अक्षर आकार:

श्रीबटुकभैरवहृदयस्तोत्रम्

Shri Batukabhairava Hridayastotram

श्रीबटुकभैरवहृदयस्तोत्रम्

॥ श्रीगणेशाय नमः ॥ ॥ श्रीउमामहेश्वराभ्यां नमः ॥ ॥ श्रीगुरवे नमः ॥ ॥ श्रीभैरवाय नमः ॥ पूर्वपीठिका कैलाशशिखरासीनं देवदेवं जगद्गुरुम् । देवी पप्रच्छ सर्वज्ञं शङ्करं वरदं शिवम् ॥ १॥ ॥ श्रीदेव्युवाच ॥ देवदेव परेशान भक्त्ताभीष्टप्रदायक । प्रब्रूहि मे महाभाग गोप्यं यद्यपि न प्रभो ॥ २॥ बटुकस्यैव हृदयं साधकानां हिताय च । ॥ श्रीशिव उवाच ॥ श‍ृणु देवि प्रवक्ष्यामि हृदयं बटुकस्य च ॥ ३॥ गुह्याद्गुह्यतरं गुह्यं तच्छृणुष्व तु मध्यमे । हृदयास्यास्य देवेशि बृहदारण्यको ऋषिः ॥ ४॥ छन्दोऽनुष्टुप् समाख्यातो देवता बटुकः स्मृतः । प्रयोगाभीष्टसिद्धयर्थं विनियोगः प्रकीर्तितः ॥ ५॥ ॥ सविधि हृदयस्तोत्रस्य विनियोगः ॥ ॐ अस्य श्रीबटुकभैरवहृदयस्तोत्रस्य श्रीबृहदारण्यक ऋषिः । अनुष्टुप् छन्दः । श्रीबटुकभैरवः देवता । अभीष्टसिद्ध्यर्थं पाठे विनियोगः ॥ ॥ अथ ऋष्यादिन्यासः ॥ श्री बृहदारण्यकऋषये नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे । श्रीबटुकभैरवदेवतायै नमः हृदये । अभीष्टसिद्ध्यर्थं पाठे विनियोगाय नमः सर्वाङ्गे ॥ ॥ इति ऋष्यादिन्यासः ॥ ॐ प्रणवेशः शिरः पातु ललाटे प्रमथाधिपः । कपोलौ कामवपुषो भ्रूभागे भैरवेश्वरः ॥ १॥ नेत्रयोर्वह्निनयनो नासिकायामघापहः । ऊर्ध्वोष्ठे दीर्घनयनो ह्यधरोष्ठे भयाशनः ॥ २॥ चिबुके भालनयनो गण्डयोश्चन्द्रशेखरः । मुखान्तरे महाकालो भीमाक्षो मुखमण्डले ॥ ३॥ ग्रीवायां वीरभद्रोऽव्याद् घण्टिकायां महोदरः । नीलकण्ठो गण्डदेशे जिह्वायां फणिभूषणः ॥ ४॥ दशने वज्रदशनो तालुके ह्यमृतेश्वरः । दोर्दण्डे वज्रदण्डो मे स्कन्धयोः स्कन्दवल्लभः ॥ ५॥ कूर्परे कञ्जनयनो फणौ फेत्कारिणीपतिः । अङ्गुलीषु महाभीमो नखेषु अघहाऽवतु ॥ ६॥ कक्षे व्याघ्रासनो पातु कट्यां मातङ्गचर्मणी । कुक्षौ कामेश्वरः पातु वस्तिदेशे स्मरान्तकः ॥ ७॥ शूलपाणिर्लिङ्गदेशे गुह्ये गुह्येश्वरोऽवतु । जङ्घायां वज्रदमनो जघने जृम्भकेश्वरः ॥ ८॥ पादौ ज्ञानप्रदः पातु धनदश्चाङ्गुलीषु च । दिग्वासो रोमकूपेषु सन्धिदेशे सदाशिवः ॥ ९॥ पूर्वाशां कामपीठस्थः उड्डीशस्थोऽग्निकोणके । याम्यां जालन्धरस्थो मे नैरृत्यां कोटिपीठगः ॥ १०॥ वारुण्यां वज्रपीठस्थो वायव्यां कुलपीठगः । उदीच्यां वाणपीठस्थः ऐशान्यामिन्दुपीठगः ॥ ११॥ ऊर्ध्वं बीजेन्द्रपीठस्थः खेटस्थो भूतलोऽवतु । रुरुः शयानेऽवतु मां चण्डो वादे सदाऽवतु ॥ १२॥ गमने तीव्रनयनः आसीने भूतवल्लभः । युद्धकाले महाभीमो भयकाले भवान्तकः ॥ १३॥ रक्ष रक्ष परेशान भीमदंष्ट्र भयापह । महाकाल महाकाल रक्ष मां कालसङ्कटात् ॥ १४॥ ॥ फलश्रुतिः ॥ इतीदं हृदयं दिव्यं सर्वपापप्रणाशनम् । सर्वसम्पत्प्रदं भद्रे सर्वसिद्धिफलप्रदम् ॥ ॥ इति श्रीबटुकभैरवहृदयस्तोत्रं सम्पूर्णम् ॥