अक्षर आकार:

अट्टालसुन्दराष्टकम्

aTTAlasundarAShTakam

अट्टालसुन्दराष्टकम्

विक्रमपाण्ड्य उवाच- कल्याणाचलकोदण्डकान्तदोर्दण्डमण्डितम् । कबलीकृतसंसारं कलयेऽट्टालसुन्दरम् ॥ १॥ कालकूटप्रभाजालकळङ्कीकृतकन्धरम् । कलाधरं कलामौळिं कलयेऽट्टालसुन्दरम् ॥ २॥ कालकालं कलातीतं कलावन्तं च निष्कळम् । कमलापतिसंस्तुत्यं कलयेऽट्टालसुन्दरम् ॥ ३॥ कान्तार्धं कमनीयाङ्गं करुणामृतसागरम् । कलिकल्मषदोषघ्नं कलयेऽट्टालसुन्दरम् ॥ ४॥ कदम्बकाननाधीशं कांक्षितार्थसुरद्रुमम् । कामशासनमीशानं कलयेऽट्टालसुन्दरम् ॥ ५॥ सृष्टानि मायया येन ब्रह्माण्डानि बहूनि च । रक्षितानि हतान्यन्ते कलयेऽट्टालसुन्दरम् ॥ ६॥ स्वभक्तजनसंताप पापापद्मङ्गतत्परम् । कारणं सर्वजगतां कलयेऽट्टालसुन्दरम् ॥ ७॥ कुलशेखरवंशोत्थभूपानां कुलदैवतम् । परिपूर्णं चिदानन्दं कलयेऽट्टालसुन्दरम् ॥ ८॥ अट्टालवीरश्रीशंभोरष्टकं वरमिष्टदम् । पठतां श‍ृण्वतां सद्यस्तनोतु परमां श्रियम् ॥ ९॥ ॥ इति श्रीहालास्यमाहात्म्ये विक्रमपाण्ड्यकृतं अट्टालसुन्दराष्टकम् ॥