अक्षर आकार:

वेदान्तपररामायणं

vedAntapararAmAyaNaM

वेदान्तपररामायणं

दशेन्द्रियरथो देही राजा दशरथः स्मृतः । कौसल्या तत्प्रिया बुद्धी रामस्तत्रोद्गतः परः ॥ १॥ वृत्वा सीतां स्वानुभूतिं सुखमास्तेऽथ दैवतः । संसारविपिनं प्रापाहङ्कारो रावणाभिधः ॥ २॥ राजसः स्वानुभूतिं तां सीतां यत्नाज्जहार ह । रामः परात्मापि ततः स्वानुभूतिवियोगतः ॥ ३॥ प्राप्तो दीनदशां दुःखी शुशोच विरहातुरः । परिभ्रमन्हनुमता विवेकेन च सङ्गतः ॥ ४॥ तेन सीतास्वानुभूतिस्थितिवार्ता प्रदर्शिता । ततो वानरसद्वृत्तिसैन्येन च हनूमता ॥ ५॥ सेतुं बध्वा स जलधौ साधनाश्मभिरुत्कटैः । ततो भवाब्धिमुल्लङ्घ्य दीप्तज्ञानाग्निना भृशम् ॥ ६॥ सूक्ष्मदेहाख्यलङ्कां च दग्ध्वौपनिषदस्त्रतः । कामक्रोधादि रक्षांसि हत्वा युद्धे सहस्रशः ॥ ७॥ सात्त्विकाहङ्कारबिभीषणसाहाय्यतस्ततः । कुम्भकर्णं तामसाहङ्कारं राजसमप्यथ ॥ ८॥ निहत्य रावणं स्वानुभूतिं सीतां प्रगृह्य च । रामः स्वरूपसाम्राज्येऽभिषिक्तोऽरीरमत्तया ॥ ९॥ इति श्री परमपूजनीय श्रीवासुदेवानन्दसरस्वतीविरचितं वेदान्तपररामायणं सम्पूर्णम् ॥