वरो जिष्णुर्जयश्रीः जयवर्धनः । जयाभूमिर्जयाकारो जयहेतुर्जयेश्वरः ॥ १६॥ झङ्कारहृदवान्तात्मा झङ्कारहेतुरात्मभूः । ज्ञभैश्वरी हरिर्भर्ता विभर्ता भृत्यकेश्वरः ॥ १७॥ ठीकारहृदयोआत्म ठङ्केशाष्टकनायकः । ठकारभूष्ठरन्ध्रेशाष्ठिरीशाष्ठकुरपतिः ॥ १८॥ डुडीडक्काप्रियः पान्थो डुण्ढिराजो निरन्तकः । ताम्रस्तमीश्वरस्त्रोता तीर्थजातस्तडित्प्रभुः ॥ १९॥ ऋक्षरः ऋक्षकस्तभस्तार्क्ष्यकस्तम्भदेश्वरः । स्थलजः स्थावरस्स्थाता स्थिरबुद्धिः स्थितेन्द्रियः ॥ २०॥ स्थिरज्ञातिः स्थिरप्रीतिः स्थिरस्थितिः स्थिराशयः । दरो दामोदरो दम्भो दाडिमी कुसुमप्रियः ॥ २१॥ दरिद्रहादिमी दिव्यो दिव्यदेहो दिवप्रभः । दीक्षाकारो दिवानाथो दिवसेशो दिवाकरः ॥ २२॥ दीर्घशान्तिर्दलज्योतिर्दलेशो दलसुन्दरः । दलप्रियो दलाभाशो दलश्रेष्ठो दलप्रभुः ॥ २३॥ दलकान्तिर्दलाकारो दलसेव्यो दलार्चितः । दीर्घबाहुर्दलश्रेष्ठो दललूध्वदलाकृतिः ॥ २४॥ दानवेशो दयासिन्धुर्दयालुर्दीनवल्लभः । धनेशो धनदो धर्मो धनराजो धनप्रियः ॥ २५॥ धनप्रदो धनाध्यक्षो धनमान्यो धनञ्जयः । धीवरो धातुको धाता धूम्रो धूमच्छविवर्धनः ॥ २६॥ धनिष्ठो धनलच्छत्री धनकाम्यो धनेश्वरः । धीरो धीरतरो धेनुर्धीरेशो धरणीप्रभूः ॥ २७॥ धरानाथो धराधीशो धरणीनायको धरः । धराकान्तो धरापालो धरणीभृद्धराप्रियः ॥ २८॥ धराधारो धराधृष्णो धृतराष्ट्रो धनीश्वरः । नारदो नरदो नेता नतिपूज्यो नतिप्रभूः ॥ २९॥ नतिलभ्यो नतीशानो नतिलघ्वो नतीश्वरः । पाण्डवः पार्थसम्पूज्यः पाथोदः प्रणतः पृथुः ॥ ३०॥ पुराणः प्राणदो पान्थो पाञ्चाली पावकप्रभुः । पृथिवीशः पृथासूनुः पृथिवी भृत्यकेश्वरः ॥ ३१॥ पूर्वशूरपतिः श्रेयान् प्रीतिदः प्रीतिवर्धनः । पार्वतीशः परेशानः पार्वतीहृदयप्रियः ॥ ३२॥ पार्वतीरमणः पूतः पवित्रः पापनाशनः । पात्रीपात्रालिसन्तुष्टः परितुष्टः पुमान्प्रियः ॥ ३३॥ पर्वेशः पर्वताधीशः पर्वतो नायकात्मजः । फाल्गुनः फल्गुनो नाथः फणेशः फणिरक्षकः ॥ ३४॥ फणीपतिः फणीशानः फणाळिन्दः फणाकृतिः । बलभद्रो बली बालो बलधीर्बलवर्धनः ॥ ३५॥ बलप्राणो बलाधीशो बलिदान प्रियङ्करः । बलिराजो बलिप्राणो बलिनाथो बलिप्रभुः ॥ ३६॥ बली बलश्च बालेशो बालकः प्रियदर्शनः । भद्री भद्रप्रदो भीमो भीमसेनो भयङ्करः ॥ ३७॥ भव्यो भव्यप्रियो भूतपतिर्भूतविनाशकः । भूतेशो भूतिदो भर्गो भूतभव्यो भव्रेश्वरः ॥ ३८॥ भवानीशो भवेशानो भवानीनायको भवः । मकारो माधवो मानी मीनकेतुर्महेश्वरः ॥ ३९॥ महर्षिर्मदनो मन्थो मिथुनेशोऽमराधिपः । मरीचिर्मजुलो मोहो मोहहा मोहमर्दनः ॥ ४०॥ मोहको मोहनो मेधाप्रियो मोहविनाशकः । महीपतिर्महेशानो महाराजो महेश्वरः ॥ ४१॥ महीश्वरो महीपालो महीनाथो महीप्रियः । महीधरो महीशानो मधुराजो मुनिप्रियः ॥ ४२॥ मौनी मौनधरो मेधो मन्दारो मतिवर्धनः । मतिदो मन्धरो मन्त्रो मन्त्रीशो मन्त्रनायकः ॥ ४३॥ मेधावी मानदो मानी मानहा मानमर्दनः । मीनगो मकराधीशो मकरो मणिरञ्जितः ॥ ४४॥ मणिरम्यो मणिभ्राता मणिमण्डल मण्डितः । मन्त्रिणो मन्त्रदो मुग्धो मोक्षदो मोक्षवल्लभः ॥ ४५॥ मल्लो मल्लप्रियो मन्त्रो मेलको मेलनप्रभः । मल्लिकागन्धरमणो मालतीकुसुमप्रभः ॥ ४६॥ मालतीशो मघाधीशो माघमूर्तिर्मघेश्वरः । मूलाभो मूलहा मूलो मूलदो मूलसम्भवः ॥ ४७॥ माणिक्यरोचिः सम्मुग्धो मणिकूटो मणिप्रियः । मुकुन्दो मदनो मन्दो मदवन्द्यो मनुप्रभुः ॥ ४८॥ मनस्स्थो मेनकाधीशो मेनका प्रियदर्शनः । यमोऽपि यामलो येता यादवो यदुनायकः ॥ ४९॥ याचको यज्ञको यज्ञो यज्ञेशो यज्ञवर्धनः । रमापती रमाधीशो रमेशो रामवल्लभः ॥ ५०॥ रमापती रमानाथो रमाकान्तो रमेश्वरः । रेवती रमणो रामो रामेशो रामनन्दनः ॥ ५१॥ रम्यमूर्ती रतीशानो राकाया नायको रविः । लक्ष्मीधरो ललज्जिह्वो लक्ष्मीबीजजपे रतः ॥ ५२॥ लम्पटो लम्बराजेशो लम्बदेशो लकारभूः । वामनो वल्लभो वन्द्यो वनमाली वलेश्वरः ॥ ५३॥ वशस्थो वनगो वन्ध्यो वनराजो वनाह्वयः । वनेचरो वनाधीशो वनमाला विभूषणः ॥ ५४॥ वेणुप्रियो वनाकारो वनराध्यो वनप्रभुः । शम्भुः शङ्करसन्तुष्टः शम्बरारिः सनातनः ॥ ५५॥ शबरीप्रणतः शालः शिलीमुखध्वनिप्रियः । शकुलः शल्ल्कः शीलः शीतिरश्मि सितांशुकः ॥ ५६॥ शीलदः शीकरः शीलः शालशाली शनैश्चरः । सिद्धः सिद्धिकरः साध्यः सिद्धिभूः सिद्धिभावनः ॥ ५७॥ सिद्धान्तवल्लभः सिन्धुः सिन्धुतीरनिषेवकः । सिन्धुपतिः सुराधीशः सरसीरुहलोचनः ॥ ५८॥ सरित्पतिस्सरित्संस्थः सरः सिन्धुसरोवरः । सखा वीरयतिः सूतः सचेता सत्पतिः सितः ॥ ५९॥ सिन्धुराजः सदाभूतः सदाशिवः सताङ्गतिः । सदृशः साहसी शूरः सेव्यमानः सतीपतिः ॥ ६०॥ सूर्यः सूर्यपतिः सेव्यः सेवाप्रियः सनातनः । सनीशः शशिनाथः सतीसेव्यः सतीरतः ॥ ६१॥ सतीप्राणः सतीनाथस्सतीसेव्यः सतीश्वरः । सिद्धराजः सतीतुष्टः सचिवः सव्यवाहनः ॥ ६२॥ सतीनायकसन्तुष्टः सव्यसाची समन्तकः । सचितः सर्वसन्तोषी सर्वाराधन सिद्धिदः ॥ ६३॥ सर्वाराध्यः शचीवाच्यः सतीपतिः सुसेवितः । सागरः सगरः सार्धः समुद्रप्रियदर्शनः ॥ ६४॥ समुद्रेशः परो नाथः सरसीरुहलोचनः । सरसीजलदाकारः सरसीजलदार्चितः ॥ ६५॥ सामुद्रिकः समुद्रात्मा सेव्यमानः सुरेश्वरः । सुरसेव्यः सुरेशानः सुरनाथ स्सुरेश्वरः ॥ ६६॥ सुराध्यक्षः सुराराध्यः सुरबृन्दविशारदः । सुरश्रेष्ठः सुरप्राणः सुरसिन्धुनिवासिनः ॥ ६७॥ सुधाप्रियः सुधाधीशः सुधासाध्यः सुधापतिः । सुधानाथः सुधाभूतः सुधासागरसेवितः ॥ ६८॥ हाटको हीरको हन्ता हाटको रुचिरप्रभः । हव्यवाहो हरिद्राभो हरिद्रारसमर्दनः ॥ ६९॥ हेतिर्हेतुर्हरिर्नाथो हरिनाथो हरिप्रियः । हरिपूज्यो हरिप्राणो हरिहृष्टो हरिद्रकः ॥ ७०॥ हरीशो हन्त्रिको हीरो हरिनाम परायणः । हरिमुग्धो हरीरम्यो हरिदासो हरीश्वरः ॥ ७१॥ हरो हरपति र्हारो हरिणीचित्तहारकः । हरो हितो हरिप्राणो हरिवाहनशोभनः ॥ ७२॥ हंसो हासप्रियो हुंहुं हुतभुक् हुतवाहनः । हुताशनो हवी हिक्को हालाहलहलायुधः ॥ ७३॥ हलाकारो हलीशानो हलिपूज्यो हलिप्रियः । हरपुत्रो हरोत्साहो हरसूनुर्हरात्मजः ॥ ७४॥ हरबन्धो हराधीशो हरान्तको हराकृतिः । हरप्राणो हरमान्यो हरवैरिविनाशनः ॥ ७५॥ हरशत्रुर्हराभ्यर्च्यो हुङ्कारो हरिणीप्रियः । हाटकेशो हरेशानो हाटकप्रियदर्शनः ॥ ७६॥ हाटको हाटकप्राणो हाटभूषणभूषकः । हेतिदो हेतिको हंसो हंसागतिराह्वयः ॥ ७७॥ हंसीपतिर्हरोन्मत्तो हंसीशो हरवल्लभः । हरपुष्पप्रभो हंसीप्रियो हंसविलासितः ॥ ७८॥ हरजीवरतो हारी हरितो हरिताम्पतिः । हरित्प्रभुर्हरित्पालो हरिदन्तरनायकः ॥ ७९॥ हरिदीशो हरित्प्रायो हरिप्रियप्रियो हितः । हेरम्बो हुङ्कृतिक्रुद्धो हेरम्बो हुङ्कृती हरी ॥ ८०॥ हेरम्ब प्राणसंहर्ता हेरम्बहृदयप्रियः । क्षमापतिः क्षणं क्षान्तः क्षुरधारः क्षितीश्वरः ॥ ८१॥ क्षितीशः क्षितिभृत् क्षीणः क्षितिपालः क्षितिप्रभुः । क्षितीशानः क्षितिप्राणः क्षितिनायक सात्प्रियः ॥ ८२॥ क्षितिराजः क्षणाधीशः क्षणपतिः क्षणेश्वरः । क्षणप्रियः क्षमानाथः क्षणदानायकप्रियः ॥ ८३॥ क्षणिकः क्षणकाधीशः क्षणदाप्राणदः क्षमी । क्षमः क्षोणीपतिः क्षोभः क्षोभकारी क्षमाप्रियः ॥ ८४॥ क्षमाशीलः क्षमारूपः क्षमामण्डलमण्डितः । क्षमानाथः क्षमाधारः क्षमाधारी क्षमाधरः ॥ ८५॥ क्षेमक्षीणरुजाक्षुद्रः क्षुद्रपालविशारदः । क्षुद्रासनः क्षणाकारः क्षीरपानकतत्परः ॥ ८६॥ क्षीरशायी क्षणेशानः क्षोणीभूत् क्षणदोत्सवः । क्षेमङ्करक्षमाळुब्धः क्षमाहृदयमण्डनः ॥ ८७॥ नीलाद्रिरुचिरावेशः नीलोपचित सन्निभः । नालमणिप्रभारम्यो नीलभूषणभूषितः ॥ ८८॥ नीलवर्णो नीलभ्रुवो मुण्डमालाविभूषितः । मुण्डस्थो मुण्डसन्तुष्टो मुण्डमालाधरो नयः ॥ ८९॥ दिग्वासा विदिताकारो दिगम्बरवरप्रदः । दिगम्बरीश आनन्दी दिग्बन्ध प्रियनन्दनः ॥ ९०॥ पिङ्गलैकजटो हृष्टो डमरूवादनप्रियः । श्रेणीकरः श्रेणाशायः खड्गधृक् खड्गपालकः ॥ ९१॥ शूलहस्ता मतङ्गाभी मातङ्गोत्सवसुन्दरः । अभयङ्कर ऊर्वङ्को लङ्कापतिर्विनायकः ॥ ९२॥ नगेशयो नगेशानो नागमण्डलमण्डितः । नागाकारो नागधीशो नागशायी नगप्रियः ॥ ९३॥ घटोत्सवो घटाकारो घण्टावाद्य विशारदः । कपालपाणि रम्बेशः कपालाशनशारदः ॥ ९४॥ पद्मपाणिः करालास्य स्त्रिनेत्रो नागवल्लभः । किङ्किणीजालसंहृष्टो जनाशयो जननायकः ॥ ९५॥ अपमृत्युहरो मायामोहमूलविनाशकः । आयुकः कमलानाथः कमलाकान्तवल्लभः ॥ ९६॥ राज्यदो राजराजेशो राजवत्सदशोभनः । डाकिनीनायको नित्यो नित्यधर्मपरायणः ॥ ९७॥ डाकिनीहृदयज्ञानी डाकिनीदेहनायकः । डाकिनीप्राणदः सिद्धः श्रद्धेयचरितोविभुः ॥ ९८॥ हेमप्रभो हिमेशानो हिमानीप्रियदर्शनः । हेमदो नर्मदो मानी नामधेयो नगात्मजः ॥ ९९॥ वैकुण्ठो वासुकिप्राणो वासुकीकण्ठभूषणः । कुण्डलीशो मुखध्वंसी मखराजो मखेश्वरः ॥ १००॥ मखाकारो मखाधीशो मखमालिविभूषणः । अम्बिकावल्लभो वाणीमतिर्वाणीविशारदः ॥ १०१॥ वाणीशो वचनप्राणो वचनस्थो वनप्रियः । वेलाधारो दिशामीशो दिग्भागो हि दिगीश्वरः ॥ १०२॥ पटुप्रियो दुराराध्यो दारिद्र्यभञ्जनक्षमः । तर्कतर्कप्रियोऽतर्क्यो वित्तर्क्यस्तर्कवल्लभः ॥ १०३॥ तर्कसिद्धः सुसिद्धात्मा सिद्धदेहो ग्रहासनः । ग्रहगर्वो ग्रहेशानो गन्धो गन्धीविशारदः ॥ १०४॥ मङ्गळं मङ्गळाकारो मङ्गळवाद्यवादकः । मङ्गळीशो विमानस्थो विमानैकसुनायकः ॥ १०५॥ बुधेशो विविधाधीशो बुधवारो बुधाकरः । बुधनाथो बुधप्रीतो बुधवन्द्यो बुधाधिपः ॥ १०६॥ बुधसिद्धो बुधप्राणो बुधप्रियो बुधोबुधः । सोमः सोमसमाकारः सोमपाः सोमनायकः ॥ १०७॥ सोमप्रभः सोमसिद्धो मनःप्राणप्रणायकः । कामगः कामहा बौद्ध कामनाफलदोऽधिपः ॥ १०८॥ त्रिदेशो दशरात्रीशो दशाननविनाशकः । लक्ष्मणो लक्षसम्भर्ता लक्ष्यसङ्ख्यो मनःप्रियः ॥ १०९॥ विभावसुर्नवेशानो नायको नगरप्रियः । नरकान्तिर्नलोत्साहो नरदेवोनलाकृतिः ॥ ११०॥ नरपतिर्नरेशानो नारायणो नरेश्वरः । अनिलो मारुतो मांसो मांसैकरससेवितः ॥ १११॥ मरीचिरमरेशानो मागधो मगधप्रभुः । सुन्दरीसेवको द्वारी द्वारदेशनिवासिनः ॥ ११२॥ देवकीगर्भसञ्जातो देवकीसेवकी कुहुः । बृहस्पतिः कविः शुक्रः शारदासाधनप्रियः ॥ ११३॥ शारदासाधकप्राणः शरदीसेवकोत्सुकः । शारदासाधकश्रेष्टो मधुपानसदारतिः ॥ ११४॥ मोदकादानसम्प्रीतो मोदकामोदमोदितः । आमोदानन्दनो नन्दो नन्दिकेशो महेश्वरः ॥ ११५॥ नन्दिप्रियो नदीनाथो नदीतीरतरुस्तथा । तपनस्तापनस्तप्ता तापहा तापकारकः ॥ ११६॥ पतङ्गगोमुखो गौरगोपालो गोपवर्धनः । गोपतिर्गोपसंहर्ता गोविन्दैकप्रियोऽतिगः ॥ ११७॥ गव्येष्ठो गणरम्यश्च गुणसिन्धुर्गुणाप्रियः । गुणपूज्यो गुणोपेतो गुणवाद्यगुणोत्सवः ॥ ११८॥ गुणीसकेवलो गर्भः सुगर्भो गर्भरक्षकः । गाम्भीरधारको धर्ता विधर्ता धर्मपालकः ॥ ११९॥ जगदीशो जगन्मित्रो जगज्जाड्यविनाशनः । जगत्कर्ता जगद्धाता जगज्जीवनजीवनः ॥ १२०॥ मालतिपुष्पसम्प्रीतो मालतीकुसुमोत्सवः । मालतीकुसुमाकारो मालतीकुसुमप्रभुः ॥ १२१॥ रसालमञ्जरीरम्यो रसालगन्धसेवितः । रसालमञ्जरी लुब्धो रसालतरुवल्लभः ॥ १२२॥ रसालपादपासीनो रसालफलसुन्दरः । रसालरससन्तुष्टो रसालरससालयः ॥ १२३॥ केतकीपुष्पसन्तुष्टः केतकीगर्भसम्भवः । केतकीपत्रसङ्काशः केतकीप्राणनाशकः ॥ १२४॥ गर्तस्थो गर्तगम्भीरो गर्ततीरनिवासिनः । गणसेव्यो गणाध्यक्षो गणराजो गणाह्वयः ॥ १२५॥ आनन्दभैरवो भीरुर्भैरवेशो रुरुर्भगः । सुब्रह्म्यभैरवो नामभैरवो भूतभावनः ॥ १२६॥ भैरवीतनयो देवीपुत्रः पर्वतसन्निभः । फलश्रुतिः नाम्नाऽनेन सहस्रेण स्तुत्वा बटुकभैरवम् ॥ १२७॥ लभते ह्यतुलां लक्ष्मीं देवतामपि दुर्लभाम् । उपदेशं गुरोर्लब्ध्वा योगेन्द्रमण्डली भवेत् ॥ १२८॥ तस्मिन्योगे महेशानस्सर्वासिद्धि मवाप्नुयात् । लक्षमावर्तयेन्मन्त्री मन्त्रराजं नरेश्वरः ॥ १२९॥ नित्यकर्मसु सिध्यर्थं तत्फलं लभते ध्रुवम् । स्तवमेनं पठेन्मन्त्री पाठयित्वा यथाविधि ॥ १३०॥ दुर्लभां लभते सिद्धिं सर्वदेवनमस्कृताम् । न प्रकाश्यं च पुत्राय भ्रष्टेषु न कदाचन ॥ १३१॥ अन्यथा सिद्धिरोधः स्याच्चतुरो वा भवेत् प्रियः । स्तवस्यास्य प्रसादेन देवनाकमतिप्रियः ॥ १३२॥ सङ्ग्रामे विजयेच्छत्रून्मातङ्गानिव केसरी । राजानं वशयेत्सद्यो देवानपि शमं नयेत् ॥ १३३॥ किमपरं फलं प्राप्य स्तवराजस्य कथ्यते । यद्यन्मनसि सङ्कल्पस्तवमेतदुदीरितम् ॥ १३४॥ तत्तत्प्राप्नोति देवेश बटुकस्य प्रसादतः । आपदां हि विनाशाय कारणं कान्तदुर्लभम् ॥ १३५॥ देवासुररणे घोरे देवानामुपकारकम् । प्रकाशितं मया नाथ तन्त्रे भैरवदीपके ॥ १३६॥ अपुत्त्रो लभते पुत्त्रान् षण्मासे च निरन्तरम् । पठित्वा पाठयित्वाऽपि स्तवराज मनुत्तमम् ॥ १३७॥ दरिद्रो लभते लक्ष्मी मायुःप्राप्तिमतिश्चिरम् । कन्यार्थी लभते कन्यां सर्वरूपसमन्विताम् ॥ १३८॥ प्रदोषे बलिदाने च वशये दखिलं जगत् । वटे वा बिल्वमूले वा रम्भायां विपिने वने ॥ १३९॥ जपे त्सततमालक्ष्य मन्त्रराजस्य सिद्धये । वर्णलक्षं जपेद्वापि दिङ्मात्रं हि प्रदर्शितम् ॥ १४०॥ पूजयेत्तुतिलैर्माषैर्दुग्धैर्मासैर्झषैस्तथा । घृतपक्कान्नतो वापि व्यञ्जनै रससङ्कुलैः ॥ १४१॥ पूजयेद्धारयेद्वापि स्तवमेनं सुसाधकः । पठेद्वा पाठयेद्वापि यथाबिधि सुरप्रिये ॥ १४२॥ शत्रुतो न भयं तेषां नाग्निचौरास्त्रजं भयम् । ज्वरादिसम्भवं चापि सत्यं सत्यं महेश्वरि ॥ १४३॥ भैरवाराधने शक्तो यो भवेत्साधकः प्रभो । सदाशिवः सविज्ञेयो भैरवेणेति भाषितम् ॥ १४४॥ श्रीमद्भैरवराजसेवनविधौ वैयाघ्रमासेदुषः पुंसः पञ्चविधा भवन्ति नवधा ह्यष्टौ महासिद्धयः । क्षोणीपालकिरीटकोटिमणिरुङ्मालामरैर्भूद्यशो मौद्ग्यम्पादपयोजयोर्निवहते मूर्ध्निपयस्सिच्यताम् ॥ १४५॥ इति भैरवतन्त्रे देवीहरसंवादे श्रीबटुकभैरवसहस्रनामस्तोत्रं सम्पूर्णम् ॥