अक्षर आकार:

श्रीमदृश्यश‍ृङ्गेश्वरस्तुतिः

Shrimad Rishyashringeshvarastutih

श्रीमदृश्यश‍ृङ्गेश्वरस्तुतिः

कष्टारिवर्गदलनं शिष्टालिसमर्चिताङ्घ्रिपाथोजम् । नष्टाविद्यैर्गम्यं पुष्टात्माराधकालिमाकलये ॥ १॥ प्राणायामैर्ध्यानैनष्टं चित्तं विधाय मुनिवर्याः । यत्पश्यन्ति हृदब्जे शान्ताभाग्यं नमामि तत्किञ्चित् ॥ २॥ वेदोत्तमाङ्गगेयं नादोपास्त्यादिसाधनात्माख्यम् । खेदोन्मूलनदक्षं भेदोपाध्यादिवर्जितं नौमि ॥ ३॥ शान्तामानसहंसं कान्तारासक्तमुनिवरैः सेव्यम् । शान्ताहङ्कृतिवेद्यं कान्तार्धं नौमि श‍ृङ्गशिवम् ॥ ४॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचिता श्रीमदृश्यश‍ृङ्गेश्वरस्तुतिः सम्पूर्णा ।