अक्षर आकार:

श्रीमदानन्दनटराजाष्टोत्तरशतनामस्तोत्रम्

Shrimad Ananda Nataraja AshTottarashatanama Stotram

श्रीमदानन्दनटराजाष्टोत्तरशतनामस्तोत्रम्

चिदम्बरेश्वरः शम्भुः नटेशो नटनप्रियः । अपस्मारहरो हंसो नृत्तराजः सभापतिः ॥ १॥ पुण्डरीकपुराधीशः श्रीमद्धेमसभेश्वरः । शिवश्चिदम्बरमनुर्मन्त्रमूर्तिहरिप्रियः ॥ २॥ द्वादशान्तस्थितो नृत्तो नृत्तमूर्तिः परात्परः । परानन्दः परञ्ज्योतिः आनन्दो विबुधेश्वरः ॥ ३॥ परप्रकाशो नृत्ताङ्गो नृत्तपादस्त्रिलोचनः । व्याघ्रपादप्रियो मन्त्रराजस्तिल्ववनेश्वरः ॥ ४॥ हरो रत्नसभानाथः पतञ्जलिवरप्रदः । मन्त्रविग्रह ओङ्कारः शङ्करश्चन्द्रशेखरः ॥ ५॥ नीलकण्ठो ललाटाक्षो वह्निहस्तो महेश्वरः । आनन्दताण्डवः श्वेतो गङ्गाधरो जटाधरः ॥ ६॥ चक्रेशः कुञ्चितपदः श्रीचक्राङ्गोऽभयप्रदः । मणिनूपुरपादाब्जः त्रिपुरावल्लभेश्वरः ॥ ७॥ बीजहस्तः चक्रनाथो बिन्दुत्रैकोणवासकः । पाञ्चभौतिकदेहाङ्गः परमानन्दताण्डवः ॥ ८॥ भुजङ्गभूषणः पञ्चदशाक्षरमनोहरः । विश्वेश्वरो विरूपाक्षो विश्वातीतो जगद्गुरुः ॥ ९॥ त्रिचत्वारिंशत्कोणाङ्गः प्रभाचक्रेश्वरः प्रभुः । नवावरणचक्रेशो नवचक्रेश्वरीप्रियः ॥ १०॥ नाट्येश्वरः सभानाथः सिंहवर्मप्रपूजितः । व्याघ्रचर्माम्बरधरोभीमः ह्री(क्ली)ङ्कारनायकः ॥ ११॥ ह्रीं(ऐं) काररुद्रस्रिशिवस्तत्त्वातीतो निरञ्जनः । रामोऽनन्तस्तत्त्वमूर्तिः रुद्रः कालान्तकोऽव्ययः ॥ १२॥ क्ष्म्र्यूङ्कार शम्भुरव्यक्तः त्रिगुणश्चित्प्रकाशकः । सौङ्कारसोमस्तत्वज्ञोऽघोरो दक्षाध्वरान्तकः ॥ १३॥ कामारिर्गजसंहर्ता वीरभद्रः सदाशिवः । भिक्षाटनः कृष्णगन्धप्रियः कङ्कालभैरवः ॥ १४॥ नृसिंहगर्वहरणो भद्रकालीमदान्तकः । निर्विकल्पो निराकारो निर्मलाङ्गो निरामयः ॥ १५॥ ब्रह्मविष्णुप्रियः आनन्दनटेशो भक्तवत्सलः । श्रीमद्दभ्रसभानाथः शिवकामीमनोहरः ॥ १६॥ श्रीमदानन्दनटराजस्याष्टोत्तरं शतम् । नाम्नां सङ्कीर्तयेत् नित्यं सर्वपापप्रणशकम् ॥ १७॥ पुत्रपौत्रप्रदं वंशवृद्धिदं विषनाशनम् । आयुष्करं व्याधिहरं सर्वसम्पत्प्रदायकम् ॥ १८॥ सर्वमङ्गलसंप्राप्तिः जायते तस्य हि धुवम् । इति श्रीमदानन्दनटराजाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