अक्षर आकार:

अर्धनारीश्वरसहस्रनामावलिः

ardhanArIshvarasahasranAmAvaliH

अर्धनारीश्वरसहस्रनामावलिः

ॐ अखण्डमण्डलाकाराय नमः । अखिलाण्डेकनायिकायै । अमरेन्द्रार्चितपदाय । अमरारिनिषूदिन्यै । अनादिनिधनाय । अनन्तकोटिसूर्यसमप्रभायै । अनन्ताय । अनन्तभूतेश्यै । अजिताय । अमितविक्रमायै । अविनाशपदस्थेम्ने । अवाङ्मनसगोचरायै । अनन्तकोटिकल्याणगुणाय । अनन्तगुणाश्रयायै । अघघ्ने । अघसंहन्यै । अवेद्याय । अदितिवन्दितायै । अपवर्गप्रदात्रे । अखिलाभीष्टदायिन्यै नमः । २० ॐ आदिमध्यान्तरहिताय नमः । आदित्यायुतभासुरायै । आगमाभ्यर्चितपदाय । आमायार्थविलासिन्यै । आखण्डलमुखस्तुत्याय । आत्मानन्दविधायिन्यै । आशापालसमाराध्याय । आधिव्याधिविनाशिन्यै । आपददीन्द्रदम्भोलये । आपन्नार्तिप्रभञ्जनायै । आदित्यमण्डलान्तःस्थाय । आदिशक्तिस्वपिरूण्यै । आशावराम्बरधराय । आशान्तैश्वर्यदायिन्यै । आनन्दलहरीपूर्णाय । आनन्दोल्लासशालिन्यै । आचान्तदुरितस्तोमाय । आधाराधेयरूपिण्यै । आध्यात्मिकाधिशमनाय । आगोवृन्दनिवारिण्यै नमः । ४० ॐ इन्दिरापतिपूज्याङ्घ्रये नमः । इन्द्रादिस्तुतवैभवायै । इभचर्माम्बरधराय । इभकुम्भनिभस्तन्यै । इभवक्त्रमहासेनजनकाय । इष्टदायिन्यै । इष्टिघ्नाय । इष्टिकर्त्र्यै । इयत्तातीतविक्रमाय । इच्छाज्ञानक्रियाशक्त्यै । इच्छाकलितविग्रहाय । इन्दिराभारतीदत्तहस्तयुग्मोल्लसत्करायै । इन्द्रयज्ञसुखाराध्याय । इडापिङ्गलामध्यगायै । इहामुत्रसुखाराध्याय । इन्दुबिम्बसमाननायै । इनेन्दुवह्निनयनाय । इन्दुचूडकुटुम्बिन्यै । इन्द्रियादिगुणातीताय । इन्द्राणीस्तुतिमोदितायै नमः । ६० ॐ ईषत्स्मितमुखाम्भोजाय नमः । ईश्वरार्धशरीरिण्यै । ईश्वराय । ईशवनितायै । ईड्याय । ईशित्वसिद्धिदायै । ईशानादिब्रह्मरूपाय । ईहाधिकफलप्रदायै । ईकारार्थरहस्यज्ञाय । ईकारार्थस्वरूपिण्यै । ईतिबाधाप्रशमनाय । ईशमायाविलासिन्यै । ईड्याय । ईशजीवातवे । ईषणात्यक्तचेतनाय । ईदृगित्यसंवेद्यायै । ईषणोर्जितदानवाय । ईशित्र्यै । ईप्सितकराय । ईश्वरत्वविधायिन्यै नमः । ८० ॐ उक्षेन्द्रवाहनारूढाय नमः । उत्पत्तिलयवर्जितायै । उन्नतैश्वर्यसम्पन्नाय । उत्सेधपददायिन्यै । उषापतिसमाराध्याय । उषाकोटिसमर्चितायै । उषर्बुधाक्षिनिर्दग्धानङ्गाय । उरुपराक्रमायै । उग्राय । उग्रप्रतापायै । उमापतये । उदारधिये । उद्यद्भानुप्रतीकाशाय । उन्नतस्तनमण्डलायै । उग्रदानवसंहत्रे । उत्सवप्रियमानसायै । उष्णिक्छन्दः स्वरूपाढ्याय । उरगाद्रिनिवासिन्यै । उदग्रश्रिये । उपनिषदुद्यानचरकोकिलायै नमः ।