अक्षर आकार:

ईश्वरस्तोत्रं अथवा सुरस्तवनम्

Ishvara Stotram Athava Surastavanam

ईश्वरस्तोत्रं अथवा सुरस्तवनम्

अथ षष्टितमः पटलः आनन्दभैरव उवाच वद कान्ते परानन्दे रहस्यं कुलसुन्दरि । यस्य विज्ञानमात्रेण भवेद् गङ्गाधरो हरिः ॥ ६०-१॥ ईश्वरस्य स्तवब्रह्मपरं निर्वाणसाधनम् । शोभाकोटियोगपतेर्योगेन्द्रस्य परापतेः ॥ ६०-२॥ ईश्वरं के न मानन्ति ब्रह्मविष्णुशिवादयः । तस्य स्मरणमात्रेण महावाग्ग्मी च मृत्युजित् ॥ ६०-३॥ मन्त्री वेदान्तसिद्धान्तं तं भजन्ति महर्षयः । देवा मनुष्या गन्धर्वास्तं भजन्ति महेश्वरम् ॥ ६०-४॥ अकालमृत्युहरणं सर्वदा सर्वतोमुखम् । सदा तस्य स्तवं दिव्यं श्रोतुमिच्छामि शाङ्करि ॥ ६०-५॥ सुरस्तवनं श्रीआनन्दभैरवी उवाच कौल त्वं श‍ृणु शङ्करप्रियकरं स्तोत्रं तदीशस्य च श्रीनाथाय नमः कुलेश परमप्राणेश तुभ्यं मुदा । सानन्दाय नमो भवाय पतये लोकेश्वरायो ॐ नमो भूतेशाय गणाधिपाय यतये श्रीशूलिने ते नमः ॥ ६०-६॥ कान्ताय प्रणवाय योगपतये योगेश्वरायो ॐ नमो महारायाक्षरेश्वराय महते नित्याय नित्यं नमः । स्वाधिष्ठानविभेदकाय हरये मूलाब्जसम्भेदिने । नाभेरम्बुजभेदिने हृदयाम्भोद्भिदकायों नमः ॥ ६०-७॥ कालाय प्रणवाय मायवशिने नित्यं नमो भास्वते मोक्षाय प्रमथेश्वराय कवये खट्वाङ्गहस्ताय ते । भक्तिश्रीनिधये महेन्द्रखचराय मायाश्रयायों नमो । विज्ञानाय शिवाय सूक्ष्मगतये गूढाय भूयो नमः ॥ ६०-८॥ सर्वज्ञाय जयाय भूतिपतये भूतेश्वराय प्रभो पञ्चास्याय हराय देवपतये गौरीश्वराय श्रिये । भोगायान्तरगामिने हरिहरायानन्दचिद्रूपिणे कल्याणाय भगाय शुद्धमतिभिर्नित्यं नमस्ते नमः ॥ ६०-९॥ गोविन्दप्रियवल्लभाय विधये ब्रह्मादिकोत्पत्तये उत्पत्तिस्थितिसंहृतिप्रकृतये बाह्याय विश्वेश्वर । तुभ्यं काल नमो नमः प्रलययोगोल्लासिने भूभृते विज्ञाताय गिरीन्द्रपूजित विभो भूताधिपायानिशम् ॥ ६०-१०॥ गौरीशाय गणार्चिताय मनसे मान्याय भूवासिने भूतोत्साहमहीशनाथशशिचूडाय प्रधानाय ते । नित्यं नित्यकलाकुलाय फणिचूडाय प्रबुद्धाय ते तेजःशान्तिपते सतां पतिपते निर्वाससे ते नमः ॥ ६०-११॥ शोभाकोटियुताय चन्द्रकिरणाह्लादाय सूक्ष्माय ते तुभ्यं नाथ नमो नमः प्रणमतामानन्दसिन्धूत्सवा । हेरम्ब श्रयकार्तिकेयजनकानन्दप्रियाय प्रभो पित्रे सर्वसुखाय सर्वपतये श्रीनीलकण्ठेश्वर ॥ ६०-१२॥ त्रिब्रह्मार्पितभूतये सुरतये श्रीभास्वते योगिना- मानन्दोदयकारिणे कुलपते ते नाथ तुभ्यं नमः । ब्रह्मानन्दकुलाय रौप्यगिरये सौन्दर्यसंसिद्धये सर्वानन्दकराय सम्परतरायाढ्याय सत्यं नमः ॥ ६०-१३॥ काशीशं कौशिकीशं सुरतरुकिरणं कारणाख्यं सुखाख्यं गौरीशं गङ्गिरीशं गुरुमगुरुगिरिश्रेणिलिप्ताङ्गवङ्गम् । घोषाख्यं मञ्जुघोषं घनगणघटितं घोरसङ्घट्टनादं चार्वीशं राघवेशं घनहृदि घटमामीश्वरं घौटकेशम् ॥ ६०-१४॥ लाक्षाभाण्डं विशालो वसति तव करे स्थावरो जङ्गमो वा भूताध्यक्षो वशिष्ठः स्वपरिजनकुले सर्वदा पाहि शम्भो । भक्तिज्ञानं न दातुं चपलमलमणिश्रेणिमाला विलोला लोकाभीतो कलङ्की विधिशतमुकुटश्रीपदाम्भोरुहं ते ॥ ६०-१५॥ धूर्तः शौरिः प्रशान्तो विमलमधुरसामोदमानोऽप्रमत्तो मायामोहापदेवी सुरमदमदनो दानसम्मानदाता । त्वं नाथं श्रीपदाम्भोरुहविमलतले ते कथं ना सुरक्षे पूर्वास्यो दक्षिणास्यो धनपतिवदनः पश्चिमास्यो मुनिस्त्वम् ॥ ६०-१६॥ भेदी सिद्धान्तविद्याधरनिधिकिरणः कारणोऽनन्तशक्ति- र्यः साक्षात् कामधेनुः स च धनपतिपः सर्वभोगानुरागी । पादाम्भोजे हि नित्यं कलगिरिसुतानाथ ते योगिपत्वम् । चित्तं मे चञ्चलाख्यं शशिधरकिरणो वाक्पते योगसिद्धिः ॥ ६०-१७॥ कपर्दी श्रीखड्गासिवरगदया वेदभुजया घनच्छायासङ्कोचरचनावशच्छद्मविजयः । जयी जेता जायेर्जयमनुकरोतु श्रियतमो ज्वलज्झञ्झावाते क्षणधर इह क्रोध इति मे ॥ ६०-१८॥ अथाऽऽज्ञा चक्रान्तर्गतविवरमाच्छन्नजटिलः प्रतिज्ञाभङ्गस्थकटकशतकोटिप्रकटितः । कुठारस्ते क्रोधी कमठकटवासी कठिनहा ककाराद्यं नत्वा दशकिरणमानोऽवतु सदा ॥ ६०-१९॥ सुधाखण्डादेव्याः स्तवनपठनेन प्रियकरं पदाम्भोजं चेति प्रचयति स्वभाग्यं कुलपते । प्रधाने भूखण्डे जयति यदि मृत्युञ्जयपदं विनोदं भूयोगं पचति सहसा प्रेमतरलः ॥ ६०-२०॥ यद्येवं प्रपठेदिदमनियतं कौलावलीसंयुतं स्तोत्रं साररहस्यभारपरमानन्दैकचित्तस्थलम् । योगीन्द्रावगतित्वमुक्तफलदं सर्वेश्वरत्वं पदं चन्द्रादित्यसमागतं परपदाह्लादैकमात्रं लभेत् ॥ ६०-२१॥ ते शम्भो यदि पादाम्भोरुहमङ्गलवल्लिका । पूज्यते सर्वदा योगी निर्वाणगुणसिद्धये ॥ ६०-२२॥ किन्न सिद्ध्यति भ्रूमध्ये शिवभक्तिप्रसादतः ॥ ६०-२३॥ इति श्री रुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने अनाहत पद्मे सुरस्तवनं नाम षष्टितमः पटलः ॥ ६०॥ The numbers correspond to paTala and verse numbers from Rudrayamala uttaratantra.