अक्षर आकार:

ईश्वरप्रार्थनास्तोत्रम्

IshvaraprArthanAstotram

ईश्वरप्रार्थनास्तोत्रम्

श्रीगणेशाय नमः ॥ ईश्वरं शरणं यामि क्रोधमोहादिपीडितः । अनाथं पतितं दीनं पाहि मां परमेश्वर ॥ १॥ प्रभुस्त्वं जगतां स्वामिन् वश्यं सर्वं तवास्ति च । अहमज्ञो विमूढोऽस्मि त्वां न जानामि हे प्रभो ॥ २॥ ब्रह्मा त्वं च तथा विष्णुस्त्वमेव च महेश्वरः । तव तत्त्वं न जानामि पाहि मां परमेश्वर ॥ ३॥ त्वं पिता त्वं च मे माता त्वं बन्धुः करुणानिधे । त्वां विना न हि चान्योऽस्ति मम दुःस्वविनाशकः ॥ ४॥ अन्तकाले त्वमेवासि मम दुःखविनाशकः । तस्माद्वै शरणोऽहं ते रक्ष मां हे जगत्पते ॥ ५॥ पितापुत्रादयः सर्वे संसारे सुखभागिनः । विपत्तौ परिजातायां कोऽपि वार्तां च पृच्छति ॥ ६॥ कामक्रोधादिभिर्युक्तो लोभमोहादिकैरपि । तान्विनश्यात्मनो वैरीन् पाहि मां परमेश्वर ॥ ७॥ अनेके रक्षिताः पूर्वं भवता दुःखपीडिताः । क्व गता ते दया चाद्य पाहि मां हे जगत्पते ॥ ८॥ न त्वां विना कश्चिदस्ति संसारे मम रक्षकः । शरणं त्वां प्रपन्नोऽहं त्राहि मां परमेश्वर ॥ ९। ईश्वरप्रार्थनास्तोत्रं योगानन्देन निर्मितम् । यः पठेद्भक्तिसंयुक्तः तस्येशः सम्प्रसीदति ॥ १०॥ इति श्रीयोगानन्दतीर्थविरचितं ईश्वरप्रार्थनास्तोत्रं सम्पूर्णम् ॥