१०० ॐ ऊर्वशीगीतसन्तुष्टाय नमः । ऊर्ध्वाम्नायनिवासिन्यै । अर्ध्वरेतसे । ऊर्ध्वगत्यै । ऊनाधिकविवर्जिताय । ऊर्ध्वाण्डजन्मधारिण्यै । ऊर्जिताखिलशत्रुकाय । ऊष्माग्निकणसन्तप्तदिनेशाग्नीन्दुफालकायै । ऊचिषे । ऊचिष्मत्यै । ऊर्म्याय । ऊरुदेशान्तमार्दवायै । ऊरव्योत्तमवेषाय । ऊर्ध्वयोगातिगामिन्यै । ऊनवाच्याय । ऊनसाम्यायै । ऊर्ध्वताण्डवपण्डिताय । ऊर्ध्वलास्यसहायायै । ऊरीकृतसमस्तदाय । ऊर्जस्वन्मणिमालाढ्यायै नमः १२० ॐ ऋग्यजुःसामगायनाय नमः । ऋभुक्षास्तुतपादाब्जाये । ऋषिपत्नीसमर्चिताय । ऋषिराजर्षिसंवेद्यायै । ऋषये । ऋणविमोचिन्यै । ऋग्यजुःसामसारज्ञाय । ऋचां प्राचीतिसन्नुतायै । रुद्राक्षमालिकाभूषाय । रुद्राणीकोटिसेवितायै । रुद्रकोटिजितामित्राय । ऋतुशोणाम्बरावृतायै । ऋतुलक्ष्मीसहस्रेशाय । ऋक्षराजसमाननायै । ऋणत्रयविमुक्ताय । ऋणपातकनाशिन्यै । ऋगादिवेदविनुताय । ऋग्वेदार्थस्वरूपिण्यै । ऋतुनाथसखारातये । ऋतुकालमहोज्ज्वलायै नमः १४० ॐ क्रूरपापपरीहाराय नमः । क्रूरलोकपराङ्मुख्यै । रूपनिर्जितकन्दर्पाय । रूपलावण्यवारिधये । रूप्याचलनिवासाय । रूपयौवनशालिन्यै । भ्रूणयोगिगणाराध्याय । भ्रूणहार्तिविनाशिन्यै । भूभङ्गविलसद्वक्त्राय । भ्रूजितेन्द्रशरासनायै । लुप्तकन्दर्पगात्राय । श्लिष्टकान्तकलेबरायै । लुण्ठितारिपुराय । क्लृप्तवृत्तिसुराङ्गनायै । लब्धभक्तिप्रेयसे । लब्धभोगविडम्बिन्यै । लुलायवाहनारातये । लुलायासुरमर्दिन्यै । लुब्धभस्माङ्गरागाढ्याय । क्लृप्ताकल्पसमुज्ज्वलायै नमः । १६० ॐ लूनब्रह्मशिरसे नमः । लीढमदिरामोदविह्वलायै । क्लीब्याय । क्लीङ्कारनिलयायै । श्लाघ्याय । श्लाघ्यगुणाश्रयायै । म्लानेतरमुखाम्भोजाय । ब्लूं बीजार्थस्वरूपिण्यै । एणाङ्कचूडाय । एकाक्षर्यै । एकस्मै । एकान्तवासिन्यै । एषणारहिताय । एणलोचनायै । एधितोत्सवाय । एकान्तपूजनप्रीतायै । एकान्तध्यानतत्पराय । एकभोगायै । एकसौख्याय । एकैश्वर्यप्रदायिन्यै नमः । १८० ॐ एकभक्ताय नमः । एकगुणायै । एकान्ताध्वरदीक्षिताय । एकवीरप्रभापूरनिमज्जत्प्रियमानसायै । एनःकान्तारदावाग्नये । एकप्राभवशालिन्यै । एकसिद्धाय । एकक्लृप्त्यै । एकसृष्टये । एधितायै । एलाकर्पूरताम्बूलप्रीताय । एकान्तपूजितायै । एकविद्याय । एककान्तायै । एकभक्तिमदर्चिताय । ऐङ्कारबीजमात्राढ्यायै । ऐरावतपतिस्तुताय । ऐरावतसमारूढायै । ऐन्द्रलोकसमाश्रयाय । ऐकारशुक्तिकामुक्तामणये नमः । २०० ॐ ऐरावणार्चिताय नमः । ऐङ्कारादर्शबिम्बश्रियै । ऐङ्कारप्रतिभूमिकाय । ऐङ्कारमन्त्रसर्वस्वायै । ऐश्वर्याधिकशोभनाय । ऐन्द्रलोकविधात्र्यै । ऐश्वर्याष्टकदायकाय । ऐं ऐं-पदजपप्रीताय । ऐङ्कारमनुजापिकायै । ओङ्काररूपाय । ओङ्कारनिलयायै । ॐ पदाभिधाय । ओजोवत्यै । ओजस्विने । ओतप्रोतविवर्जितायै । ओषधीशार्धचूडाय । ओषधीफल- दायिन्यै । ओडामरेश्वराराध्याय । ओड्याणाभरणोज्ज्वलायै नमः । २२० ॐ तद्ब्रह्मपदस्थेम्ने नमः । ओड्याणपीठवासिन्यै । ओमित्येकाक्षरपदाय । ओषधीशसमाननायै । ओघीकृतमहातेजसे । ओघत्रयविलासिन्यै । ओसारमूलिकाकन्दाय । ओङ्कारावालवल्लर्यै । ओङ्कारगिरिहयरृक्षाय । ॐ नमस्कार वाच्यकायै । ओमापोज्योतिरादित्याय । ओडीशानन्दरूपिण्यै । औपम्यरहिताय । औदार्यशालिन्यै । औपद्रवापहाय । औडाय । और्वानलरुचये । औन्नत्यपददायिन्यै । औपासनपराय । औपनिषदर्थस्वरूपिण्यै नमः । २४० ॐ अम्बिकापतये नमः । अम्बायै । अन्तर्यामिणे । अन्तरात्मिकायै । अण्डकोटिसहस्रेशाय । अण्डाद्बाह्यनिकेतनायै । अन्धकासुरसंहारिणे । अन्तस्तिमिरभेदिन्यै । अन्तकारये । अनन्तश्रियै । अनन्ताय । अनन्तपूजितायै । अञ्जनातनयाराध्याय । अजनार्थविधायिन्यै । अङ्गीकृतमहाक्ष्वेलाय । अङ्कारोपितषण्मुखायै । अंशुमते । अंशुमत्सेव्यायै । अन्तकारातये । अङ्गनायै नमः । २६० ॐ अष्टविद्येश्वराराध्याय नमः । अष्टसिद्धिविधायिन्यै । अष्टमूर्तये । अष्टलक्ष्मीसेविताङ्घ्रिसरोरुहायै । अष्टाविंशागमस्तुत्याय । अष्टात्रिंशत्कलात्मिकायै । अष्टदिक्पालसेव्याङ्घ्रये । अष्टाष्टककलात्मकायै । अष्टादशपुराणज्ञाय । अष्टादशपुरीश्वर्यै । अष्टदिग्गजसंवीताय । अष्टवर्णविलासिन्यै । अष्टापदाद्रिकोदण्डाय । अष्टैश्वर्यप्रदायिन्यै । अष्टभैरवसंवीताय । अष्टद्वयवयोज्ज्वलायै । अष्टाक्षरीजपपराय । अष्टवाग्देवतावृतायै । अर्धाद्रिशिखरावासाय । अर्धनारीश्वरप्रियायै नमः । २८० ॐ अष्टाङ्गयोगनिरताय नमः । अष्टशक्तिपरीवृतायै । अष्टापदमहापीठाय । अष्टापदगिरिस्थितायै । आश्चर्यशीलाय । आश्चर्यनिलयायै । आश्चर्याय । आश्चर्यजन्यै । आश्चर्यनिष्ठाय । आश्चर्यदायिन्यै । आर्तिघ्नाय । आर्तिसंहर्त्र्यै । आकस्मिकमहोज्ज्वलाय । कल्याण्यै । कलिताकल्पाय । कल्याणाचलवासिन्यै । कमनीयगुणावासाय । कमलाक्षसहोदर्यै । कञ्जभूजनकाय । कञ्जनेत्र्यै नमः । ३०० ॐ कर्मफलप्रदाय नमः । कर्मकर्त्र्यै । कालकालाय । कन्दर्पावहदर्शनायै । कन्दर्पकोटिलावण्याय । कमलाक्ष्यै । कपालभृते । कात्यायन्यै । कालकालाय । काव्यालापविनोदिन्यै । काट्याय । कपर्दिसुखदायै । कैलासशिखरालयाय । कामेश्वरालिङ्गिताङ्यै । कामदाय । कलिनाशिन्यै । कर्मिणे । कामकलायै । कामकेलिविनोदनाय । कदम्बवाटीमध्यस्यायै नमः । ३२० ॐ कदम्बवननायकाय नमः । खट्वाङ्गादिप्रहरणायै । खड्गखेटकधारकाय । खगवाहद्वयादृश्यायै । खगराजपराक्रमाय । खगानेकप्रभायै । खेलाक्लृप्तब्रह्माण्डमण्डलाय । खेदघ्नखेचरीयोगदायिन्यै । खेचरेश्वराय । खञ्जरीटसमच्छायायै । खललोकपराङ्मुखाय । खश्यामायै । खगतिस्तुत्याय । खातपातविनाशिन्यै । खमूर्धजाय । खगगत्यै । खगाय । खगविधायिन्यै । खड्गरावणपूज्याङ्घ्रये । खगचारुपयोधरायै नमः । ३४० ॐ खण्डिताशेषपाषण्डाय नमः । खिन्नाभीष्टप्रदायिन्यै । गङ्गाधराय । गिरिसुतायै । गजास्यासुरसूदनाय । गम्भीरायै । गगनाकाराय । गजकुम्भनिभस्तन्यै । गजचर्मपरीधानाय । गन्धर्वकुलसेवितायै । गिरीन्द्रचापाय । गीर्वाणसन्नुतायै । गानलोलुपाय । गुहेभवक्त्रजनन्यै । गुह्यकेशसखाय । गुरवे । गुह्यकाराध्यचरणाय । गणनाथायै । गभीरधिये । गण्यायै नमः । ३६० ॐ गुरवे नमः । गुणातीतायै । गुणज्ञाय । गुणमातृकायै । गोविन्दाय । गोपिकाराध्यायै । गोपतये । गोमत्यै । गन्धर्वरूपाय । गन्धर्वकन्याकोटि- समर्चितायै । घनाय । घनागमश्यामायै । घनप्रौढाय । घनस्तन्यै । घृणिने । घृणानिधये । घ्राणाय । घृताचीपूज्यपादुकायै । घण्टामुखसुसंप्रीताय । घण्टारावविनोदिन्यै नमः । ३८० ॐ घनीभूतप्रभापूराय नमः । घलङ्घलितमेखलायै । घनसारविलिप्ताङ्गाय । घनसारसवर्णिन्यै । घूर्णमानजगत्प्राणाय । घूर्णितारक्तलोचनायै । घटोद्भवमुनिस्तुत्याय । घटोद्भवकृतानत्यै । घटोद्भवकृतस्रेहाय । घटाकारकुचद्वयायै । घोरदंष्ट्राकरालास्याय । घोरघोरस्वरूपिण्यै । घोषपालसहस्रेशाय । घोषान्तःपुरचारिण्यै । घोषितागमसर्वस्वाय । घोषिताम्नायवेदितायै । घोरपापाटवीदावाय । घोरपातकनाशिन्यै । घर्मादित्यप्रतीकाशाय । घर्मसन्तापचन्द्रिकायै नमः । ४०० ॐ घर्माग्निहोत्रसुप्रीताय नमः । घर्माहुतिफलप्रदायै । चतुरश्रगृहावासाय । चतुरङ्गबलेश्वर्यै । चतुश्चक्रसमाराध्याय । चतुर्वर्गफलप्रदायै । चातुर्यशालिने । चतुरायै । चतुराननदेशिकाय । चतुष्षष्टिमहादूतीयोगिनीगणसेवितायै । चन्द्रचूडाय । चन्द्रमुख्यै । चन्द्रादित्याग्निलोचनाय । चामीकराचलावासायै । चामीकरमहासनाय । चारुचामरहस्तश्रीशारदापरिवीजितायै । चन्द्रिकाधवलाकाराय । चक्रवाकनिभस्तन्यै । चापीकृतमहामेरवे । चापबाणलसत्करायै नमः । ४२० ॐ चक्रवालादिनिलयाय नमः । चक्रवाकप्रियङ्कर्यै । चक्रदानरताय । चक्रराजनिकेतनायै । चारुहासमुखाय । चारुचन्द्रकलाधरायै । चिते । चिच्छक्तये । चिद्घनाय । चिन्ताशोकविवर्जितायै । चित्राम्बराय । चित्रवेषायै । चित्रकृत्याय । चिदाकृत्यै । चर्माम्बराय । चक्रहस्तायै । चक्रपाणिवरप्रदाय । चैतन्यकुसुमप्रीतायै । चैतन्याय । चारुवादिन्यै नमः । ४४० ॐ चमूरुपाणये नमः । चाम्पेयनासिकायै । चम्पकप्रियाय । चञ्चलाक्ष्यै । चञ्चलात्मने । चञ्चरीककुलालकायै । चतुरास्यशिरश्छेत्त्रे । चण्डासुरनिदिन्यै । चण्डेश्वराय । चण्डिकायै । चित्रकृत्यविशारदाय । चित्ररूपायै । चित्तजारये । चित्यै । चिन्तितदायकाय । छान्दोग्यायै । छन्दसाराध्याय । छन्दोराशये । छविच्छादाय । छन्दोगायै नमः । ४६० ॐ छान्दसाराध्याय नमः । छत्रिण्यै । छविपञ्जराय । छायापतिसमाराध्यायै । छन्दसे । छायानुसारिण्यै । छन्दोऽभ्यासैकनिरताय । छन्दोगस्तुतिमोदिन्यै । छिन्नारिवर्गसङ्घाताय । छन्नपातकनाशिन्यै । छद्मदैत्यकुलच्छेत्रे । छायामण्डललक्षितायै । छायातपत्रसंवीताय । छन्नवीरपरिष्कृतायै । जननीजनकाय । जेत्र्यै । जित्वराय । जितमत्सरायै । जगदुज्जीवनकराय । जराध्वान्तरविप्रभायै नमः । ४८० ॐ जगत्प्राणाय नमः । जगत्कर्त्र्यै । जगदाह्लाददायकाय । जनविश्रान्तिदात्र्यै । जितकामाय । जयार्चितायै । जमदग्निसमाराध्याय । जमदग्निवरप्रदायै । जङ्गमाजङ्गमोत्सन्नाय । जङ्गमस्थावरात्मिकायै । जितामित्राय । जितक्रोधायै । जातिवर्णविवर्जिताय । जातीचम्पकपुन्नागविलसन्नीलकुन्तलायै । जाग्रदवस्थायाः साक्षिणे । जागद्रक्षणजाग्रत्यै । जम्भारिप्रमुखाराध्याय । जम्भारिमणिमण्डितायै । जातरूपाचलधनुषे । जगत्प्रलयसाक्षिण्यै नमः । ५०० ॐ झषदिरूपदशकसेविताङ्घ्रिसरोरुहाय नमः । झषाक्ष्यै । झषकेत्वङ्गदाहकाय । झम्पदाभिधायै । झर्झरारावरसिकाय । झल्लरीवाद्यकोविदायै । झटित्यभीष्टदात्रे । झलज्झलितमेखलायै । झषकेत्वङ्गजनकाय । झरीकृतसुभाषणायै । ज्ञानाय । ज्ञप्त्यै । ज्ञानरूपाय । ज्ञानज्ञेयविलासिन्यै । ज्ञानवेद्याय । ज्ञानगम्यायै । ज्ञानदाय । ज्ञानसिद्धिदायै । ज्ञानाधाराय । ज्ञानमुद्रायैनमः । ५२० ॐ ज्ञानयज्ञपरायणाय नमः । ज्ञानदृष्टिप्रतीतायै । ज्ञानदृष्टिप्रकाशकाय । ज्ञाननिष्ठायै । ज्ञाननिधये । ज्ञातव्यार्थप्रकाशिन्यै । ज्ञातिहीनाय । ज्ञानयज्ञदीक्षितायै । ज्ञानवृद्धिदाय । ज्ञाननिष्ठजनप्रीतायै । ज्ञानशास्त्रप्रवर्तकाय । ज्ञानाम्बुनिधिपूर्णेन्दवे । ज्ञानामृतमहोदधये । ज्ञानज्ञेयज्ञातृरूपत्रिपुटीवीक्षणातिगायै । टङ्काद्यायुधसम्पन्नाय । टङ्काराक्षररूपिण्यै । टङ्काराकारचन्द्रश्रिये । टङ्कारामृतवर्षिण्यै । डाकिनीशक्तिसंयुक्ताय । डाकिन्यादिपरीवृतायै नमः । ५४० ॐ डिण्डिमध्वनिसुप्रीताय नमः । डाडिमीकुसुमप्रभायै । ढक्कावाद्यविशेषज्ञाय । ढकाराक्षररूपिण्यै । ताम्राय । ताम्राधरायै । तत्त्वाय । तटिद्गौर्यै । तमोनुदाय । तरुणार्कप्रतीकाशायै । तरुणेन्दुशिखामणये । तापत्रयाग्निशमनायै । तारकाय । ताम्रलोचनायै । तरुणाय । तरुण्यै । तपोमूर्तये । त्रयीमय्यै । तापसान्तरसञ्चारिणे । तापसीवेषधारिण्यै नमः । ५६० ॐ तारस्वरूपाय नमः । तारेशवदनायै । ताण्डवप्रियाय । तन्व्यै । ताम्रजटाजूटाय । तमालश्यामलाकृत्यै । त्र्यम्बकाय । त्रिकोणेश्यै । त्रिमूर्तये । त्रिपुराम्बिकायै । त्रिकूटज्ञाय । त्रिकूटेश्यै । त्रिविष्टपपदप्रदाय । त्र्यक्षर्यै । त्रिगुणातीताय । त्रिदशश्रीसमावृतायै । त्रिकालज्ञाय । त्रिलोकेश्यै । त्रेताग्नये । त्रिपदात्मिकायै नमः । ५८० ॐ देवेशाय दक्षिणामूर्तये नमः । दक्षयज्ञविनाशिन्यै । देवदानवसेव्याङ्घ्रये । दरस्मेरमुखाम्बुजायै । दर्वीकरेन्द्रभूषाढ्याय । दरान्दोलितलोचनायै । दिगम्बराय । दयामूर्तये । देशिकाय । दीनवत्सलायै । देशकालपरिज्ञात्रे । देशोपद्रवनाशिन्यै । दीक्षिताय । दण्डनीतिस्थायै । देवर्षिगणसेविताय । दहराकाशनिलयायै । दुष्टदूराय । दुरासदायै । दुःखदारिद्र्यशमनाय । दुराचारपराङ्मुख्य नमः । ६०० ॐ दिनारम्भार्ककोटिश्रिये नमः । दिव्यज्ञानसुधानिधये । धनेश्वरसखाय । धन्यायै । धनुष्मते । धनशेवध्यै । धर्माधाराय । धर्मपरायै । धर्माय । धर्मकृदाश्रयायै । धीराय । धैर्यगुणोपेतायै । धीरोदात्तगुणोत्तराय । धीमत्यै । धैर्यनिलयाय । धराधरसुतायै । धनिने । धर्मेतराटवीदावपावकायै । धर्मविग्रहाय । धैर्यदात्र्यै नमः । ६२० ॐ धैर्यशीलाय नमः । धौरेयजनवत्सलायै । नागाचलेन्द्रनिलयाय । नागकन्यासमर्चितायै । नागेन्द्रकुण्डलधराय । नागराजसुपूजितायै । नागचर्मपरीधानाय । नागाननगुहप्रसुवे । नागेन्द्रहारवलयाय । नागमाणिक्यमण्डितायै । नागेशाद्यमरस्तुत्याय । नागस्त्रीकोटिसन्नुतायै । नागारिवाहजनकाय । नागकुम्भनिभस्तन्यै । नागेन्द्रशिखरोत्तंसाय । नागेन्द्रप्रियनन्दिन्यै । नारायणप्रियसखाय । नारसिंहवपुर्धरायै । नारदादिमुनिस्तुत्याय । नामपरायणप्रियायै नमः । ६४० ॐ निर्जरारिगणध्वंसिने नमः । नित्ययौवनशालिन्यै । पञ्चब्रह्ममयाय । पञ्चब्रह्ममञ्चाधिशायिन्यै । पञ्चयज्ञपरप्रीताय । पञ्चकृत्यपरायणायै । पञ्चाक्षरमनुप्रीताय । श्रीमत्पञ्चदशाक्षर्यै । पञ्चभूतनिवासाय । पञ्चपातकनाशिन्यै । पञ्चेन्द्रियविलासाय । पञ्चबाधानिवारिण्यै । पञ्चपञ्चावताराय । पञ्चाशद्वर्णरूपिण्यै । पञ्चवक्त्राय । पार्वत्यै । पञ्चवज्रासनस्थिताय । प्रपञ्चकोटिजनन्यै । प्रपश्चोत्पत्तिवर्जिताय । पञ्चाशत्पीठनिलयायै नमः । ६६० ॐ परब्रह्मणे नमः । परात्परायै । पञ्चयज्ञपरावासाय । पञ्चसङ्ख्योपचारिण्यै । फालनेत्राय । फलाधारायै । फलवते । फलरूपिण्यै । फुल्लारविन्दनयनाय । फुल्लेन्दीवरलोचनायै । फालमध्यलसन्नेत्रदहनालीढमन्मथाय । फालचन्द्रकलङ्कश्रीकस्तूरीतिलकोज्ज्वलायै । स्फटिकाद्रिसवर्णाभाय । स्फटिकाक्षलसत्करायै । स्फारकीर्तये । स्फुरत्कान्त्यै । स्फुटगङ्गाजटाधराय । स्फुरन्माङ्गल्यसूत्राढ्यायै । स्फुरत्ताटङ्कमण्डिताय । स्फुटाट्टहासवदनतोषितेश- मनोरथायै नमः । ६८० ॐ फाल्गुनास्त्रोद्भिन्नशिरसे नमः । फाल्गुनास्त्रप्रदायिन्यै । बलभद्रार्चितायै । बालायै । बलवते । बलतोषितायै । बलीवर्दसमारूढाय । बालार्ककिरणारुणायै । बडवाग्निप्रतीकाशाय । बाहुलेयप्रियङ्कर्यै । बिल्वकान्तारमध्यस्थाय । बिसतन्तुसमाकृत्यै । बाणासुरार्चनप्रीताय । वाणचापलसत्करायै । बिन्दुमण्डलमध्यस्थाय । बिन्दुनादस्वरूपिण्यै । बहुरूपाय । बिम्बोष्ठ्यै । बुद्धिज्ञेयाय । बुधार्चितायै नमः । ७०० ॐ बुध्न्याय नमः । बुद्धिप्रदायै । बुद्धिधनदाय । बिन्दुमालिन्यै । भस्मोद्धूलितसर्वाङ्गाय । भक्तानुग्रहतत्परायै । भवाय । भवान्यै । भर्गाय । भवघ्न्यै । भवनाशनाय । भद्रमूर्त्यै । भाग्यनिधये । भक्ताभीष्टप्रदायिन्यै । भिषजे । भेषजरूपायै । भक्तहार्दतमोनुदाय । भूतिदात्र्यै । भूतिभूषाय । भूतधात्र्यै नमः । ७२० ॐ भवोद्भवाय नमः । भुवनेश्यै । भोगिभूषाय । भद्रकाल्यै । भवाक्षिभिदे । महादेव्यै महाराज्ञ्यै । महते । मङ्गलरूपिण्यै । महामृत्युप्रशमनाय । महाताण्डवसाक्षिण्यै । मन्त्रवेद्याय । मन्त्रमय्यै । मित्रेशाय । मित्ररूपिण्यै । मन्दस्मितमुखाम्भोजाय । मदिरामोदविह्वलायै । मत्तेभचर्मवसनाय । मत्तमातङ्गगामिन्यै । मीढुष्टमाय । मीनाक्ष्यै नमः । ७४० ॐ मुदिताय नमः । मुक्तिदायिन्यै । मूलमन्त्रस्वरूपज्ञाय । मूर्तिन्यासाधिदेवतायै । मृगपाणये । मृगमदालिप्ताङ्ग्यै । मृत्युभञ्जनाय । मेनकानन्दिन्यै । मेध्याय । मेघश्यामलकुन्तलायै । यक्षराजप्रियसखाय । यक्षस्त्रीकोटिसेवितायै । यज्ञप्रियाय । यज्ञभोक्त्र्यै । यज्वने । याज्यायै । याजकाय । यमादिनियमप्रीतायै । याम्याय । यमभयापहायै नमः । ७६० ॐ योगिने नमः । योगप्रदायै । योग्याय । योगिवृन्दसमर्चितायै । यमारातये । यायजूकवत्सलायै । युगनायकाय । यशस्विन्यै । यजुर्वेदस्तुत्याय । योषामण्यै । यक्षराक्षसवेतालभयघ्नाय । यक्षिणीश्वर्यै । रक्ताद्रिशिखरावासाय । रक्ताक्ष्यै । रम्यभूषणाय । रमणीयगुणस्तोमायै । राकाचन्द्रनिभाननाय । राजीवदलनेत्र्यै । रूपवते । रोगवर्जितायै नमः । ७८० ॐ रूपयौवनसम्पन्नाय नमः । रूढयौवनशालिन्यै । रेवतीपतिपूज्यायै । रेणुकास्तुतिमोदिन्यै । रोमहर्षणसर्वाङ्गाय । रोगारण्यकुठारिकायै । रूप्याचलेन्द्रनिलयाय । रणन्मञ्जीरनपुरायै । रम्भानाट्यप्रियाय । रम्भास्तम्भोरुशालिन्यै । रसप्रियाय । रसावासायै । रसिकाय । रसरूपिण्यै । ललाटाक्षाय । ललामश्रीविडम्बिमुकुरप्रभायै । लास्यप्रियाय । लास्यकर्त्र्यै । लाभालाभविवर्जिताय । लकुल्यै नमः । ८०० ॐ लिङ्गरूपाय नमः । लावण्यामृतवारिधये । लब्धभाग्याय । लब्धपत्यै । लब्धसौख्याय । लसत्तनवे । लोकालोकाचलावासाय । लोकपालसमर्चितायै । लक्ष्मीनारायणस्तुत्याय । लीलाशुककरोज्ज्वलायै । लोकरक्षकनिरताय । लाकिन्यादिपरीवृतायै । लङ्कापतिसमाराध्यपादुकाय । ललिताम्बिकायै । वामदेवाय । विशालाक्ष्यै । विषकण्ठाय । विराण्मय्यैण्यै। विरूपाक्षाय । विद्रुमाभायै नमः । ८२० ॐ विद्युत्केशाय नमः । वियत्प्रसुवे । वेदागमपुराणज्ञाय । वेदान्तार्थस्वरूपिण्यै । वाञ्छिताखिलदात्रे । वाञ्छितार्थप्रदायिन्यै । वीरभद्राय । वीरमात्रे । विश्वामित्रप्रियकराय । वीरगोष्ठीप्रियायै । वीराय । विष्णुमायाविलासिन्यै । विश्वम्भराय । विश्वकर्त्र्यैय । वीर्यवते । विश्वसाक्षिण्यै । वौषडन्तपदस्तुत्याय । वौषडन्तसमुत्सुकायै । शङ्कराय । शाम्भव्यै नमः । ८४० ॐ शम्भवे नमः । शङ्करार्धशरीरिण्यै । शितिकण्ठाय । शिवाराध्यायै । शिवाय । शिवकुटुम्बिन्यै । शिष्टेष्टदाय । शिष्टगत्यै । शुद्धवर्णाय । शुचिस्मितायै । शेषाद्रिशिखरावासाय । शेषकन्यासमर्चितायै । श्रीमते । श‍ृङ्गारलहर्यै । श‍ृङ्गारार्धकलेवराय । श्रीप्रदायै । शिपिविष्टाय । श्रीकण्ठायै । श्रितवत्सलाय । श्रितत्रात्र्यै नमः । ८६० ॐ शिवपराय शिष्टाय नमः । शिवपतिव्रतायै । षडक्षरन्यासरूपाय । षट्कोणपुरवासिन्यै । षट्षष्टिकोटितीर्थज्ञाय । षट्त्रिंशत्तत्त्वरूपिण्यै । षोढान्यासपरप्रीताय । षोडशाक्षररूपिण्यै । षड्दर्शनसमासीनाय । षड्वर्गारिविनाशिन्यै । षट्कालपूजनप्रीताय । षडाम्नायाधिदेवतायै । षड्वक्त्रजनकाय । षट्चक्रपुरनायिकायै । षड्गवेषधराय । षड्गवेषलोकपराङ्मुख्यै । षाड्गुण्यपरिपूर्णाय । षड्गुणातीतविग्रहायै । षडम्बुरुहचक्रश्रिये । षष्ठीशमयरूपिण्यै नमः । ८८० ॐ सदाशिवाय नमः । सदाराध्यायै । सर्वज्ञाय । सर्वसाक्षिण्यै । सकलागमसंस्तुत्याय । सर्वलोकवशङ्कर्यै । सर्वेश्वराय । सावित्र्यै । संविदे । संविद्विलासिन्यै । सदाचारपदप्रीताय । सौमङ्गल्यविवर्धिन्यै । सर्वसौभाग्यजनकाय । साध्व्यै । साधुजनप्रियाय । सौन्दर्यलहर्यै । सौरमन्त्रप्रकाशनाय । सौरदर्शनसेव्याङ्घ्र्यै । सौख्यदाय । सौख्यशालिन्यै नमः । ९०० ॐ सौहार्दनिलयाय नमः । सौहित्यप्रियमानसायै । सर्वपातकसंहारिणे । सर्वधर्मप्रवर्धिन्यै । सोमाय । सौम्यगुणायै । सत्याय । सत्यज्ञानपरायणायै । हालाहलाङ्कितग्रीवाय । हेलालालितमन्मथायै । हेरम्बताताय । हेमाद्रिनिलयायै । हिमशैलगाय । हयमेधसमाराध्यायै । हयग्रीवमुखस्तुताय । हत्यादिदुरिताघघ्न्यै । हराय । हरिसहोदर्यै । हिरण्यगर्भजनकाय । हिरण्यमणिकुण्डलायै नमः । ९२० ॐ हिरण्यरेतसे नमः । हेमाङ्ग्यै । हेमसभापातये । हेमकुम्भस्तननतायै । हंसनामपदस्तुताय । हंसकालपदस्तुत्यायै । हकाराय । हंसिकागत्यै । हस्तिचर्माम्बरधराय । हस्तिगायै । हतशात्रवाय । हर्यृक्षवाहनायै । हंसाय । हंसमन्त्रप्रकाशिन्यै । प्रलयार्कप्रभापूराय । प्रलयाग्निसमप्रभायै । प्रलयाम्बुदनिर्घोषाय । प्रलयानिलवेगिन्यै । व्यालेन्दुकुण्डलधराय । व्यालारिध्वजसोदर्यै नमः । ९४० ॐ कालकण्ठाय नमः । कलालापायै । कलापतिशिखामणये । काल्यै । कालिन्दिसंसेव्याय । कालरात्रितपस्विन्यै । कलानिधये । कालकण्ठीपञ्चमाराववाङ्मय्यै । कलङ्करहितायै । कालमेघश्यामलकुन्तलायै । क्षमाधरेन्द्रजामात्रे । क्षमाभृद्वरनन्दिन्यै । क्षपानाथार्धमकुटाय । क्षपानाथसमाननायै । क्षमानिधये । क्षमापूज्यायै । क्षमाकान्ताय । क्षमावत्यै । क्षामक्षमाय । क्षाममध्यायै नमः । ९६०। ॐ क्षिप्रजिते नमः । क्षिप्रसिद्धिदायै । क्षुद्रेतरप्रसन्नात्मने । क्षुद्रशून्यविनाशिन्यै । क्षेत्रेश्वराय । क्षेत्रकर्यै । क्षेत्रवृद्धाय । क्षयापहायै । क्षेमङ्कराय । क्षणप्रीतायै । क्षणदाचरभञ्जनाय । क्षयवृद्धिविहीनायै । क्षेत्रज्ञाय । क्षेत्रवासिन्यै । क्षयापस्मारशमनाय । क्षेत्रपालसुपूजितायै । क्षणपूजाप्रसन्नात्मने । क्षौमाम्बरपरिष्कृतायै । क्षुद्ररोगापहारिणे । क्षुद्रकृत्यपराङ्मुखायै नमः ९८० ॐ क्षोणीरथसमारूढाय नमः । क्षोभिण्यै क्षोभदायिकायै । अकारादिक्षकारान्त- वर्णमालाविभूषणाय । आखण्डलादिगीर्वाणगणाराधितपादुकायै । घनशीतांशुदहनलोचनाय । इष्टसिद्धिदायै । ईड्याय । ईषत्स्मितमुख्यै । उद्यत्सूर्यसमप्रभाय । ऊर्ध्वाम्नायसमारूढायै । ऋणत्रयविमोचकाय । रूपनिर्जितकन्दर्पाय । लुब्धकीरूपधारिण्यै । लुब्धकाङ्कसमाविष्टाय । एषणारहितार्चितायै । एकाधिपत्यफलदाय । ऐहिकामुष्मिकप्रदायै । ओङ्कारमन्त्रसर्वस्वाय । औदार्यगुणशालिन्यै । अम्बिकाप्राणदयिताय । अन्नपूर्णेश्वरेश्वर्यै । अर्धाद्रिशिखरावासाय । अर्धनारीनरेश्वर्यै । १००२ अर्धाद्रिशिखरावासार्धनारीश्वरमूर्तयये नमः ॥ इति अर्धनारीश्वरसहस्रनामावलिः समाप्ता ।