अक्षर आकार:

अर्धनारीश्वरस्तोत्रम् ३

ardhanArIshvarastotram 3

अर्धनारीश्वरस्तोत्रम् ३

ब्रह्मोवाच - जय देव महादेव जयेश्वर महेश्वर । जय सर्वगुणश्रेष्ठ जय सर्वसुराधिप ॥ १॥ जय प्रकृतिकल्याणि जय प्रकृतिनायिके । जय प्रकृतिदूरे त्वं जय प्रकृतिसुन्दरि ॥ २॥ जयामोघमहामाय जयामोघमनोरथ । जयामोघमहालील जयामोघमहाबल ॥ ३॥ जय विश्वजगन्मातर्जय विश्वजगन्मये । जय विश्वजगद्धात्रि जय विश्वजगत्सखि ॥ ४॥ जय शाश्वतिकैश्वर्ये जय शाश्वतिकालय । जय शाश्वतिकाकार जयशाश्वतिकानुग ॥ ५॥ जयात्मत्रयनिर्मात्रि जयात्मत्रयपालिनि । जयात्मत्रयसंहर्त्रि जयात्मत्रयनायिके ॥ ६॥ जयावलोकनायत्तजगत्कारणबृंहण । var जयावलोकनोत्कृष्ट जयोपेक्षाकटाक्षोत्थहुतभुग्भुक्तमौक्तिक ॥ ७॥ जय देवाद्यविज्ञेयस्वात्मसूक्ष्मदृशोज्ज्वले । जय स्थूलात्मशक्त्येशेजय व्याप्तचराचरे ॥ ८॥ var स्थूलात्मशक्त्यंशव्याप्तविश्वचराचरे जय नामैकविन्यस्तविश्वतत्त्वसमुच्चय । जयासुरशिरोनिष्ठश्रेष्ठानुगकदम्बक ॥ ९॥ जयोपाश्रितसंरक्षां संविधानपटीयसी । जयोन्मूलितसंसारविषवृक्षाङ्कुरोद्गमे ॥ १०॥ जय प्रादेशिकैश्वर्यवीर्यशौर्यविजृम्भिणे । जय विश्वबहिर्भूत निरस्तपरवैभव ॥ ११॥ जय प्रणीतपञ्चार्थप्रयोगपरमामृत । जय पञ्चार्थविज्ञानसुधास्तोत्रस्वरूपिणे ॥ १२॥ var सुखस्रोतःस्वरूपिणे जयति घोरसंसारमहारोगभिषग्वर । जयानादिमलाज्ञानतमःपटलचन्द्रिके ॥ १३॥ जय त्रिपुरकालाग्ने जय त्रिपुरभैरवि । जय त्रिगुणनिर्मुक्ते जय त्रिगुणमर्दिनि ॥ १४॥ जय प्रथमसर्वज्ञ जय सर्वप्रबोधिक । var प्रमथसर्वज्ञ जय प्रचुरदिव्याङ्ग जय प्रार्थितदायिनि ॥ १५॥ क्व देव ते परं धाम क्व च तुच्छं च नो वचः । तथापि भगवन् भक्त्या प्रलपन्तं क्षमस्व माम् ॥ १६॥ विज्ञाप्यैवंविधैः सूक्तैर्विश्वकर्मा चतुर्मुखः । नमश्चकार रुद्राय रुद्राण्यै च मुहुर्मुहुः ॥ १७॥ इदं स्तोत्रवरं पुण्यं ब्रह्मणा समुदीरितम् । अर्धनारीश्वरं नाम शिवयोर्हर्षवर्धनम् ॥ १८॥ य इदं कीर्तयेद्भक्त्या यस्य कस्यापि शिक्षया । var शुचिस्तद्गतमानसः । महत्फलमवाप्नोति शिवयोः प्रीतिकारणात् ॥ १९॥ सकलभुवनभूतभावनाभ्यां जननविनाशविहीनविग्रहाभ्याम् । नरवरयुवतीवपुर्धराभ्यां सततमहं प्रणतोऽस्मि शङ्कराभ्याम् ॥ २०॥ ॥ इति श्रीशैवे महापुराणे वायवीयसंहितायां पूर्वभागे शिवशिवास्तुतिवर्णनं नाम पञ्चदशाध्याये अर्धनारीश्वरस्तोत्रं सम्पूर्णम् ॥