अक्षर आकार:

अघोरमूर्तिस्तोत्रम्

Aghoramurti Stotram

अघोरमूर्तिस्तोत्रम्

अघोरस्तोत्रं ॐ श्रीगणेशाय नमः । श्रीभैरव उवाच- कैलाशशिखरासीनं भक्तानुग्रहकाम्यया । पप्रच्छ प्रणता देवी भैरवं विगतामयम् ॥ १॥ ब्रह्मादिकारणातीतं स्वशक्त्या नन्दिनिर्भरम् । नमामि परमेशानं स्वच्छन्दं वीरनायकम् ॥ २॥ श्रीदेवी उवाच- प्रायश्चित्तेषु सर्वेषु समयोल्लङ्घनेषु च । महाभयेषु घोरेषु तीव्रोपद्रवभूमिषु ॥ ३॥ छिद्रस्थानेषु सर्वेषु उपायं वद मे प्रभो । येनायासेन रहितो निर्दोषश्च भवेन्नरः ॥ ४॥ श्रीभैरव उवाच - श‍ृणु देवि परं गुह्यं रहस्यं परमाद्भुतम् । सर्वपापप्रशमनं सर्वदुःखाभयप्रदम् ॥ ५॥ प्रायश्चित्तेषु सर्वेषु तीव्रेष्वपि विशोधनम् । सर्वच्छिद्रापहरणं सर्वार्तिविनिवारणम् ॥ ६॥ समयोल्लङ्घने घोरे जपादेव विमोचनम् । भोगमोक्षप्रदं चैव सर्वसिद्धिफलावहम् ॥ ७॥ शतं जाप्येन शुद्ध्यन्ति महापातकिनोऽपि ये । तदर्द्धं पातकं हन्ति तत्पादेनोपपातकम् ॥ ८॥ कायिकं वाचिकं चैव मानसं स्पर्शदोषजम् । प्रसादादिच्छया वापि सकृज्जपेन शुद्ध्यति ॥ ६॥ यागारम्भे च यागान्ते पठितव्यं प्रयत्नतः । नित्ये नैमित्तके काम्ये परस्याप्यात्मनोऽपि वा ॥ १०॥ निछिद्रकरणं प्रोक्तमभावपरिपूरकम् । द्रव्यहीने मन्त्रहीने ज्ञानयोगविवर्जिते ॥ ११॥ भक्तिश्रद्धाविरहिते शुद्धिशून्ये विशेषतः । मनोविक्षेपदोषे च विलोमे पशुवीक्षिते ॥ १२॥ विधिहीने प्रमादे च जप्तव्यं सर्वकर्मसु । नातः परतरो मन्त्रो नातः परतरा स्तुतिः ॥ १३॥ नातः परतरा काचित्सम्यक् सत्यं गिरा प्रिये । इयं समयविद्यानां राजराजेश्वरी स्तुतिः ॥ १४॥ परमाप्यायनं देवि भैरवस्य प्रकीर्तितम् । प्रीणनं सर्वदेवानां सर्वसौभाग्यवर्धनम् ॥ १५॥ स्तवराजमिमं पुण्यं श‍ृणुष्वावहिता प्रिये । ॐ नमः परमाकाशशायिने परमात्मने ॥ १६॥ शिवाय परमं शान्तं गिरानन्दपदाय ते । अवाच्याय प्रमेयाय प्रमात्रे विश्वहेतवे ॥ १७॥ महासामान्यरूपाय सत्तामात्रैकरूपिणे । घोषादिदशधा शब्दबीजभूताय शम्भवे ॥ १८॥ नमः शान्तोग्रघोरादि मन्त्रसंरम्भगर्भिणे । रेवतीस्रज विश्रम्भ समाश्लेषविलासिने ॥ १६॥ नमः समरसास्वादपरानन्दोपभोगिने । भोगपाणये नमस्तुभ्यं योगीश पूजितात्मने ॥ २०॥ द्वयनिर्मूलनोद्योगसमुल्लासितमूर्तये । हरप्रसरविक्षोभविस्पष्टाक्षरमूर्त्तये ॥ २१॥ नमो मायास्वरूपाय स्थाणवे परमेष्ठिने । घोरसंसारसम्भोगदायिने स्थितिकारिणे ॥ २२॥ कालादि क्षितिपर्यन्तं पालिने विभवे नमः । रोहणाय महामोहध्वान्तविध्वंसहेतवे ॥ २३॥ हृदयाम्बुजसङ्कोचभेदिने शिव मानवे । भोगमोक्षफलप्राप्तिहेतुयोगविधायिने ॥ २४॥ नमः परमनिर्वाणदायिने चन्द्रमौलये । घोष्याय सर्वमन्त्राणां सर्ववाङ्मयमूर्तये ॥ २५॥ नमः शर्वाय सर्वाय सर्वपापापहारिणे । रवणाय रवान्ताय नमोऽतरावराविणे ॥ २६॥ नित्याय सुप्रबुद्धाय सर्वान्तरतमाय ते । घोषाय परनादान्तचराय खचराय ते ॥ २७॥ नमो वाक्पतये तुभ्यं भगाय पररूपिणे । रवणाय रतीशार्ङ्गदेहिने चित्रकर्मणे ॥ २८॥ नमः शैलसुतामात्रे विश्वकर्त्रे महात्मने । नमो मारप्रतिष्ठाय सर्वन्तिपदगाय ते ॥ २६॥ नमः समस्ततत्त्वाय व्यापिने चित्स्वरूपिणे । खेद्वाराय भद्राय नमस्ते रूपरूपिणे ॥ ३०॥ परापरपरिस्पन्दमन्दिराय नमोऽस्तु ते । भरिताखिलविश्वाय योगगम्याय योगिने ॥ ३१॥ नमः सर्वेश्वरेशाय महाहंसाय शम्भवे । चर्व्याय चर्वणीयाय चर्वकाय चराय च ॥ ३२॥ रवीन्दुसन्धिसंस्थाय महाचक्रेश ते नमः । सर्वानुस्यूतरूपाय सर्वाच्छादकशक्तये ॥ ३३॥ सर्वभक्षाय शर्वाय नमस्ते सर्वरूपिणे । रम्याय वल्लभाक्रान्तदेहार्धाय विनोदिने ॥ ३४॥ नमः प्रसन्नदुष्प्रापसौभाग्यफलदायिने । तन्महेशाय तत्त्वाय वेदिने भवभेदिने ॥ ३५॥ महाभैरवनाथाय भक्तिगम्याय ते नमः । शक्तिगर्भप्रबोधाय शरण्याय शरीरिणे ॥ ३६॥ शान्तिपुष्ट्यादिसाध्याय साधकाय नमो नमः । रवत्कुण्डलिनीगर्भप्रबोधप्राप्तशक्तये ॥ ३७॥ तत्स्फोटनपटुप्रौढपरमाक्षररूपिणे । समस्तव्यस्तसङ्ग्रस्तरश्मिजालोदयात्मने ॥ ३८॥ नमस्तुभ्यं महासेनरूपिणे विश्वगर्भिणे । रेवारवसमुद्भूतवह्निज्वालावभासिने ॥ ३६॥ घनीभूतविकल्पान्ध्यविश्वबन्धविलापिने । भोगिनीस्पन्दनारूढप्रौढमालब्धगर्विणे ॥ ४०॥ नमस्ते सर्वभक्षाय परमामृतलोभिने । नभकोटिसमावेशभरिताखिलसृष्टये ॥ ४१॥ नमः शक्तिशरीराय कोटिद्वितयसङ्गिने । महामोहसमाक्रान्तजीववर्गविबोधिने ॥ ४२॥ महेश्वराय जगतां नमः कारणबन्धवे । स्तेनोन्मूलनदक्षैकत्रितये विश्वमूर्त्तये ॥ ४३॥ नमस्तेऽस्तु महादेवनाम्ने परसुधात्मने । रुग्द्राविणे महावीर्य रुरुवंशविनाशिने ॥ ४४॥ रुद्राय द्राविताशेषबन्धनाय नमो नमः । द्रवत्यररसास्वादचर्वणोद्युक्तये नमः ॥ ४५॥ नमस्त्रिदशपूज्याय सर्वकारणहेतवे । रूपातीत नमस्तुभ्यं नमस्ते बहुरूपिणे ॥ ४६॥ त्र्यम्बकाय त्रिधा मातश्चारिणे च त्रिचक्षुषे । पेशलोपायलभ्याय भक्तिभाजां महात्मनाम् ॥ ४७॥ दुर्लभाय महाक्रान्तचेतसां तु नमो नमः । भयप्रदाय दुष्टानां भवाय भयभेदिने ॥ ४८॥ भव्याय त्वन्मयानां तु सर्वदाय नमो नमः । अणूनां मुक्तये घोरघोरसंसारदायिने ॥ ४६॥ घोरातिघोरमूढानां तिरस्कर्त्रे नमोऽस्तु ते । इत्येवं स्तोत्रराजेन्द्रं महाभैरवभाषितम् ॥ ५०॥ योगिनीनां परं सारं न दद्याद्यस्य कस्याचित् । अदीक्षिते शठे क्रूरे निस्सत्ये शुचिवर्जिते ॥ ५१॥ नास्तिके च खले मूर्खे प्रमत्ते विलुप्तेऽलसे । गुरुशास्त्रसदाचारदूषके कलहप्रिये ॥ ५२॥ निर्दये चुम्बके क्षुद्रे समयघ्नेऽथ दाम्भिके । दाक्षिण्यरहिते पापे धर्महीनेऽथ गर्विते ॥ ५३॥ पशूनां सन्निधौ देवि नोच्चार्यं सर्वथा क्वचित् । अस्य संस्मृतमात्रस्य विघ्ना नश्यन्ति सर्वशः ॥ ५४॥ गुह्यका यातुधानाश्च वेताला राक्षसादयः । डामराश्च पिशाचाश्च क्रूरसत्त्वाश्च पूतनाः ॥ ५५॥ ब्याधिदुर्भिक्षदौर्भाग्यमारिमोहविषादयः । गजव्याघ्रादयो दुष्टाः पलायन्ते च सर्वशः । सर्वे दुष्टाः प्रणश्यन्ति इत्याज्ञा पारमेश्वरी ॥ ५६॥ ॥ इति अघोरस्तोत्रं समाप्तम् ॥ ॥ शुभमस्तु ॥