अक्षर आकार:

सीताष्टोत्तरशतनामस्तोत्रम्

sItAShTottarashatanAma stotraM

सीताष्टोत्तरशतनामस्तोत्रम्

अथ श्रीमदानन्दरामायणान्तर्गत श्री सीताष्टोत्तरशतनाम स्तोत्रम् ॥ अगस्तिरुवाच- एवं सुतीष्ण सीतायाः कवचं ते मयेरितं । अतः परं श्रुणुष्वान्यत् सीतायाः स्तोत्र मुत्तमं ॥ १ यस्मिनष्टोत्तरशतं सीतानामानि सन्ति हि । अष्टोत्तरशतं सीता नाम्नां स्तोत्र मनुत्तमम् ॥ २ ये पठन्ति नरास्त्वत्र तेषां च सफलो भवः । ते धन्या मानवा लोके ते वैकुण्ठं व्रजन्ति हि ॥ ३ न्यासः। अस्य श्री सीतानामाष्टोत्तरशतमन्त्रस्य- अगस्त्य ऋषिः । अनुष्टुप् छन्दः । रमेति बीजं । मातुलिङ्गीति शक्तिः । पद्माक्षजेति कीलकं । अवनिजेत्यस्त्रं । जनकजेति कवचं । मूलकासुर मर्दिनीति परमो मन्त्रः । श्री सीतारामचन्द्र प्रीत्यर्थं सकल कामना सिद्ध्यर्थं जपे विनियोगः ॥ करन्यासः ॥ ॐ सीतायै अङ्गुष्ठाभ्यां नमः । ॐ रमायै तर्जनीभ्यां नमः । ॐ मातुलिङ्ग्यै मध्यमाभ्यां नमः । ॐ पद्माक्षजायै अनामिकाभ्यां नमः । ॐ अवनिजायै कनिष्ठिकाभ्यां नमः । ॐ जनकजायै करतल करपृष्ठाभ्यां नमः ॥ अङ्गन्यासः ॥ ॐ सीतायै हृदयाय नमः । ॐ रमायै शिरसे स्वाहा । ॐ मातुलिङ्ग्यै शिखायै वषट् । ॐ पद्माक्षजायै नेत्रत्रयाय वौषट् । ॐ जनकात्मजायै अस्त्राय फट् । ॐ मूलकासुरमर्दिन्यै इति दिग्बन्धः ॥ अथ ध्यानम् ॥ वामाङ्गे रघुनायकस्य रुचिरे या संस्थिता शोभना या विप्राधिप यान रम्य नयना या विप्रपालानना । विद्युत्पुञ्ज विराजमान वसना भक्तार्ति सङ्खण्डना श्रीमद् राघव पादपद्मयुगळ न्यस्तेक्षणा सावतु ॥ श्री सीता जानकी देवी वैदेही राघवप्रिया । रमावनिसुता रामा राक्षसान्त प्रकारिणी ॥ १ रत्नगुप्ता मातुलिङ्गी मैथिली भक्ततोषदा । पद्माक्षजा कञ्जनेत्रा स्मितास्या नूपुरस्वना ॥ २ वैकुण्ठनिलया मा श्रीः मुक्तिदा कामपूरणी । नृपात्मजा हेमवर्णा मृदुलाङ्गी सुभाषिणी ॥ ३ कुशाम्बिका दिव्यदाच लवमाता मनोहरा । हनूमद् वन्दितपदा मुग्धा केयूर धारिणी ॥ ४ अशोकवन मध्यस्था रावणादिग मोहिनी । विमानसंस्थिता सुभ्रू सुकेशी रशनान्विता ॥ ५ रजोरूपा सत्वरूपा तामसी वह्निवसिनी । हेममृगासक्त चित्ता वाल्मीकाश्रम वासिनी ॥ ६ पतिव्रता महामाया पीतकौशेय वासिनी । मृगनेत्रा च बिम्बोष्ठी धनुर्विद्या विशारदा ॥ ७ सौम्यरूपा दशरथस्नुषा चामर वीजिता । सुमेधा दुहिता दिव्यरूपा त्रैलोक्यपालिनि ॥ ८ अन्नपूर्णा महालक्ष्मीः धीर्लज्जा च सरस्वती । शान्तिः पुष्टिः शमा गौरी प्रभायोध्या निवासिनी ॥ ९ वसन्तशीलता गौरी स्नान सन्तुष्ट मानसा । रमानाम भद्रसंस्था हेमकुम्भ पयोधरा ॥ १० सुरार्चिता धृतिः कान्तिः स्मृतिर्मेधा विभावरी । लघूदरा वरारोहा हेमकङ्कण मण्डिता ॥ ११ द्विज पत्न्यर्पित निजभूषा राघव तोषिणी । श्रीराम सेवन रता रत्न ताटङ्क धारिणी ॥ १२ रामावामाङ्ग संस्था च रामचन्द्रैक रञ्जिनी । सरयूजल सङ्क्रीडा कारिणी राममोहिनी ॥ १३ सुवर्ण तुलिता पुण्या पुण्यकीर्तिः कलावती । कलकण्ठा कम्बुकण्ठा रम्भोरूर्गजगामिनी ॥ १४ रामार्पितमना रामवन्दिता रामवल्लभा । श्रीरामपद चिह्नाङ्गा राम रामेति भाषिणी ॥ १५ रामपर्यङ्क शयना रामाङ्घ्रि क्षालिणी वरा । कामधेन्वन्न सन्तुष्टा मातुलिङ्ग कराधृता ॥ १६ दिव्यचन्दन संस्था श्री मूलकासुर मर्दिनी । एवं अष्टोत्तरशतं सीतानाम्नां सुपुण्यदम् ॥ १७ ये पठन्ति नरा भूम्यां ते धन्याः स्वर्गगामिनः । अष्टोत्तरशतं नाम्नां सीतायाः स्तोत्रमुत्तमम् ॥ १८ जपनीयं प्रयत्नेन सर्वदा भक्ति पूर्वकं । सन्ति स्तोत्राण्यनेका नि पुण्यदानि महान्ति च ॥ १९ नानेन सदृशानीह तानि सर्वाणि भूसुर । स्तोत्राणामुत्तमं चेदं भुक्ति मुक्ति प्रदं नृणाम् ॥ २० एवं सुतीष्ण ते प्रोक्तं अष्टोत्तरशतं शुभं । सीतानाम्नां पुण्यदञ्च श्रवणान् मङ्गळ प्रदम् ॥ २१ नरैः प्रातः समुत्थाय पठितव्यं प्रयत्नतः । सीता पूजन कालेपि सर्व वाञ्छितदायकम् ॥ २२ इति श्रीशतकोटि रामचरितान्तर्गत श्रीमदानन्दरामायणे वाल्मिकीये मनोहरकाण्डे सीताष्टोत्तरशतनाम स्तोत्रं सम्पूर्णम् ॥