अक्षर आकार:

श्रीबटुकभैरवप्रातःस्मरणम्

shrIbaTukabhairavaprAtaHsmaraNam

श्रीबटुकभैरवप्रातःस्मरणम्

प्रातः स्मरामि बटुकं सुकुमारमूर्तिं श्रीस्फाटिकाभसदृशं कुटिलालकाढ्यम् । वक्त्रं दधानमणिमादिगुणैर्हि युक्तं हस्तद्वयं मणिमयैः पदभूषणैश्च ॥ १॥ प्रातर्नमामि बटुकं तरुणं त्रिनेत्रं कामास्पदं वरकपालत्रिशूलदण्डान् । भक्तार्तिनाशकरणे दधतं करेषु तं कौस्तुभाभरणभूषित दिव्यदेहम् ॥ २॥ प्रातःकाले सदाऽहं भगणपरिधरं भालदेशे महेशं नागं पाशं कपालं डमरूमथ सृणिं खड्गघण्टाभयानि । दिग्वस्त्रं पिङ्गकेशं त्रिनयनसहितं मुण्डमालं करेषु यो धत्ते भीमदंष्ट्रं मम विजयकरं भैरवं तं नमामि ॥ ३॥ देवदेव कृपासिन्धो सर्वनाशिन्महाव्यय । var शत्रुनाशिन्महाव्यय संसारासक्तचित्तं मां मोक्षमार्गे निवेशय ॥ ४॥ एतच्छ्लोकचतुष्कं वै भैरवस्य तु यः पठेत् । सर्वबाधाविनिर्मुक्तो जायते निर्भयः पुमान ॥ ५॥