अक्षर आकार:

श्री विश्वसारोक्त बटुकभैरवपञ्जरस्तोत्रम्

shrI vishvasArokta baTuka bhairava pa~njara stotram

श्री विश्वसारोक्त बटुकभैरवपञ्जरस्तोत्रम्

श्रीगणेशाय नमः । श्रीउमामहेश्वराभ्यां नमः । श्रीगुरवै नमः । श्रीभैरवाय नमः । देव्युवाच । देवदेव महादेव भक्ताभीष्टप्रदायकः । पूर्वं मे सूचितं नाथ ब्रूहित्वं कृपयाधुनाम् ॥ १॥ पञ्जरं बटुकस्यैव सर्वसिद्धिप्रदायकम् । साधकानां हितार्थाय प्रकाशं कुरु भैरव् ॥ २॥ भैरव उवाच । श्रृणु देवि प्रवक्ष्यामि बटुकस्य च पञ्जरम् । पञ्जरस्यास्य देवेशि बृहदारण्यको ऋषिः । छन्दोऽनुष्टुप् देवेशि बटुको नाम देवता ॥ ३॥ ह्रीं बीजं बटुकायेति शक्तिस्तु परिकीर्तिता । प्रणवं कीलकं प्रोक्त मागमज्ञैर्विनिश्चितम् । सर्वार्थसाधने देवि विनियोगः परिकीर्तितः ॥ ४॥ अस्य श्रीबटुकभैरवपञ्जरस्य बृहदारण्यक ऋषिः । अनुष्टुप् छन्दः । श्री बटुक भैरवः देवता । ह्रीं बीजम् । बटुकायेति शक्तिः । प्रणवः कीलकम् । सर्वार्थ साधने (सर्वाभीष्टसिद्‍ध्यर्थे जपे/पाठे) विनियोगः ॥ बटुकोव्याच्छिरोदेशेललाटेभैरवेश्वरः । कपोलौक्षेत्रपालश्चभूभागेचासिताङ्गकः ॥ ५॥ खट्वाङ्गधारीनासायां नेत्रयोर्भूतनायकः । उर्ध्वोष्टे(ष्ठे)रुरुनाथश्चाधरोष्टे(ष्ठे)धनेश्वरः ॥ ६॥ चिबुकेकुलनाथोव्यान्महेशोमुखमण्डले । क्षेत्रेशोकण्ठदेशोव्यात्स्कन्धयोर्वासिनीपतिः ॥ ७॥ हृदयेकामनाथोव्यात्काम्यघ्नोभुजमण्डले । पाणौरक्षेन्महाकालोमार्तण्डोचाङ्गुलीषुच ॥ ८॥ उदरेकालकालोव्यात्सर्वज्ञोनाभिमण्डले । रक्ताक्षोलिङ्गव्यातण्डकोषेसुरेश्वरः ॥ ९॥ कट्यांशूलभृत्पातुवस्तिदेशेअघान्तकः । घोरान्तकोपातुचोर्धोर्जघनेशत्रुतापनः ॥ १०॥ पादयोः पातुकन्दर्पो कल्पान्तो चाङ्गुलीषु च । आकेशात्पादपर्यन्तं पातुमां भैरवेश्वरः ॥ ११॥ प्रतीच्यां पातु भूतेशो याम्ये बलिहरोऽवतु । प्राच्यां कालविधिः पातु उदीच्यां प्रथमेश्वरः ॥ १२॥ आग्नेय्यां च शिखी पातु नैऋत्यां प्रेतयोऽवतु । वायव्यां प्राणदः पातु एशान्यामीश्वरोऽवतु ॥ १३॥ इतीदं पञ्जरं देवि सर्वमन्त्ररहस्यकम् । पठनात्पाठनाद्देवि स्वयं सिद्धिश्वरो भवेत् ॥ १४॥ प्रातःकाले पठेद्यस्तु मुच्यते व्याधिबन्धनात् । भानौ मध्ये गते यस्तु पठनाद्धनवान्भवेत् ॥ १५॥ सायङ्काले प्रपठनात्सर्वसिद्धिमवाप्नुयात् । अर्धरात्रे पठेद्यस्तु श्रुतिस्तद्गत्मानसः ॥ १६॥ साक्षाद्भैरवरुपोऽसौ जायते भुवि मानवः । पञ्जरं भूर्जपत्रेषु चाष्टाङ्गन्धेनलेखयेत् ॥ १७॥ धारयेत्करकण्ठेचबाह्वोशिरसि यं पुमान् । तस्यसर्वार्थसिद्धिः स्यान्नात्रकार्याविचारणात् ॥ १८॥ शत्रुदस्यु भयं नैव नैव भूतादिजं भयम् । अस्यधारण मात्रेण साधको भुवि जायते ॥ १९॥ अज्ञात्वा पञ्जरं देवि अज्ञात्वा कूटपञ्जरम् । नाधिकारीभवेत्सोऽपि अजप्त्वा नरकं व्रजेत् । तस्मात्पठेत्सदाभक्त्या पातकान्मुच्यते ध्रुवम् ॥ २०॥ ॥ इति श्रीविश्वसारोक्त बटुकभैरवपञ्जरं सम्पूर्णम् ॥