अक्षर आकार:

बाणलिङ्गकवचम्

bANalinga kavacham

बाणलिङ्गकवचम्

अस्य बाणलिङ्ग कवचस्य संहारभैरवऋषिर्गायत्रीच्छन्दः, हौं बीजं, हूं शक्तिः, नमः कीलकं, श्रीबाणलिङ्ग सदाशिवो देवता, ममाभीष्ट सिद्ध्यर्थं जपे विनियोगः ॥ ॐ कारो मे शिरः पातु नमः पातु ललाटकम् । शिवस्य कण्ठदेशं मे वक्षोदेशं षडक्षरम् ॥ १॥ बाणेश्वरः कटीं पातु द्वावूरू चन्द्रशेखरः । पादौ विश्वेश्वरः साक्षात् सर्वाङ्गं लिङ्गरूपधृक् ॥ २॥ इतिदं कवचं पूर्व्वं बाणलिङ्गस्य कान्ते पठति यदि मनुष्यः प्राञ्जलिः शुद्धचित्तः । व्रजति शिवसमीपं रोगोशोकप्रमुक्तो बहुधनसुखभोगी बाणलिङ्ग प्रसादतः ॥ ३॥ इति बाणलिङ्ग कवचं समाप्तम् ॥