अक्षर आकार:

अर्धनारीश्वर्यष्टोत्तरशतनामावलिः

Ardhanarishvari Ashtottarashatanamavali

अर्धनारीश्वर्यष्टोत्तरशतनामावलिः

ॐ चामुण्डिकाम्बायै नमः श्रीकण्ठाय नमः । ॐ पार्वत्यै नमः परमेश्वराय नमः । ॐ महाराज्ञ्यै नमः महादेवाय नमः । ॐ सदाराध्यायै नमः सदाशिवाय नमः । ॐ शिवार्धाङ्ग्यै नमः शिवार्धाङ्गाय नमः । ॐ भैरव्यै नमः कालभैरवाय नमः । ॐ शक्तित्रितयरूपाढ्यायै नमः मूर्तित्रितयरूपवते नमः । ॐ कामकोटिसुपीठस्थायै नमः काशीक्षेत्रसमाश्रयाय नमः । ॐ दाक्षायण्यै नमः दक्षवैरिणे नमः । ॐ शूलिन्यै नमः शूलधारकाय नमः । १० ॐ ह्रीङ्कारपञ्जरशुक्यै नमः हरिशङ्कररूपवते नमः । ॐ श्रीमदग्नेशजनन्यै नमः षडाननसुजन्मभुवे नमः । ॐ पञ्चप्रेतासनारूढायै नमः पञ्चब्रह्मस्वरूपभृते नमः । ॐ चण्डमुण्डशिरश्छेत्र्यै नमः जलन्धरशिरोहराय नमः । ॐ सिंहवाहिन्यै नमः वृषारूढाय नमः । ॐ श्यामाभायै नमः स्फटिकप्रभाय नमः । ॐ महिषासुरसंहर्त्र्यै नमः गजासुरविमर्दनाय नमः । ॐ महाबलाचलावासायै नमः महाकैलासवासभुवे नमः । ॐ भद्रकाल्यै नमः वीरभद्राय नमः । ॐ मीनाक्ष्यै नमः सुन्दरेश्वराय नमः । २० ॐ भण्डासुरादिसंहर्त्र्यै नमः दुष्टान्धकविमर्दनाय नमः । ॐ मधुकैटभसंहर्त्र्यै नमः मधुरापुरनायकाय नमः । ॐ कालत्रयस्वरूपाढ्यायै नमः कार्यत्रयविधायकाय नमः । ॐ गिरिजातायै नमः गिरीशाय नमः । ॐ वैष्णव्यै नमः विष्णुवल्लभाय नमः । ॐ विशालाक्ष्यै नमः विश्वनाथाय नमः । ॐ पुष्पास्त्रायै नमः विष्णुमार्गणाय नमः । ॐ कौसुम्भवसनोपेतायै नमः व्याघ्रचर्माम्बरावृताय नमः । ॐ मूलप्रकृतिरूपाढ्यायै नमः परब्रह्मस्वरूपवाते नमः । ॐ रुण्डमालाविभूषाढ्यायै नमः लसद्रुद्राक्षमालिकाय नमः । ३० ॐ मनोरूपेक्षुकोदण्डायै नमः महामेरुधनुर्धराय नमः । ॐ चन्द्रचूडायै नमः चन्द्रमौलिने नमः । ॐ महामायायै नमः महेश्वराय नमः । ॐ महाकाल्यै नमः महाकालाय नमः । ॐ दिव्यरूपायै नमः दिगम्बराय नमः । ॐ बिन्दुपीठसुखासीनायै नमः श्रीमदोङ्कारपीठगाय नमः । ॐ हरिद्राकुङ्कुमालिप्तायै नमः भस्मोद्धूलितविग्रहाय नमः । ॐ महापद्माटवीलोलायै नमः महाबिल्वाटवीप्रियाय नमः । ॐ सुधामय्यै नमः विषधराय नमः । ॐ मातङ्ग्यै नमः मुकुटेश्वराय नमः । ४० ॐ वेदवेद्यायै नमः वेदवाजिने नमः । ॐ चक्रेश्यै नमः विष्णुचक्रदाय नमः । ॐ जगन्मय्यै नमः जगद्रूपाय नमः । ॐ मृडाण्यै नमः मृत्युनाशनाय नमः । ॐ रामार्चितपदाम्भोजायै नमः कृष्णपुत्रवरप्रदाय नमः । ॐ रमावाणीसुसंसेव्यायै नमः विष्णुब्रह्मसुसेविताय नमः । ॐ सूर्यचन्द्राग्निनयनायै नमः तेजस्त्रयविलोचनाय नमः । ॐ चिदग्निकुण्डसम्भूतायै नमः महालिङ्गसमुद्भवाय नमः । ॐ कम्बुकण्ठ्यै नमः कालकण्ठाय नमः । ॐ वज्रेश्यै नमः वज्रपूजिताय नमः । ५० ॐ त्रिकण्टक्यै नमः त्रिभङ्गीशाय नमः । ॐ भस्मरक्षायै नमः स्मरान्तकाय नमः । ॐ हयग्रीववरोद्धात्र्यै नमः मार्कण्डेयवरप्रदाय नमः । ॐ चिन्तामणिगृहावासायै नमः मन्दराचलमन्दिराय नमः । ॐ विन्ध्याचलकृतावासायै नमः विन्ध्यशैलार्यपूजिताय नमः । ॐ मनोन्मन्यै नमः लिङ्गरूपाय नमः । ॐ जगदम्बायै नमः जगत्पित्रे नमः । ॐ योगनिद्रायै नमः योगगम्याय नमः । ॐ भवान्यै नमः भवमूर्तिमते नमः । ॐ श्रीचक्रात्मरथारूढायै नमः धरणीधरसंस्थिताय नमः । ६० ॐ श्रीविद्यावेद्यमहिमायै नमः निगमागमसंश्रयाय नमः । ॐ दशशीर्षसमायुक्तायै नमः पञ्चविंशतिशीर्षवते नमः । ॐ अष्टादशभुजायुक्तायै नमः पञ्चाशत्करमण्डिताय नमः । ॐ ब्राह्म्यादिमातृकारूपायै नमः शताष्टेकादशात्मवते नमः । ॐ स्थिरायै नमः स्थाणवे नमः । ॐ बालायै नमः सद्योजाताय नमः । ॐ उमायै नमः मृडाय नमः । ॐ शिवायै नमः शिवाय नमः । ॐ रुद्राण्यै नमः रुद्राय नमः । ॐ शैवेश्वर्यै नमः ईश्वराय नमः । ७० ॐ कदम्बकाननावासायै नमः दारुकारण्यलोलुपाय नमः । ॐ नवाक्षरीमनुस्तुत्यायै नमः पञ्चाक्षरमनुप्रियाय नमः । ॐ नवावरणसम्पूज्यायै नमः पञ्चायतनपूजिताय नमः । ॐ देहस्थषट्चक्रदेव्यै नमः दहराकाशमध्यगाय नमः । ॐ योगिनीगणसंसेव्यायै नमः भृङ्ग्यादिप्रमथावृताय नमः । ॐ उग्रतारायै नमः घोररूपाय नमः । ॐ शर्वाण्यै नमः शर्वमूर्तिमते नमः । ॐ नागवेण्यै नमः नागभूषाय नमः । ॐ मन्त्रिण्यै नमः मन्त्रदैवताय नमः । ॐ ज्वलज्जिह्वायै नमः ज्वलन्नेत्राय नमः । ८० ॐ दण्डनाथायै नमः दृगायुधाय नमः । ॐ पार्थाञ्जनास्त्रसन्दात्र्यै नमः पार्थपाशुपतास्त्रदाय नमः । ॐ पुष्पवच्चक्रताटङ्कायै नमः फणिराजसुकुण्डलाय नमः । ॐ बाणपुत्रीवरोद्धात्र्यै नमः बाणासुरवरप्रदाय नमः । ॐ व्यालकञ्चुकसंवीतायै नमः व्यालयज्ञोपवीतवते नमः । ॐ नवलावण्यरूपाढ्यायै नमः नवयौवनविग्रहाय नमः । ॐ नाट्यप्रियायै नमः नाट्यमूर्तये नमः । ॐ त्रिसन्ध्यायै नमः त्रिपुरान्तकाय नमः । ॐ तन्त्रोपचारसुप्रीतायै नमः तन्त्रादिमविधायकाय नमः । ॐ नववल्लीष्टवरदायै नमः नववीरसुजन्मभुवे नमः । ९० ॐ भ्रमरज्यायै नमः वासुकिज्याय नमः । ॐ भेरुण्डायै नमः भीमपूजिताय नमः । ॐ निशुम्भशुम्भदमन्यै नमः नीचापस्मारमर्दनाय नमः । ॐ सहस्राम्बुजारूढायै नमः सहस्रकमलार्चिताय नमः । ॐ गङ्गासहोदर्यै नमः गङ्गाधराय नमः । ॐ गौर्यै नमः त्रयम्बकाय नमः । ॐ श्रीशैलभ्रमराम्बाख्यायै नमः मल्लिकार्जुनपूजिताय नमः । ॐ भवतापप्रशमन्यै नमः भवरोगनिवारकाय नमः । ॐ चन्द्रमण्डलमध्यस्थायै नमः मुनिमानसहंसकाय नमः । ॐ प्रत्यङ्गिरायै नमः प्रसन्नात्मने नमः । १०० ॐ कामेश्यै नमः कामरूपवते नमः । ॐ स्वयम्प्रभायै नमः स्वप्रकाशाय नमः । ॐ कालरात्र्यै नमः कृतान्तहृदे नमः । ॐ सदान्नपूर्णायै नमः भिक्षाटाय नमः । ॐ वनदुर्गायै नमः वसुप्रदाय नमः । ॐ सर्वचैतन्यरूपाढ्यायै नमः सच्चिदानन्दविग्रहाय नमः । ॐ सर्वमङ्गलरूपाढ्यायै नमः सर्वकल्याणदायकाय नमः । ॐ राजराजेश्वर्यै नमः श्रीमद्राजराजप्रियङ्कराय नमः । १०८ इति अर्धनारीश्वर्यष्टोत्तरशतनामावलिः समाप्ता ।