अक्षर आकार:

ईश्वरस्तोत्रम् २

Ishvara Stotram 2

ईश्वरस्तोत्रम् २

अथ द्विषष्टितमः पटलः श्रीआनन्दभैरवी उवाच अथ नाथ प्रवक्ष्येऽहं काकिनीगुरुदेवयोः । मन्त्रोद्धारस्तव ज्ञानं येन सिद्धो भवेद् यतिः ॥ ६२-१॥ एतत्स्तवनपाठेन सहस्राख्यान्तसिद्धिषु । राजत्वं लभते सद्योऽथवा योगी च सम्पदि ॥ ६२-२॥ यथा जनकराजा च विषये गुरुभक्तिमान् । महासिद्धो महाज्ञानी तथा भवति साधकः ॥ ६२-३॥ सुरा नागा रुद्रगणाः सर्वे विद्यार्थसेवकाः । योगी ज्ञानी तथा सिद्धाः खेचरा यक्षराक्षसाः ॥ ६२-४॥ मुनयः क्रोधवेतालास्तथा चण्डेश्वरादयः । एतच्छुभस्तवेन्द्रेण स्तुत्वा सर्वत्र सिद्धिगाः ॥ ६२-५॥ पूर्णः पूर्णेन्दुबिम्बाननकमलकटाक्षादघौघापहारी नारीन्धाता विधाता समवति न च तान् योगयोग्यान् महेन्द्रान् । सम्पत्तिप्राणयोगी निरवधिवरदानन्दगोप्ता शरीरो बालो मृत्युञ्जयस्य प्रभुरिति भयहा पातु मे गुप्तदेहम् ॥ ६२-६॥ कामक्रोधापहन्ता जनयति भरतान् भारतान् पातु पृथ्वीं यो योगी भावयोगी मम कुलफलदः सर्वदा शं करोतु । तत्क्रोडे लोकचक्रं तिलतुलतुलसेसन्निभं भाति सूक्ष्मं तच्छ्रीनाथाङ्घ्रिपादद्वयमजरमहं भावये हृत्प्रपञ्चे ॥ ६२-७॥ मायां मोहे विवेकी शत-कितव-रिपूच्छेदकः प्रेरकस्थ- कोर्षाणी गुप्ततन्द्रावनिभवमनुजो यो महामङ्गलस्थः । लोकातीतो तितीरो जय जय करुणानाथ दाता तपस्वी मन्त्रोद्धारार्थगुप्तं समवति य इह प्राणनाथं तमीडे ॥ ६२-८॥ भावान्तो योऽतिगुर्वी हृदि जयकमलेऽतेऽमरप्रत्यथर्वो वाग्देवी देवतायै नम इति मनुना मोहितो वाक्पतीशः । मन्त्रार्थोद्दीपनाख्यो विजयसखाकोटिभिर्वेष्टितो यो बालार्कानन्दरश्मिप्रचयशतमखः पातु मां दुःखजालात् ॥ ६२-९॥ हृष्टाङ्गा सङ्गताङ्गाननविमलशिखाकोटिभिर्वर्जितो यो मन्त्राच्चैतन्यहर्ता प्रणवमयशिवं तत्सदान्ते शिवं च । ध्यात्वा माहेश्वरायां नम इति जपनात् ते महेन्द्राधिपः स्यात् कालीपुत्रः स एव त्वमभयवरदः सेव्यते यैः स मुक्तः ॥ ६२-१०॥ हंसः प्राणाविहन्ता त्वमखिलवरदस्त्वं निदानः प्रधानः शान्तीशस्त्वं प्रतिष्ठः प्रणवशिवसदाभद्रमाहेश्वराय । अन्तेऽत्युच्चैर्नमोऽन्ते मनुमिह जपते सम्पदे दोषभङ्गा- दानन्दाब्धौ त्वमीशो गुरुरिह चपलं चापलं मां प्रपाहि ॥ ६२-११॥ आनन्दोद्रेककारी त्वमपि सकरुणासागरो भक्तिदाता दाता विद्याधरीणां त्वमपि सुररिपुः पार्वतीप्राणनाथः । तारे बिन्द्वाधराढ्यं क्षरमथविधुमत्तं मन्त्रमेकाक्षरं ते तारान्तं त्र्यक्षरन्तं प्रजपति यदि यो योगिराड् भूतले स्यात् ॥ ६२-१२॥ सर्पाण्डस्थं सुसिद्धो हरविधुमधरं चन्द्रबिन्दुस्वरूपं जप्त्वा नित्यं विलोमं प्रणवमृतिहरं वह्निकान्ता तदन्ते । एतद्रूपं पदं यो भजति वरगतं हेममञ्जीरनादं मम्रेक्षानन्दचित्तं विजयवरकुलानन्ददः प्राणगं ते ॥ ६२-१३॥ उच्चाटे मोहने वाप्यरिवशसमये शान्तिपुष्ट्यान्तवश्ये ते मन्त्रान् योजयित्वा जपति यदि सुधीः श्रीपदाब्जावलम्बी । सिध्येत् षट्कर्मसारं परमगुरुगतः स भवेत् कल्पशाखी राजेन्द्रः सर्वलोके धनपतिसदृशः शम्भुनाथप्रसादात् ॥ ६२-१४॥ खान्तं शक्रादिरूढं विधुनयनयुतं कामबीजं त्रिशक्तिं चाद्येऽन्ते ॐ शिवायानलवधुमिलितं यो जपेन्नाथमन्त्रम् । तेनाम्नायो जपित्वा कुलपथनिरतः साधकः श्रीवरेण्यः किं तस्यासाध्यसिद्धिं त्रिजगति स सुखी सन्मुखी योगमार्गी ॥ ६२-१५॥ सर्वातीतो विहारी पदगतिरहितः सर्वगामी विरामी हस्ताभावो विनेता निरवधिवरदः सर्वरूपी विरूपी । मन्त्रज्ञस्त्वं सुमन्त्री महमयसमयः संशयासारहन्ता मन्ता विश्वेश्वरीणां परपशुपतयेऽन्ते नमः पातु नम्रम् ॥ ६२-१६॥ योगी भोगी विरागी त्वमतुलविभवः सम्भवः पञ्चचूडो वाणी शेषः प्रियेशः शशिग्रथितमृडाशोभिताङ्गो ह्यनङ्गः । कामो माया रमेशः प्रथमदिनकरश्रेणि शोभावलिप्तः सर्वाङ्गं यः प्रपायादमलकमलगः क्रोधगो योऽवलोकम् ॥ ६२-१७॥ एतच्छ्रीशङ्करस्तोत्रं यः पठेन्नियतः शुचिः । संवत्सराद् भवेत् सिद्धिः सर्वज्ञानप्रदायिनी ॥ ६२-१८॥ शुचौ वाप्यशुचौ स्तौति भक्त्या यः साधकोत्तमः । स सर्वयातनामुक्तो योगी ग्रन्थिविभेदकः ॥ ६२-१९॥ अकस्मात् सिद्धिमाप्नोति प्रेमानन्दसुभक्तिदाम् । शतमष्टोत्तरं चास्य पुरश्चर्याविधिः स्मृतः ॥ ६२-२०॥ न स्नानं न जपः कार्यं न पूजादिविधानकम् । केवलं स्तवपाठेनानाहते सुस्थिरो भवेत् ॥ ६२-२१॥ चिरञ्जीवी वीतरागो वीतसंसारभावनः । पठित्वा धारयित्वा च योगभ्रष्टो न सम्भवेत् । अनायासे योगसिद्धिं प्राप्नोति विपुलां श्रियम् ॥ ६२-२२॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे ईश्वरस्तोत्रविन्यासो नाम द्विषष्टितमः पटलः ॥ ६२॥ The numbers correspond to paTala and verse numbers from Rudrayamala uttaratantra.