अक्षर आकार:

श्रीबटुकभैरवकवचम्

shrIbaTukabhairavakavacham

श्रीबटुकभैरवकवचम्

उक्तं च भैरवतन्त्रे । महादेव उवाच - प्रीयतां भैरवो देवो नमो वै भैरवाय च । देवेशि देहरक्षार्थं कारणं कथ्यतां ध्रुवम् ॥ १॥ म्रियन्ते साधका येन विना श्मशानभूमिषु । रणेषु चाति घोरेषु महामृत्युभयेषु च ॥ २॥ श‍ृङ्गीसलीलवज्रेषु ज्वरादिव्याधिवन्हिषु । देव्युवाच - कथयामि श‍ृणु प्राज्ञ बटुककवचं शुभम् ॥ ३॥ गोपनीयं प्रयत्नेन मातृकाजारजो यथा । ॐ अस्य श्री बटुकभैरवकवचस्य आनन्दभैरव ऋषिस्त्रिष्टुप्छन्दः श्रीबटुकभैरवो देवता बं बीजं ह्रीं शक्तिः ॐ बटुकायेति कीलकं ममाभीष्टसिध्यर्थे जपे विनियोगः । ॐ सहस्रारे महाचक्रे कर्पूरधवले गुरुः ॥ ४॥ पातु मां बटुको देवो भैरवः सर्वकर्मसु । पूर्वस्यामसिताङ्गो मां दिशि रक्षतु सर्वदा ॥ ५॥ आग्नेयां च रुरुः पातु दक्षिणे चण्डभैरवः । नैरृत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ॥ ६॥ वायव्यां मां कपाली च नित्यं पायात्सुरेश्वरः । भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा ॥ ७॥ संहारभैरवः पायादीशान्यां च महेश्वरः । ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः ॥ ८॥ सद्योजातस्तु मां पायात्सर्वतो देवसेवितः । वामदेवो वनान्ते च वने घोरस्तथाऽवतु ॥ ९॥ जले तत्पुरुषः पातु स्थले ईशान एव च । डाकिनीपुत्रकः पातु पुत्रान् में सर्वतः प्रभुः ॥ १०॥ हाकिनी पुत्रकः पातु दारांस्तुलाकिनीसुतः । पातु शाकिनिकापुत्रः सैन्यं वै कालभैरवः ॥ ११॥ मालिनीपुत्रकः पातु पशूनश्वान् गजांस्तथा । महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ॥ १२॥ वाद्यं वाद्यप्रियः पातु भैरवो नित्यसम्पदा । एतत्कवचमीशान तव स्नेहात्प्रकाशितम् ॥ १३॥ नाख्येयं नरलोकेषु सारभूतं सुरप्रियम् । यस्मै कस्मै न दातव्यं कवचं सुरदुर्लभम् ॥ १४॥ न देयं परिशिष्येभ्यो कृपणेभ्यश्च शङ्कर । यो ददाति निषिद्धेभ्यः सर्वभ्रष्टो भवेत्किल ॥ १५॥ अनेन कवचेनैव रक्षां कृत्वा विचक्षणः । विचरन्यत्र कुत्रापि न विघ्नैः परिभूयते ॥ १६॥ मन्त्रेण रक्षते योगी कवचं रक्षकं यतः । तस्मात्सर्वप्रयत्नेन दुर्लभं पापचेतसाम् ॥ १७॥ भूर्जे रम्भात्वचि वापि लिखित्वा विधिवत्प्रभो । कुङ्कुमेनाष्टगन्धेन गोरोचनैश्च केसरैः ॥ १८॥ धारयेत्पाठायेद्वापि सम्पठेद्वापि नित्यशः । सम्प्राप्नोति फलं सर्वं नात्र कार्या विचारणा ॥ १९॥ सततं पठ्यते यत्र तत्र भैरवसंस्थितिः । न शक्नोमि प्रभावं वै कवचस्यास्य वर्णितुम् ॥ २०॥ नमो भैरवदेवाय सर्वभूताय वै नमः । नमस्त्रैलोक्यनाथाय नाथनाथाय वै नमः ॥ २१॥ इति श्रीहरिकृष्णविनिर्मिते बृहज्ज्योतिषार्णवे धर्मस्कन्धे उपासनास्तवके श्रीबटुकभैरवोपासनाध्याये भैरव तन्त्रे देवीरहस्योक्तं श्रीबटुकभैरवकवचनिरूपणं अम्पूर्णम् ॥