अक्षर आकार:

आर्याशतकम् श्रीमदप्पय्यदीक्षितविरचितम्

AryAshatakam by Shri Appayya Dikshit

आर्याशतकम् श्रीमदप्पय्यदीक्षितविरचितम्

दयया यदीयया वाङ्नवरसरुचिरा सुधाधिकोदेति । शरणागतचिन्तितदं तं शिवचिन्तामणिं वन्दे ॥ १॥ शिरसि सितांशुकलाढ्यं करुणापीयूषपूरितं नयने । स्मितदुग्धमुग्धवदनं ललनाकलितं महः कलये ॥ २॥ अन्ते चिन्तयते यत्तत्तामेतीति च त्वया गदितम् । शिव तव चरणद्वन्द्वध्यानान्निर्द्वन्द्वता चित्रम् ॥ ३॥ द्रुतमुद्धर हर संहर संहर भववैरिणं त्वतित्वरया। भव भवतोऽपि भवोऽयं रिपुरेतन्निन्दितं जगति ॥ ४॥ चेतसि चिन्तय वामां वा मां वा न द्विधा स्थितस्याहम् । इति यदि वदसि दयाब्धे वामार्धे सा तवाप्यस्ति ॥ ५॥ मित्रकलत्रसुतादीन् ध्यायस्यनिशं न मां क्षणं जातु। यदि कुप्यसि मयि दीने तुलयामि त्वां कथं सह तैः ॥ ६॥ मत्कृतदुष्कृतशान्तिर्विषवह्निजलादियातनया । यदि निश्चयस्तवायं प्रेषय गरलाग्निगङ्गौघान् ॥ ७॥ भोगं विहाय योगं साधय दास्ये तवापि परभागम् । मम किं न वावकाशस्त्वद्भूषाभोगिनां मध्ये ॥ ८॥ ललनालोलविलोकनजितमित्यवमन्यसे कथं मां त्वम्। त्वयि जायार्धशरीरे शिव शिव नाऽऽलोकनानुभवः ॥ ९॥ स्मरणादनुपदमीदृग्विस्मृतिशीलो न वल्लभोऽसि मम। उत्पाद्याशां भङ्क्तुर्लग्ना वृत्तिस्तवैवेयम् ॥ १०॥ पुत्रः पितृवत्पुत्री मातृवदित्थं ममात्र को दोषः । अहमपि भोगासक्तः प्रकृतिर्जाता विषादवती ॥ ११॥ वपुरर्धं वामार्धं शिरसि शशी सोऽपि भूषणं तेऽर्धम् । मामपि तवार्धभक्तं शिव शिव देहे न धारयसि ॥ १२॥ स्तनपं शिशुं त्वदीयं पालय साम्ब द्रुतं न पासि यदि । जगतः पितेति गीतं यातं नामेति जानीहि ॥ १३॥ मातरि हित्वा बालं कार्याकुलधीः पिता बहिर्याति । शिव बत शक्नोषि कथं स्वाङ्गान्मन्मातरं मोक्तुम् ॥ १४॥ गुणहीनतां तनूजे मयि दृष्ट्वा किं परित्यजस्येवम् । उचितं गुणिनस्त्वेतन्निर्गुणरूपस्य तेऽनुचितम् ॥ १५॥ कामक्रोधकटाभ्यां मदजलधारां निरङ्कुशे स्रवति । मत्कृतदुष्कृतकरिणि प्रकटा पञ्चास्यता तेऽस्तु ॥ १६॥ त्वद्धीनं मां दीनं दृष्ट्वा विषयातिरागसम्बद्धम् । धावत्यकीर्तिरेषा नाथः शक्तोऽप्युदासीनः ॥ १७॥ अरिभिर्जितैरशक्तैर्विज्ञाप्यं सेवकैः प्रभोर्नीतिः । विषयैर्जितोऽस्मि शम्भो तव यच्छ्लाघ्यं तदारचय ॥ १८॥ संरक्ष्यते स्वदासैर्यद्यद्वस्तु प्रभोरभीष्टतरम् । दासस्तवेष्टकामः कान्तां कनकं कथं त्यजेयमहम् ॥ १९॥ पापी पापं सुकृती सुकृतं भुङ्क्ते ममात्र किं नु गतम्। इत्यौदास्यमयुक्तं भृत्याकीर्तिः प्रभोरेव ॥ २०॥ विकलेऽतिदीनचित्ते विषयाशामात्रधारिणि नितान्तम् । मयि रोषतः कियत् ते वद वद शम्भो यशो भावि ॥ २१॥ स्वगृहे भुवनत्रितये योगक्षेमे मुखानि चत्वारि । मत्प्रतिवचनं हि विना पञ्चमवदनस्य कुत्र गतिः ॥ २२॥ तव कोऽहं त्वं मम कः पञ्चस्वेवं विचारयस्वेति । ब्रूषे दीनदयाब्धे पञ्चमुखत्वं त्वयि व्यक्तम्॥ २३॥ याचस्वान्यं धनिनं भविता तव को दिगम्बराल्लाभः । मां मा प्रतारयैवं ख्यातः श्रीकण्ठनामासि॥ २४॥ वसनाशनप्रदातरि मयि जीवति किं समाकुलस्त्वमिति । दोहाय मोच्यमानो वत्सः किं न त्वरामयते ॥ २५॥ पातकराशिरितीदं त्वयाभिधानं श्रुतं न तद् दृष्टम्। तद्दर्शनकुतुकं यदि मां द्रष्टुं किं विलम्बसे देव ॥ २६॥ पातकराशिरसि त्वं पश्याम्यत एव नाहमिति वदसि । पातकरूपाज्ञाने शिव तव सर्वज्ञताभङ्गः ॥ २७॥ पापं पापमितीदं करोषि शिव किं मुधा बुधान् भ्रान्तान् । तत्सत्यं चेन्न कथं त्वयानुभूतं न दृष्टं वा ॥ २८॥ पापे लोकानुभवः स एव मानं ममाप्यननुभूते । न हि परकीयानुभवः ज्ञातुं शक्यः परेणापि ॥ २९॥ लोकाभिन्नः सोऽहं वक्तुं वाक्यं ह्युपक्रमस्तव चेत्। सिद्धा मनोरथा मे त्वत्तः कस्यापि लोकस्य ॥ ३०॥ अतिवल्गनं ममैतन्मूढत्वं यद्यपि प्रभोः पुरतः । दीनः करोमि किं वा मद्विषये को निवेदयति ॥ ३१॥ लघुरसि किं त्वयि दयया मा मा मंस्थाः शिवेति सहसा त्वम्। भारो भुवोऽस्मि धृत्वा स्वकरे तुलयाशु मां शम्भो॥ ३२॥ सस्ये तृणे च वृष्टिं तुल्यां देवः सदैव विदधाति । देवो महान् बत त्वं गुरुलघुवार्तां कथं कुरुषे ॥ ३३॥ दिष्टोद्दिष्टं दास्याम्यन्यन्नेष्टं यदि स्फुटं वाक्यम् । दत्ता कथं त्वयासावजरामरता मृकण्डुजनेः ॥ ३४॥ नादत्तं प्राप्नोतीत्येतद्वाक्यं प्रतारणामात्रम् । उपमन्युना कदा वा कस्मै दुग्धोदधिर्दत्तः ॥ ३५॥ प्रबलतरोन्मादाढ्यं त्वामप्यगणय्य धावमानं च । मच्चेतोऽपस्मारं नियमय शम्भो पदाभ्यां ते ॥ ३६॥ आशापिशाचिका मां भ्रमयति परितो दशस्वपि दिशासु । स्वीये पिशाचवर्गे सेवायै किं न योजयसि ॥ ३७॥ यक्षाधीनां रक्षां त्र्यक्ष निधीनां कुतो नु वा कुरुषे। साक्षान्मनुष्यधर्माऽप्यहह कथं नु विस्मृतिर्मम ते ॥ ३८॥ धनदे सखित्वमेतत् तव यत् तत्रास्ति विस्मयः क इव । मयि निर्धने तदास्तां त्रिजगति चित्रं कियद्भावि ॥ ३९॥ सखितारूपनिधानं वित्तनिधानं द्विधा धनं तव यत् । नैककरे नृपनीतिस्तत्रान्यतरन्निधेहि मयि ॥ ४०॥ पालय वा मां मा वा मत्तनुभूता तु पञ्चभूतततिः । पोष्यावश्यं भवता भविता नो चेन्न भूतपतिः ॥ ४१॥ अतिकोमलं मनस्ते मुनिभिर्गीतं कुतोऽधुना कठिनम् । मन्ये विषाशनार्थं कठिनं चेतस्त्वया विहितम् ॥ ४२॥ मां द्रष्टुमष्टमूर्ते करुणा तेऽद्यापि किं न वोल्लसति । भिक्षाप्रसङ्गतो वा कियतां नो यासि सदनानि ॥ ४३॥ वित्ताधिपः सखा ते भार्या देहे तवान्नपूर्णाख्या । ऊरीकृतं न दूरीकुरुषे भिक्षाटनमपीश ॥ ४४॥ नाङ्गीकृतो मया त्वं तत एव न दर्शनं मम तवास्ति । इति नोत्तरं प्रदेयं शिव शिव विश्वेशनामासि ॥ ४५॥ यदि देहगेहरूपं ददासि देशाधिकारकार्यं मम । रसनाख्यलेखपत्रे सुदृढां कुरु नाममुद्रां ते ॥ ४६॥ रसनोक्तं कुरु सर्वं शिव तव नामाधिमुद्रितास्तीयम् । गणयसि मुद्रां न हि चेत् प्रभुतोच्छिन्ना तवैव स्यात् ॥ ४७॥ अत्याटिनं करालं भिक्षायुक्तं कपालशूलकरम् । मद्दारिद्र्यं भैरवरूपं कुरु चार्धचन्द्रयुतम् ॥ ४८॥ दारिद्र्यचण्डरश्मौ प्रतपति केदारवच्च मयि शुष्के । जलधरतायां सत्यां त्वयि शिव नाद्यापि समुपैषि ॥ ४९॥ दारिद्र्याख्यमनोभूः क्लीबं चेतोऽपि मोहयत्यनिशम् । एनं लीनं कर्तुं धन्यः कोऽन्यस्त्वदन्योऽस्ति ॥ ५०॥ भालानलाक्षियुक्तस्त्रिजगति नान्यो मदन्य इति। गर्वं मा वह यावद्दारिद्र्याग्निः कपाले मे॥ ५१॥ चेतः कुरु मा कलहं तव वैक्लव्येऽपि शम्भुना प्रभुणा। न वदति यद्यपि भर्ता तवोपकर्ता स एवास्ति ॥ ५२॥ अयि चित्त वित्तलेशे सहजप्रेम्णा कियन्नु लुब्धमसि । न तथापि तद्वियोगः केवलमास्ते शिवेनापि ॥ ५३॥ चेतः कीर विहारं परिहर परितः स्वयं प्रयत्नेन। अत्तुं कालबिडालो धावति शिवपञ्जरं प्रविश ॥ ५४॥ चेतः सदागते त्वं प्रत्याशावात्ययानुगतमूर्तिः। मा वह विषयारण्ये लीनो भव सच्चिदाकाशे ॥ ५५॥ चेतः श‍ृणु मद्वचनं मा कुरु रचनं मनोरथानां त्वम् । शरणं प्रयाहि शर्वं सर्वं सकृदेव सोऽर्पयिता ॥ ५६॥ भ्रातः श‍ृणु मच्चेतो मा नय कालं त्वितस्ततो भ्रमणात् । कालक्षेपेच्छा चेदवलम्बय कालकालं त्वम् ॥ ५७॥ अयि चेतोविहग त्वं विषयारण्ये भ्रमन्नसि श्रान्तः । विश्रामकामना चेच्छिवकल्परुहे चिरं तिष्ठ ॥ ५८॥ चेतोमधुकर दूरं दूरं कमलाशया कुतो यासि । ध्यानादनुपदमेतच्छिवपदकमलं तवायाति ॥ ५९॥ चेतश्चकोर तापं भूपं संसेव्य किं वृथा यासि । यदि चन्द्रिकाभिलाषो निकषा भव चन्द्रचूडस्य ॥ ६०॥ चेतःकुरङ्ग गीते रक्तं चेतस्तवास्त्वनवगीते । भगवद्गीतागीते नगजाकलिते तदारचय ॥ ६१॥ रसने निन्दाव्यसने पैशुन्ये वा न वाग्मितां याहि । त्रिपुरारिनाममालां जितकालां शीलयाशु त्वम् ॥ ६२॥ रसने रसान् समस्तान् रसयित्वा तद्विवेचने कुशला । असि तद्वदाशु पश्येः शिवनाम्नः को रसोऽयमिति ॥ ६३॥ शिवनामसल्लतां त्वं रसनापल्लव कदापि न विहातुम् । यदि वाञ्छसे तदा मा कोमलतां सर्वथा जहिहि ॥ ६४॥ हालाहलस्य तापः शशिना गङ्गाम्बुना न यदि याति । शिव मा गृहाण भुजगान् मद्रसनापल्लवे स्वपिहि ॥ ६५॥ लोचन कोऽभूल्लाभः सर्वानेव द्विलोचनान् वीक्ष्य । दृष्टस्त्रिलोचनश्चेत् सफलं जन्मैव ते भावि ॥ ६६॥ नालोकते यदि त्वां मन्नेत्रं कृष्णमस्तु मुखमस्य । स्वां त्र्यक्ष दक्षतां मे दर्शय नयनावलोकस्य ॥ ६७॥ त्वं लोचनान्धकारे द्रष्टुं वस्त्वन्धकारभिन्नं किम् । वाच्छस्यनेन सङ्गेऽद्दृश्यमपीदं त्वया दृश्यम् ॥ ६८॥ श्रवण सखे श‍ृणु मे त्वं यद्यपि जातो बहुश्रुतोऽस्ति भवान् । शब्दातीतं श्रोतुं शिवमन्त्रात् कोऽपरो मन्त्रः ॥ ६९॥ घ्राण प्राणसखो मे भवसि भवान् पार्थिवोऽस्ति किमु वान्यत् । शिवपदकमलामोदे मोदं गन्तासि यदि शीघ्रम् ॥ ७०॥ रामास्पर्शसुखे ते नितरां भो विग्रहाग्रहोऽस्ति यदि । आलिङ्गयार्धरामं रामाऽभिन्नः स्वयं भवसि ॥ ७१॥ विग्रह विग्रहमेव त्वं कुरु देवेन नाऽमुना सख्यम् । रुचिरप्यस्मिन् शम्भौ जनयत्यरुचिं स्वदेहेऽपि ॥ ७२॥ सम्मीलयाशु रामां त्वद्वामाङ्गान्मया समं शम्भो । जातं ममापि यस्माद् दुःखेनार्धं शरीरमिदम् ॥ ७३॥ अपराधकारिणं मां मत्वा शम्भो यदि त्यजस्येवम् । व्याधः शिरसि पदं ते दत्वा न जगाम किं मुक्तिम् ॥ ७४॥ पार्थः कलहं धनुषा ताडनमपि मूर्ध्नि ते न किं कृतवान् । तत्रापि ते प्रसन्नं चेतः सन्ने मयि कुतो न ॥ ७५॥ त्वयि तुष्टे रुष्टे वा शिव का चिन्ता स्वदुःखभङ्गे मे । उष्णं वानुष्णं वा शमयति सलिलं सदैवाग्निम् ॥ ७६॥ दोषाकरे द्विजिह्वे रतिमतिशयितां करोषि यदि शम्भो। अहमस्मि तथा वितथा कुरुषे मां दृक्पथातीतम् ॥ ७७॥ चेतो मदीयमेतत्सेवाचौर्ये यदि प्रसक्तं ते । दण्डय नितरां शम्भो सर्वस्वं लुण्ठयैतस्य ॥ ७८॥ सदनं प्रत्यागमनं कुशलप्रश्नोक्तिरस्तु दूरतरे । आलोकनेऽपि शम्भो यदि सन्देहः कथं जीवे ॥ ७९॥ आवाहितः स्वभक्तैस्त्वरयैवायासि सर्वपाषाणे । चित्तोपले मदीये हे शिव वस्तुं कुतोऽस्यलसः ॥ ८०॥ वृषभे पशौ दया ते कियती शम्भो पशुप्रियोऽसि यदि । विषयविषाशनतोऽहं पशुरेवास्मीति मां पाहि ॥ ८१॥ त्वयि दृष्ट्वौदासीन्यं तत्स्पर्धातो विवर्धते दैन्यम् । मयि तज्जेतुं त्वरया प्रेषय निकटेऽस्ति यत् सैन्यम् ॥ ८२॥ परिपालयाम्यहं त्वां निकटेन मया किमस्ति ते कार्यम् । मैवं दूरे रमणे सुभृताऽपि न मोदते साध्वी ॥ ८३॥ कतिकतिवारं जननं तव नो जातं न मत्स्मृतिः क्वापि । इति कुपितोऽसि यदि त्वत्पदयोर्निदधामि मूर्धानम् ॥ ८४॥ शिव शङ्कर स्मरारे किञ्चित्प्रष्टव्यमस्ति तत्कथय । वञ्चनमेव करिष्यसि किं वा कालान्तरे प्रीतिम् ॥ ८५॥ यो यन्न वेत्ति दुःखं कर्म स तस्मिन्नियोजयतु शम्भो । भिक्षादुःखं जानंस्तत्र कथं मां नियोजयसि ॥ ८६ ॥ काकूक्तिर्मुखदैन्यं शिव मे बाष्पस्तथाश्रुसम्पातः । त्वय्येकस्मिन् पुरुषे सर्वमिदं निष्फलं भवति ॥ ८७॥ शिव देहि मे स्वभक्तिं तृष्णा स्वयमेव यास्यति ततो मे । पतिमन्यत्र विषक्तं दृष्ट्वा कान्ता न किं त्यजति ॥ ८८॥ गुणहीनोऽपि शिवाहं त्वत्करमुक्तोऽपि तत् पदं यास्ये । भ्रष्टोऽपि भूपहस्ताद्गुणतोऽपि शरो यथा लक्ष्यम् ॥ ८९॥ भक्तजनेष्वनुरक्तं धरणीधरकन्यया परिष्वक्तम् । प्रख्यातनामधेयं जयतितरां भागधेयं मे ॥ ९०॥ फणिकुण्डलं वहन्ती श्रवणे ताटङ्कमप्यपरभागे । सितशोणकान्तियुक्ता काचिन्मद्वासना जयति ॥ ९१॥ आलिङ्गितोऽपि सव्ये शम्पातत्या शिवः प्रकृतितोऽयम् । करुणाम्बुपूर्णगर्भः कश्चिद्धाराधरो जयति ॥ ९२॥ जटिलं शिरःप्रदेशे निटिले कुटिलं गले तथा नीलम् । हृदयीकृताद्रिबालं विलसति कालं जयत् तेजः ॥ ९३॥ धनुरेकत्र पिनाकं सशरं बिभ्रत् तथाऽपरत्राऽपि । शरमैक्षवं च चापं किञ्चित् तत् प्रेम मे जयति ॥ ९४॥ वाञ्छितवितरणशीलं विचित्रलीलं निरालवालं च । ललनालतैकतानं कलये शिवकल्पभूमिरुहम् ॥ ९५॥ परिहृतदुर्जन तिमिरं नगजानन्दैकसिन्धुवृद्धिकरम् । नन्दितभक्तचकोरं वन्दे चन्द्रोदयं कञ्चित् ॥ ९६॥ निखिलनिगमैगदुग्धां दानविदग्धां शुकादिमुनिदुग्धाम् । वपुषा सदैव मुग्धां कलये शिवकामधेनुमहम् ॥ ९७॥ नित्यप्रभाभिरामं विदलितकामं सदार्धधृतभामम् । हृदि कोमलं निकामं श्रीशिवचिन्तामणिं वन्दे ॥ ९८॥ निर्व्याधि मे शरीरं निराधि चेतः सदा समाधिपरम् । कुरु शर्व सर्वदा त्वं नान्यं कामं वृणे कञ्चित् ॥ ९९॥ आर्यापतेः पदाब्जे निहितं शतपद्यपत्रमयपुष्पम् । आर्याशतं सुकृतिनां हृदयामोदं सदा वहतु ॥ १००॥ ॥ इति भरद्वाजकुलतिलकश्रीमदप्पय्यदीक्षित- विरचितशैवार्याशतकं सम्पूर्णम् ॥