अक्षर आकार:

अर्धनारीश्वरस्तोत्रम्

ardhanArIshvarastotram

अर्धनारीश्वरस्तोत्रम्

श्रीगणेशाय नमः ॥ मन्दारमालालुलितालकायै कपालमालाङ्कितशेखराय । दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय ॥ १॥ एकः स्तनस्तुङ्गतरः परस्य वार्तामिव प्रष्टुमगान्मुखाग्रम् । यस्याः प्रियार्धस्थितिमुद्वहन्त्याः सा पातु वः पर्वतराजपुत्री ॥ २॥ यस्योपवीतगुण एव फणावृतैक- वक्षोरुहः कुचपटीयति वामभागे । तस्मै ममास्तु तमसामवसानसीम्ने चन्द्रार्धमौलिशिरसे च नमः शिवाय ॥ ३॥ स्वेदार्द्रवामकुचमण्डनपत्रभङ्ग- संशोषिदक्षिणकराङ्गुलिभस्मरेणुः । स्त्रीपुंनपुंसकपदव्यतिलङ्घिनी वः शम्भोस्तनुः सुखयतु प्रकृतिश्चतुर्थी ॥ ४॥ इत्यर्धनारीश्वरस्तोत्रं सम्पूर्णम् ।