अरुणाचलपञ्चरत्नवार्त्तिकम्
मङ्गलम् सच्चिन्मात्रस्वभावाय नित्यमुक्ताय शम्भवे । रमणायात्मनाथाय नमो भगवते सदा ॥ १॥ ग्रन्थावतरणम् तेनारुणाचलाख्यस्य स्वस्वरूपस्य पञ्चभिः । श्लोकैः कृता नुतिस्तस्याः क्रियते लघुवार्त्तिकम् ॥ २॥ माण्डूक्योदितमद्वैतं तुर्याख्यं निष्प्रपञ्चकम् । ससाधनं स्तुतावस्यामात्मतत्त्वं प्रपञ्च्यते ॥ ३॥ प्रामाण्यं युज्यते ह्यस्य यतो वक्त्यत्र सद्गुरुः । नित्यानुभूतमात्मीयं तत्त्वं शिवमनामयम् ॥ ४॥ वेदेन गुरुवाक्यानां प्रामाण्यं मन्यतां जनः । मन्यामहे तु वेदानां प्रामाण्यं गुरुवाक्यतः ॥ ५॥ स्वस्वरूपे तुरीयाख्ये स्थितो यस्स भवेद्गुरुः । उपदेशस्तदीयो यस्सा स्यादुपनिषत्परा ॥ ६॥ विहाय प्रायशो वादान् प्रामाण्याद्वचसां गुरोः । सिद्धान्ता एव सङ्गृह्य दीयन्ते ह्यत्र वार्त्तिके ॥ ७॥ प्रथमश्लोकः करुणापूर्णसुधाब्धे कबलितघनविश्वरूप किरणावल्या । अरुणाचलपरमात्म- न्नरुणो भव चित्तकञ्जसुविकासाय ॥ प्रथमश्लोकस्यानुवादः कृपासुधाम्बुधेऽरुणाचल प्रबोधभास्कर स्वचित्स्वरूपतेजसा निगीर्णसर्वलोकक । हृदम्बुजातकोशकप्रफुल्लताविधायिनीं प्रभां निजां प्रसार्य भोस्तमो विनाशयान्तरम् ॥ वार्त्तिकम् हृदम्भोजविकासाय प्रथमे प्रार्थ्यते शुभा । तत्कृपास्वीयभक्तानां तत्स्वरूपत्वसिद्धये । अत्रैव निष्प्रपञ्चत्वं दिश्यते च परात्मनः ॥ ८॥ अहमित्यखिलस्यान्तर्भानं यत् परमात्मनः । करुणेत्युच्यते सैव नाद्वैते विक्रिया यतः ॥ ९॥ करुणायाः स्वरूपत्वमिष्टं न गुणता विभोः । उच्यते निर्गुणत्वं हि वेदान्तैः परमात्मनः ॥ १०॥ तया गृहीता ये भक्ताः प्रेमिणो वा विचारिणः । स्वरूपानुभवस्तेषां ध्रुवो ह्यज्ञाननाशतः ॥ ११॥ निष्प्रपञ्चकमद्वैतं तुर्यं सत्यमिति स्फुटम् । जगत्कबलनस्योक्त्या पूर्वार्धे गुरुणोच्यते ॥ १२॥ अधिष्ठानतया तस्य विश्वस्यारोपितत्वतः । सत्यत्वमस्ति तस्यैव न तु विश्वस्य कर्हिचित् ॥ १३॥ कुरुते ह्यसदेवासत् करुणा परमात्मनः । नान्यत् किञ्चन कर्तव्यं सत्य आत्मा स एव हि ॥ १४॥ संविद्भानुरसावात्मा यद्भासा मायिकं जगत् । नीयते नाशमत्यन्तं तमो भासा यथा रवेः ॥ १५॥ असदेव तमो यद्वत् सत्यवद्गृह्यतेऽबुधैः । असत्यैव तथा माया सकार्या सत्यवन्मता ॥ १६॥ यथाऽसत्त्वात् तमो भासा कबलीक्रियते रवेः । सकार्या च तथा माया कबलीक्रियते चिता ॥ १७॥ स एव शिष्यते तुर्ये चिदानन्दोऽद्वितीयकः । न जीवो न जगत् किञ्चित् तद्द्वयं च मृषा किल ॥ १८॥द्वितीयश्लोकः त्वय्यरुणाचल सर्वं भूत्वा स्थित्वा प्रलीनमेतच्चित्रम् । हृद्यहमित्यात्मतया नृत्यसि भोस्ते वदन्ति हृदयं नाम ॥ द्वितीयश्लोकानुवादः उदेति वर्तते प्रलीयतेऽखिलं जगच्चलं त्वयि प्रकाशवत्पटे यथैव चित्रसन्ततिः । अहन्तयाऽऽत्मरूपतोऽपि नृत्यसि स्वयं हृदि वदन्त्यतो हृदाख्यकं भवन्तमेककं परम्॥ वार्त्तिकम् बहवः प्रतिबध्यन्ते मन्वानाः सदिदं जगत् । आत्मनाशपदं केचिदिदं मत्वा च बिभ्यति । शङ्काद्वयनिरासाय द्वितीयश्लोक ईरितः ॥ १९॥ तटस्थलक्षणं चात्र दिश्यते परमात्मनः । स्वरूपलक्षणं चापि शुद्धं भक्तिविवृद्धये ॥ २०॥ स्वतः सत्यं जगन्मत्वा तस्याधिष्ठानमव्ययम् । न पश्यत्यविवेकीति तत्तत्त्वमुपदिश्यते ॥ २१॥ जीवेशौ विषयाश्चेति त्रितयं जगदाख्यकम् । आरोपितमिदं सर्वमधिष्ठाने चिदात्मनि ॥ २२॥ स्वरूपं जगतः सत्यं सच्चिदात्मैव केवलः । अतोऽन्वेषेण लब्धव्यो विहायेदं स एव हि ॥ २३॥ दृश्यते जगदित्येतत् तत्सत्तां नैव साधयेत् । अधिष्ठानं किमप्यस्तीत्येतदेव हि साधितम् ॥ २४॥ प्रतीयते यथा यद्यत् तत् तथेत्यप्रमाणकम् । वैज्ञानिकजनैश्चापि स्पष्टमेतन्निरूपितम् ॥ २५॥ बहिर्मुखतया ते तु भेदज्ञानपरायणाः । न स्वं वेदितुमिच्छन्ति ज्ञानं तेषामतो मृषा ॥ २६॥ साक्षात्कृतमधिष्ठानं जगतो येन बोधतः । प्रमाणीकृत्य तद्वाक्यं तथा निष्ठां लभेमहि ॥ २७॥ अधिष्ठानसदद्वैतं निर्विशेषं निरंशकम् । जगद्रूपतया भाति मनोव्यापारमात्रतः ॥ २८॥ मन एव स्वयं माया याऽन्यथा कुरुते परम् । ज्ञायतां तदिदं स्पष्टं सुप्तौ जगदभानतः ॥ २९॥ उदेति वर्तते तस्मिन् लीयते चाखिलं यतः । स एवात्मा ततः सर्वं जीवेशौ विषया अपि ॥ ३०॥ मायाकार्यमिदं यस्मात् केवलोऽसावविक्रियः । नानेन बाध्यते किञ्चित् पटश्चित्राग्निना यथा ॥ ३१॥ तदाभासमयं चेदं स एव परमार्थतः । यदेवाद्यन्तयोरेतन्मध्ये चेदं तदेव हि ॥ ३२॥ विश्वं विवेकदृष्ट्यैवं स्वात्मनि प्रविलापयेत् । प्रविलापनदृष्ट्या हि स्वान्वेषणक्षमं मनः ॥ ३३॥ स्वान्वेषणस्य चात्रैव प्रकार उपदिश्यते । तेन स्वरूपेऽवस्थानं जगद्भ्रमविनाशतः ॥ ३४॥ तटस्थलक्षणं दिष्टमेवं तस्य परात्मनः । स्वरूपलक्षणं त्वत्र सूचितं चोपलक्ष्यते ॥ ३५॥ स्वरूपं तत् स्फुटीकुर्वन् शिवस्य परमात्मनः । तस्यैवात्मत्वमस्माकं दर्शयत्यतिशोभनम् ॥ ३६॥ आत्मत्वेनाखिलस्यान्तरहमित्यनिशं स्वयम् । भात्यसौ नान्य आत्माऽस्ति स्वरूपं तदिदं विभोः ॥ ३७॥ नृत्यसीति पदेनात्र दिष्टाऽऽनन्दस्वरूपता । आत्मभूतस्य तुर्यस्य तदसंसारिताऽऽत्मनः ॥ ३८॥ स्वयैव मायया देवो विमोहित इव स्वयम् । भ्रमतीवात्र संसारे मायाऽसौ न तु विद्यते ॥ ३९॥ अर्थाद्व्यावर्तनं चापि देहादीनामनात्मनाम् । कृतमेवेत्यतस्तेषु जह्यादात्मत्वभावनाम् ॥ ४०॥ सर्वे वयं स एव स्मो न देहा नापि देहिनः । नाज्ञानं न च संसार इत्येषा परमार्थता ॥ ४१॥ मनः कल्पयते देहान् जीवांश्च विषयानहो । जाग्रत्यपि यथा स्वप्ने मायैषा मन एव हि ॥ ४२॥ शुद्धचिद्रूप आत्मैव सत्यो नान्यस्ततः शिवः । एष वेदान्तसिद्धान्त उक्तः स्वीयानुभूतितः ॥ ४३॥ प्रेष्ठ आत्मैव सर्वेषां तदर्थमितरत् प्रियम् । अत आनन्दरूपत्वमात्मनो गम्यते स्फुटम् ॥ ४४॥ तदानन्दकणा एव ह्यानन्दा लौकिकाः स्मृताः । आत्मलाभसमो नास्तीत्यत एवोच्यते बुधैः ॥ ४५॥ बहिर्मुखत्वहानाय दिश्यते हृदि तत्स्थितिः । अन्तर्मुखतया ह्येव साधने सम्प्रवर्तनम् ॥ ४६॥ परमार्थतया त्वेष परमो हृदयं स्वयम् । सर्वाधारस्य सत्यस्य मिथ्यैवाधारकल्पना ॥ ४७॥
तृतीयश्लोकः अहमिति कुत आयाती- त्यन्विष्यान्तः प्रविष्टयाऽत्यमलधिया । अवगम्य स्वं रूपं शाम्यत्यरुणाचल त्वयि नदीवाब्धौ॥ तृतीयश्लोकस्यानुवादः उदेत्यहं कुतस्स एष इत्यतीव शुद्धया धिया हृदि प्रविष्टया विमृग्य तत्त्वमात्मनः । अवैति चेच्चिदात्मकं भवन्तमात्मरूपतो नदीव सङ्गताऽम्बुधिं त्वयि प्रशान्तिमेति धीः॥ वार्त्तिकम् ज्ञात्वैवमात्मलाभाय यतमानस्य सिद्धये । ऋजुमार्गस्तृतीयेन विस्पष्टमुपदिश्यते ॥ ४८॥ आभासमात्रो जीवोऽयं चिज्जडग्रन्थिरूपकः । तच्चिदंशनिदानं तु भवत्यात्मा परः स्वयम् ॥ ४९॥ हित्वा जडांशं देहादि शिष्टां चैतन्यरूपिणीम् । शुद्धाहन्तां समादाय तन्मूलं स्वं गवेषयेत् ॥ ५०॥ निमज्जेत् सलिले लब्धुं मग्नं वस्तु यथा तथा । अहन्तामूलमन्विष्यन् निमज्जेत् साधको हृदि ॥ ५१॥ स्वामिनो गन्धमादाय यथा श्वा तं गवेषयेत् । शुद्धाहन्तां तथाऽऽदाय धीः स्वमूलं गवेषयेत् ॥ ५२॥ गवेषणे स्थिरीभूतं मनो विशति हृद्गुहाम् । तदा भायात् स्वभासाऽऽत्मा शाम्येदपि मनोऽन्ततः ॥ ५३॥ मनोनाशादपार्थक्यं स्वतः सिद्धं प्रकाशते । मनःकृतो हि भेदोऽयं द्वयोर्ब्रह्मात्मनोरिह ॥ ५४॥ इदमन्वेषणात् स्वस्य तत्त्वस्य हृदि मज्जनम् । साधनं परमं मुक्तेर्विचार इति चोच्यते ॥ ५५॥ अत्यन्त्यैक्यमनावृत्तिं दर्शयिष्यन्नतो गुरुः । नदीं दृष्टान्तयत्यब्धिं गत्वा तद्रूपतां गताम् ॥ ५६॥ आत्मानुभूतिरेषैव मुक्तिरित्यभिधीयते । सत्या स्थितिः परं धाम कैवल्यं सहजा स्थितिः ॥ ५७॥ स्वज्ञानममृतत्वं च मौनं निर्भयतेत्युत । स्थितिमेतां परां तुर्यां शंसन्ति बहुधा बुधाः ॥ ५८॥ आत्मा तु ज्ञेयतां नैति तुर्ये ज्ञाताऽपि नास्ति हि । ज्ञानाज्ञानविनिर्मुक्त आत्मा ज्ञानस्वरूपकः ॥ ५९॥ ज्ञेयज्ञातृविहिनोऽसावात्मा भवति केवलः । अनात्मन्यात्मधीनाशः स्वात्मज्ञानमितीर्यते ॥ ६०॥ नष्टं यस्य विचारेण मनो हृदि निमज्जनात् । आत्मैव स हि नात्मज्ञो ब्रह्मैव ब्रह्मविन्नहि ॥ ६१॥ ब्रह्मब्रह्मज्ञयोर्भेदं मन्वानः पारमार्थिकम् । मिथ्याग्रहेण तेनैव प्रतिबध्येत साधकः ॥ ६२॥ ज्ञानाद्विमुक्तिरित्युक्तेर्ज्ञानमित्यर्थ एव हि । न ज्ञानं कारणं मुक्तेर्मुक्तिर्ज्ञानफलं च न ॥ ६३॥ आत्मनः सहजा मुक्तिः स्वरूपं ज्ञानमात्मनः । स मुक्तिर्नित्यसिद्धैव स्वयमेव स्वकारणम् । व्यावहारिकदृष्ट्या तु ज्ञानान्मुक्तिरितीर्यते ॥ ६४॥ न वक्तुं नापि मन्तुं वा शक्यमेतत् परं पदम् । मौनव्याख्याननिर्देश्यं वेद्यं च स्वानुभूतितः ॥ ६५॥ न वक्ता न च मन्ता वा तत्र कश्चन शिष्यते । अत एतत् पदं तुर्यं मौनमित्यभिधीयते ॥ ६६॥ वाचोऽपि मनसा साकं निवर्तन्ते यतोऽद्वयात् । अनुभूय तमानन्दं न बिभेति कुतश्चन ॥ ६७॥ यत्रास्ति भेदविज्ञानं नाभीतिस्तत्र कर्हिचित् । इति च श्रूयते यस्मात् तुर्यमेवाभयं पदम् ॥ ६८॥ स्वस्वरूपपरिज्ञानात् कथमैक्यं परात्मना । इति प्रश्नो निराधार ऐक्यं स्वाभाविकं यतः ॥ ६९॥ अत्रोक्तेन विचारेण लभ्यैषा परमा गतिः । नान्यथा लभ्यते सेयमिति वेदान्तनिर्णयः ॥ ७०॥ इह दिष्टः स एवार्थो नदीदृष्टान्तयोजनात् । अन्यत्रानेकधा चापि स्पष्टं भगवता सताम् ॥ ७१॥ नोपासनेन योगेन पुण्यैर्वाऽपि च कर्मभिः । लभ्येतेदं पदं तुर्यमित्येवं च प्रदर्शितम् ॥ ७२॥ मिथ्येयं जीवता यावन्न लुप्येत विचारणात् । तावत् संसारनिर्मोक्षो न भवेत् किल देहिनाम् ॥ ७३॥ जीवत्वमादिमो धर्मः कर्तृत्वाद्यास्तदाश्रयाः । जीवताऽऽरोपिता पूर्वं कर्तृत्वाद्यास्ततः परम् । जीवत्वनाशे सर्वेषां नाशोऽतः सहजा स्थितिः ॥ ७४॥ सर्वधर्मपरित्यागो यो गीतासु विधीयते । कर्तृत्वादिकहानं स जीवत्वत्यागपूर्वकम् ॥ ७५॥ सर्वधर्मपरित्यागो जीवत्वत्याग एव हि । अत्यागे जीवतायास्तु त्यक्तो धर्मो न कश्चन ॥ ७६॥ इत्यौपनिषदं स्वास्थ्यं परमं पदमव्ययम् । अत्रोपदिष्टं द्रष्टव्यमद्वैतं तुर्यनामकम् ॥ ७७॥ ऋजुमार्गमिमं हित्वा चरन्त्यन्यपथा तु ये । कालेन परमं धाम यान्ति ते हृन्निमज्जनात् ॥ ७८॥
