अक्षर आकार:

श्रीबटुकभैरवाष्टोत्तरशतनामस्तोत्रम् २

ShrI Batukabhairava Ashtottarashatanama Stotram 2

श्रीबटुकभैरवाष्टोत्तरशतनामस्तोत्रम् २

॥ श्रीगणेशाय नमः ॥ ॥ श्रीउमामहेश्वराभ्यां नमः ॥ ॥ श्रीगुरवे नमः ॥ ॥ श्रीभैरवाय नमः ॥ ॐ अस्य श्रीबटुकभैरवस्तोत्रमन्त्रस्य कालग्निरुद्र ऋषिः । अनुष्टुप् छन्दः । आपदुद्धारकबटुकभैरवो देवता । ह्रीं बीजम् । भैरवीवल्लभः शक्तिः । नीलवर्णो दण्डपाणिरिति कीलकम् । समस्तशत्रुदमने समस्तापन्निवारणे सर्वाभीष्टप्रदाने च विनियोगः ॥ ॥ ऋष्यादि न्यासः ॥ ॐ कालाग्निरुद्र ऋषये नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे । आपदुद्धारकश्रीबटुकभैरव देवतायै नमः हृदये । ह्रीं बीजाय नमः गुह्ये । भैरवीवल्लभ शक्तये नमः पादयोः । नीलवर्णो दण्डपाणिरिति कीलकाय नमः नाभौ । समस्तशत्रुदमने समस्तापन्निवारणे सर्वाभीष्टप्रदाने विनियोगाय नमः सर्वाङ्गे । ॥ इति ऋष्यादि न्यासः ॥ ॥ अथ मूलमन्त्रः ॥ ॥ ॐ ह्रीं वां बटुकाय क्ष्रौं क्षौ आपदुद्धारणाय कुरु कुरु बटुकाय ह्रां बटुकाय स्वाहा ॥ ॥ इति मूलमन्त्रः ॥ ॥ अथ ध्यानम् ॥ नीलजीमूतसङ्काशो जटिलो रक्तलोचनः । दंष्ट्राकरालवदनः सर्पयज्ञोपवीतवान् ॥ दंष्ट्रायुधालंकृतश्च कपालस्रग्विभूषितः । हस्तन्यस्तकरोटीको भस्मभूषितविग्रहः ॥ नागराजकटीसूत्रो बालमूर्ति दिगम्बरः । मञ्जु सिञ्जानमञ्जरी पादकम्पितभूतलः ॥ भूतप्रेतपिशाचैश्च सर्वतः परिवारितः । योगिनीचक्रमध्यस्थो मातृमण्डलवेष्टितः ॥ अट्टहासस्फुरद्वक्त्रो भ्रुकुटीभीषणाननः । भक्तसंरक्षणार्थाय दिक्षुभ्रमणतत्परः ॥ ॥ इति ध्यानम् ॥ अथ स्तोत्रम् । ॐ ह्रीं बटुको वरदः शूरो भैरवः कालभैरवः । भैरवीवल्लभो भव्यो दण्डपाणिर्दयानिधिः ॥ १॥ वेतालवाहनो रौद्रो रुद्रभ्रुकुटिसम्भवः । कपाललोचनः कान्तः कामिनीवशकृद्वशी ॥ २॥ आपदुद्धारणो धीरो हरिणाङ्कशिरोमणिः । दंष्ट्राकरालो दष्टोष्ठौ धृष्टो दुष्टनिबर्हणः ॥ ३॥ सर्पहारः सर्पशिराः सर्पकुण्डलमण्डितः । कपाली करुणापूर्णः कपालैकशिरोमणिः ॥ ४॥ श्मशानवासी मांसाशी मधुमत्तोऽट्टहासवान् । वाग्मी वामव्रतो वामो वामदेवप्रियङ्करः ॥ ५॥ वनेचरो रात्रिचरो वसुदो वायुवेगवान् । योगी योगव्रतधरो योगिनीवल्लभो युवा ॥ ६॥ वीरभद्रो विश्वनाथो विजेता वीरवन्दितः । भृतध्यक्षो भूतिधरो भूतभीतिनिवारणः ॥ ७॥ कलङ्कहीनः कङ्काली क्रूरकुक्कुरवाहनः । गाढो गहनगम्भीरो गणनाथसहोदरः ॥ ८॥ देवीपुत्रो दिव्यमूर्तिर्दीप्तिमान् दीप्तिलोचनः । महासेनप्रियकरो मान्यो माधवमातुलः ॥ ९॥ भद्रकालीपतिर्भद्रो भद्रदो भद्रवाहनः । पशूपहाररसिकः पाशी पशुपतिः पतिः ॥ १०॥ चण्डः प्रचण्डचण्डेशश्चण्डीहृदयनन्दनः । दक्षो दक्षाध्वरहरो दिग्वासा दीर्घलोचनः ॥ ११॥ निरातङ्को निर्विकल्पः कल्पः कल्पान्तभैरवः । मदताण्डवकृन्मत्तो महादेवप्रियो महान् ॥ १२॥ खट्वाङ्गपाणिः खातीतः खरशूलः खरान्तकृत् । ब्रह्माण्डभेदनो ब्रह्मज्ञानी ब्राह्मणपालकः ॥ १३॥ दिग्चरो भूचरो भूष्णुः खेचरः खेलनप्रियः । दिग्चरो सर्वदुष्टप्रहर्ता च सर्वरोगनिषूदनः । सर्वकामप्रदः शर्वः सर्वपापनिकृन्तनः ॥ १४॥ इत्थमष्टोत्तरशतं नाम्नां सर्वसमृद्धिदम् । आपदुद्धारजनकं बटुकस्य प्रकीर्तितम् ॥ १५॥ एतच्च श‍ृणुयान्नित्यं लिखेद्वा स्थापयेद्गृहे । धारयेद्वा गले बाहौ तस्य सर्वा समृद्धयः ॥ १६॥ न तस्य दुरितं किञ्चिन्न चोरनृपजं भयम् । न चापस्मृतिरोगेभ्यो डाकिनीभ्यो भयं न हि ॥ १७॥ न कूष्माण्डग्रहादिभ्यो नापमृत्योर्न च ज्वरात् । मासमेकं त्रिसन्ध्यं तु शुचिर्भूत्वा पठेन्नरः ॥ १८॥ सर्वदारिद्र्यनिर्मुक्तो निधिं पश्यति भूतले । मासद्वयमधीयानः पादुकासिद्धिमान् भवेत् ॥ १९॥ अञ्जनं गुटिका खड्गं धातुवादरसायनम् । सारस्वतं च वेतालवाहनं बिलसाधनम् ॥ २०॥ कार्यसिद्धिं महासिद्धिं मन्त्रं चैव समीहितम् । वर्षमात्रमधीयानः प्राप्नुयात्साधकोत्तमः ॥ २१॥ एतत्ते कथितं देवि गुह्याद्गुह्यतरं परम् । कलिकल्मषनाशनं वशीकरणं चाम्बिके ॥ २२॥ ॥ इति कालसङ्कर्षणतन्त्रोक्त श्रीबटुकभैरवाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