अक्षर आकार:

श्रीमदानन्दनटराजाष्टोत्तरशतनामावलिः

Shrimad Ananda Nataraja AshTottarashatanamavali 108 Names

श्रीमदानन्दनटराजाष्टोत्तरशतनामावलिः

ॐ चिदम्बरेश्वराय नमः । शम्भवे नमः । नटेशाय नमः । नटनप्रियाय नमः । अपस्मारहराय नमः । हंसाय नमः । नृत्तराजाय नमः । सभापतये नमः । पुण्डरीकपुराधीशाय नमः । श्रीमद्धेम सभेश्वराय नमः । शिवाय नमः । चिदम्बरमनवे नमः । मन्त्रमूर्तये नमः । हरिप्रियाय नमः । द्वादशान्तस्थिताय नमः । नृत्ताय नमः । नृत्तमूर्तये नमः । परात्पराय नमः । परानन्दाय नमः । परं (परस्मै) ज्योतिषे नमः । २० ॐ आनन्दाय नमः । विबुधेश्वराय नमः । परप्रकाशाय नमः । नृत्ताङ्गाय नमः । नृत्तपादाय नमः । त्रिलोचनाय नमः । व्याघ्रपाद प्रियाय नमः । मन्त्रराजाय नमः । तिल्ववनेश्वराय नमः । हराय नमः । रत्नसभानाथाय नमः । पतञ्जलिवरप्रदाय नमः । मन्त्रविग्रहाय नमः । ओङ्काराय नमः । शङ्कराय नमः । चन्द्रशेखराय नमः । नीलकण्ठाय नमः । ललाटाक्षाय नमः । वह्निहस्ताय नमः । महेश्वराय नमः । ४० ॐ आनन्दताण्डवाय नमः । श्वेताय नमः । गङ्गाधराय नमः । जटाधराय नमः । चक्रेशाय नमः । कुञ्चितपदाय नमः । श्रीचक्राङ्गाय नमः । अभयप्रदाय नमः । मणिनूपुरपादाब्जाय नमः । त्रिपुरावल्लभेश्वराय नमः । बीजहस्ताय नमः । चक्रनाथाय नमः । बिन्दुत्रैकोणवासकाय नमः । पाञ्चभौतिकदेहाङ्गाय नमः । परमानन्दताण्डवाय नमः । भुजङ्गभूषणाय नमः । पञ्चदशाक्षरमनोहराय नमः । विश्वेश्वराय नमः । विरूपाक्षाय नमः । विश्वातीताय नमः । ६० ॐ जगद्गुरवे नमः । त्रिचत्वारिंशत्कोणाङ्गाय नमः । प्रभाचक्रेश्वराय नमः । प्रभवे नमः । नवावरणचक्रेशाय नमः । नवचक्रेश्वरीप्रियाय नमः । नाट्येश्वराय नमः । सभानाथाय नमः । सिंहवर्मप्रपूजिताय नमः । व्याघ्रचर्माम्बरधराय नमः । भीमाय नमः । ह्रीं (क्लीं) कारनायकाय नमः । ह्रीं(ऐं) काररुद्राय नमः । त्रिशिवाय नमः । तत्त्वातीताय नमः । निरञ्जनाय नमः । रामाय नमः । अनन्ताय नमः । तत्त्वमूर्तये नमः । रुद्राय नमः । ८० ॐ कालान्तकाय नमः । अव्ययाय नमः । क्ष्म्र्यूङ्कारशम्भवे नमः । अव्यक्ताय नमः । त्रिगुणाय नमः । चित्प्रकाशकाय नमः । सौङ्कार सोमाय नमः । तत्त्वज्ञाय नमः । अघोराय नमः । दक्षाध्वरान्तकाय नमः । कामारये नमः । गजसंहर्त्रे नमः । वीरभद्राय नमः । सदाशिवाय नमः । भिक्षाटनाय नमः । कृष्णगन्धप्रियाय नमः । कङ्कालभैरवाय नमः । नृसिंहगर्वहरणाय नमः । भद्रकालीमदान्तकाय नमः । निर्विकल्पाय नमः । १०० ॐ निराकाराय नमः । निर्मलाङ्गाय नमः । निरामयाय नमः । ब्रह्मविष्णुप्रियाय नमः । आनन्दनटेशाय नमः । भक्तवत्सलाय नमः । श्रीमद्दभ्रसभानाथाय नमः । शिवकामीमनोहराय नमः । १०८ ॐ चित्सभेशाय विद्महे । नटराजायधीमहि । तन्नः शिवः प्रचोदयात् । इति श्रीचिदम्बरकल्पोक्त श्रीनटेश्वराष्टोत्तरशतनामावलिः समाप्ता ।