चतुर्थश्लोकः त्यक्त्वा विषयं बाह्यं रुद्धप्राणेन रुद्धमनसाऽन्तस्त्वाम् । ध्यायन्पश्यति योगी दीधितिमरुणाचल त्वयि महीयं ते॥ चतुर्थश्लोकस्यानुवादः विहाय बाह्यवस्तु वायुरोधनान्मनो हठा- न्निरुध्य योगगस्स्मरन् भवन्तमेव सर्वदा । महिम्नि लीनधीः प्रभे क्षणेन मोदते भृशं अथोत्थितस्स वासनेन चेतसा तु संसरेत्॥ वार्त्तिकम् शिष्येते यतमानौ द्वौ योगी प्रेमी परात्मनि । चतुर्थे योगिनं वक्ति प्रेमिणं पञ्चमे गुरुः ॥ ७९॥ तत्र योगी हठाद्रुद्ध्वा प्राणायामेन मानसम् । चिज्ज्योतिर्वीक्षणं लब्ध्वा तदानीं मोदते भृशम् ॥ ८०॥ मनोरोधो हठात् सिद्धो न स्थिरो भविता क्वचित् । लीनमेव मनस्तिष्ठेत् सवासनमथोदियात् ॥ ८१॥ मनोनाशेन मुक्तिर्हि न लयेन कदाचन । लीनं हि पुनरायाति नष्टं नैवोदियात् पुनः । अनाशान्मनसो योगी जीवत्वं न जहाति हि ॥ ८२॥ स्फुटीकर्तुमिमं भेदं मनसो लयनाशयोः । गुरुर्वक्ति पुरावृत्तां कथां कस्यापि योगिनः ॥ ८३॥ समाधेर्व्युत्थितो योगी पिपासार्दितमानसः । शिष्यमादिश्य तीर्थाय समाधिं प्राविशत् पुनः ॥ ८४॥ ययुः शतानि वर्षाणां व्युत्थितोऽभूत् ततः परम् । जलाथप्रेषितं शिष्यं वेगेनाथ स्मरंस्तदा । उवाचोच्चैश्च भोस्तीर्थं किमानीतं त्वयेत्यसौ ॥ ८५॥ पिपासावासनायुक्तं मनो लीनं ह्यभूच्चिरम् । उदियाय च वेगेन समाधेर्व्युत्थितस्य हि । अनाशान्मनसो ह्येवं वेगेन स्मृतिरुद्गता ॥ ८६॥ महिम्नि रमते योगी न स्वरूपं प्रपद्यते । इत्युक्त्या योगिनो भोगो दिश्यते न तु मोक्षणम् ॥ ८७॥ अल्पमप्यन्तरं कृत्वा भयमेतीति च श्रुतेः । नाभयं विन्दते योगीत्ययमर्थो निरूपितः ॥ ८८॥ विना विवेकमत्रोक्तं स्वशक्त्या च हठेन च । यतमानो हि दिष्टोऽत्र न तु सर्वोऽपि योगगः ॥ ८९॥ यावन्न सज्जते सोऽयं विचारेऽहङ्कृतिं त्यजन् । परं वा शरणं याति तावन्नायं विमुच्यते ॥ ९०॥ वार्त्तिकम् अतो विशिष्यते प्रेमी तदर्पितमनाः सदा । विस्मृत्य स्वं च तत्प्रेम्णा वीक्षते तन्मयं जगत् ॥ ९१॥ ᳚ यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ᳚ ॥ ९२॥ ᳚ योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ᳚॥ इति गीतासु सन्दिष्टं पारम्यं प्रेमिणः किल ॥ ९३॥ पश्यंस्तं स सदा प्रेष्ठं तदानन्दे निमग्नधीः । मुक्तप्रायो ह्यसौ कालान्मुक्तिमात्यन्तिकीं व्रजेत् ॥ ९४॥ भक्तियोगेन लभ्येत परस्मिन् प्रेम शोभनम् । उक्ता भागवते भक्तिर्नवधा श्रवणादिका । प्रपत्तिर्नवमा तत्तु परस्मै स्वनिवेदनम् ॥ ९५॥ ᳚ दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ᳚॥ इत्युपायः प्रपत्तिर्हि मायामोक्षाय दिश्यते ॥ ९६॥ मायया विषयेष्वेव प्रीतिः सञ्जायते नृणाम् । प्रपन्नो मायया मुक्तः परस्मिन् प्रेमवान् भवेत् ॥ ९७॥ अतः परस्मिन् कर्तव्या भक्तिः परमशोभना । आत्मत्वेन पृथक्त्वेन कथञ्चित् परमं भजेत् ॥ ९८॥ भजनात् प्रेम्णि सञ्जाते पार्थक्यं स्रंसते चिरात् । अभेदः शिष्यते सत्य एवं भक्तः कृती भवेत् ॥ ९९॥ प्रेमवाञ्जयतीत्युक्त्या योगिभ्योऽसौ विशिष्यते । अतो विचारे नो चेद्धीरिच्छेत् प्रेम्णाऽऽप्तुमीश्वरम् ॥ १००॥ स्तोत्रसमुदायार्थः ᳚ न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ᳚ । इति पूर्वोक्तमेवार्थमिव दर्शयति स्वयम् ॥ १०१॥ वृद्ध इत्युच्यते ज्ञानी प्रेमी बाल इतीर्यते । अहङ्कारपरीतात्मा योगी प्रोक्तो युवेति च ॥ १०२॥ अत्र यौवनमेवाद्यं ततो बालत्ववृद्धते । साहङ्कारत्वमेवादौ निरहङ्कारता परा । योगाद्भक्तिस्ततः प्रेम ततो ज्ञानमिति क्रमः ॥ १०३॥ उत्तमो भवति ज्ञानी निकृष्टो योगतत्परः । मध्यमो भवति प्रेमी तेषामेवं भिदा मता ॥ १०४॥ मोक्षकारणसामग्र्यां भक्तिरेव गरीयसी । भक्तिप्रकारे सर्वस्मिन् विचारः परमोत्तमः ॥ १०५॥ विचारेणान्नतां याति परमस्य स्वयं हृदि । विचारी परमो भक्तो ज्ञात्वैवं स्वं विचारयन् ॥ १०६॥ विचारेणैव सम्पूर्णं परस्मै स्वनिवेदनम् । विचारेणान्नतामेत्य न ततो भिद्यते यतः ॥ १०७॥ मङ्गलम् ईश्वरो गुरुरात्मेति मूर्तिभेदविभागिने । परस्मै रमणाख्याय पञ्चरत्नकृते नमः ॥ १०८॥ इति शिवम्
In another Ashram publication, there is an addition of another verse (as below) one of Ganapati Muni's disciples, Daivarata, wrote a Tamil verse and colophon in praise of the stotra. Maharshi translated this in Sanskrit. The original pancharatna was एतद् रमण महर्षेर्दर्शनमरुणाचलस्य देवगिरा । पञ्चकमार्यागीतौ रत्नं त्विदमौपनिषदं हि ॥ इति श्री पाराशर्यस्य भगवतो महर्षेराचार्य रमणस्य दर्शनमरुणाचलपञ्चरत्नम् ॥ This work is published by Sri Ramanasramam www.sriramanamaharshi.org It has been approved to be posted on Sanskrit.World by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.