अक्षर आकार:

शत्रुघ्नकवचम्

shatrughnakavacham

शत्रुघ्नकवचम्

॥ श्रीमदानन्दरामायणांतर्गत श्री शत्रुघ्न कवचं ॥ अगस्तिरुवाच- अथशत्रुघ्न कवचं सुतीक्ष्ण श्रुणु सादरं । सर्वकाम प्रदं रम्यं रामसद्भक्ति वर्धनं ॥ १॥ शत्रुघ्नं धृतकार्मुकं धृत महा तूणीर बाणोत्तमं पार्श्वे श्रीरघुनन्दनस्य विनयात्वा मेस्थितं सुन्दरं । रामं स्वीय करेण तालजलजं धृत्वातिचित्रं वरं सूर्याभं व्यजनं सभास्थित महंतं विजयंतं भजे ॥ २॥ अस्य श्री शत्रुघ्न कवचमन्त्रस्य अगस्ति ऋषिः । श्री शत्रुघ्नो देवता । अनुष्टुप् छन्दः । सुदर्शन इति बीजं । कैकेयी नन्दनः शक्तिः । श्रीभरतानुज इति कीलकं । भरतमन्त्रीत्यस्त्रं । श्री रामदास इति कवचं । लक्ष्मणांशज इति मन्त्रः । श्रीशत्रुघ्न प्रीत्यर्थं सकलमनः कामनासिद्ध्यर्थं जपे विनियोगः ॥ अथ अङ्गुळी न्यासः । ॐ शत्रुघ्नाय अङ्गुष्ठाभ्यां नमः । ॐ सुदर्शनाय तर्जनीभ्यां नमः । ॐ कैकेयीनन्दनाय मध्यमाभ्यां नमः । ॐ भरतानुजाय अनामिकाभ्यां नमः । ॐ भरतमन्त्रिणे कनिष्ठिकाभ्यां नमः । ॐ श्री रामदासाय करतल करपृष्ठाभ्यां नमः ॥ हृदयादिन्यासः ॥ ॐ शत्रुघ्नाय हृदयाय नमः । ॐ सुदर्शनाय शिरसे स्वाहा । ॐ कैकेयीनन्दनाय शिखायै वषट् । ॐ भरतानुजाय कवचाय हुं । ॐ भरतमन्त्रिणे नत्रत्रयाय वौषट् । ॐ श्री रामदासाय अस्त्राय फट् । ॐ लक्ष्मणांशजेति दिग्बन्धः ॥ अथ ध्यानम् ॥ रामस्य संस्थितं वामे पार्श्वे विनयपूर्वकं । कैकेयीनन्दनं सौम्यं मुकुटेनादि रञ्जितं ॥ १॥ रत्नकङ्कण केयूर वनमाला विराजितं । रशना कुण्डलधरं रत्नहार सुनूपुरं ॥ २॥ व्यजनेन वीजयन्तं जानकी कान्तमादरात् । राम न्यस्तेक्षणम् वीरं कैकेयी तोषवर्धनं ॥ ३॥ द्विभुजं कञ्जनयनं दिव्यपीताम्बरान्वितं । सुभुजं सुन्दरं मेघश्यामळं सुन्दराननं ॥ ४॥ रामवाक्ये दत्तकर्णं रक्षोघ्नं कड्ग धारिणं । धनुर्बाणधरं श्रेष्ठं धृततूणीर मुत्तमं ॥ ५॥ सभायां संस्थितं रम्यं कस्तूरि तिलकाङ्कितं । मकुटस्थावतंसेन शोभितं च स्मिताननं ॥ ६॥ रविवंशोद्भवं दिव्यरूपं दशरथात्मजं । मधुरावासिनं देवं लवणासुरमर्दनं ॥ ७॥ एवं ध्यात्वा तु शत्रुघ्नं रामपादेक्षणम् हृदि । पठनीयं वरं चेदं कवचं तस्य पावनं ॥ ८॥ कवच प्रारंभः ॥ पूर्वेत्ववतु शत्रुघ्नः पातुयांये सुदर्शनः । कैकेयी नन्दनः पातु प्रतीच्यां सर्वदा मम ॥ १॥ पातूदीश्यां रामबन्धुः पात्वधो भरतानुजः । रविवंशोद्भवश्चोर्ध्वं मध्ये दशरथात्मजः ॥ २॥ सर्वतः पातु मामत्र कैकेयी तोषवर्धनः । श्यामलाङ्गः चिरः पातु भालं श्रीइलक्ष्मणानुजः ॥ ३॥ भृवोर् मध्ये सदा पातु सुमुखोत्रावनीतले । श्रुतकीर्तिपतिर्नेत्रे कपोले पातु राघवः ॥ ४॥ कर्णौ कुण्डलकर्णोव्यात् नासाग्रं नृपवंशजः । मुखं मम युवा पातु वाणीं पातु स्फुटाक्षरः ॥ ५॥ जिह्वां सुबाहुतातोव्यात्यूपकेतुपिता द्विजान् । चिबुकं रम्यचिबुकः कण्ठं पातु सुभाषणः ॥ ६॥ स्कन्धौ पातु महातेजाः भुजौ राघव वाक्यकृत् । करौ मे कङ्कणधरः पातु खड्गी नखान् मम ॥ ७॥ कुक्षिं रामप्रियः पातु पातु वक्षो रघूतमः । पार्श्वे सुरार्चितः पातु पातु पृष्ठं वराननः ॥ ८॥ जठरं पातु रक्षोघ्नः पातु नाभिं सुलोचनः । कटिं भरतमन्त्री मे गुह्यं श्री रामसेवकः ॥ ९॥ रामर्पितमनाः पातु लिङ्गमूरू स्मिताननः । कोदण्डपाणिः पात्वत्र जानुनी मम सर्वदा ॥ १०॥ राममित्रः पातु झङ्घे गुल्फौ पातु सुनूपुरः । पादौ नृपतिपूज्योव्यात् आन्त्रौ पातु सुधार्मिकः ॥ ११॥ दिवसे सत्यन्धोव्यात् भोजने शरसत्करः । गमने कलकण्ठोव्यात् सर्वदा लवणान्तकः ॥ १२॥ एवं शत्रुघ्न कवचं मया ते समुदीरितं । ये पठन्ति नरास्वेतत् ते नराः सौख्य भागिनः ॥ १३॥ शत्रुघ्नस्य वरं चेदं कवचं मङ्गळप्रदं । पठनीयं नरैर्भक्त्या पुत्रपौत्र विवर्धनं ॥ १४॥ अस्य स्तोत्रस्य पठेन यं यं कामं नरोर्थयेत् । तं तं लभेन्निश्चयेन सत्यमेतद् वचो मम ॥ १५॥ पुत्रार्थी प्राप्नुयात् पुत्रं धनार्थी धनमाप्नुयात् । इच्छा कामं तु कामार्थी प्राप्नुयात् पठनादिना । कवचस्यास्य भूम्या हि शत्रुघ्नस्य विनिश्चयात् ॥ १६॥ तस्मादेतत् सदा भक्त्या पठनीयं नरैः शुभं । आदौ नरैर्मारुतेश्च पठित्वा कवचं शुभं ॥ १७॥ ततः शत्रुघ्न कवचं पठनीयमिदं शुभं । पठनीयं भ्रतस्य कवचं परमं ततः ॥ १८॥ इति श्री शतकोटिरामचरितांतर्गत श्रीमदानन्दरामायणे वाल्मिकीये मनोहरकाण्डे श्री शत्रुघ्नकवचं सम्पूर्णं ॥