अक्षर आकार:

सप्तर्षिरामायणम्

saptarShirAmAyaNam

सप्तर्षिरामायणम्

काश्यपः - बालकाण्डम् जातः श्री रघुनायको दशरथान्मुन्याश्रयस्ताटकां ह्त्वा रक्षितकौशिकक्रतुवरः कृत्वाप्यहल्यां शुभाम् । भङ्क्त्वा रुद्रशरासनं जनकजां पाणौ गृहीत्वा ततो जित्वार्द्धाध्वनि भार्गवं पुनरगात्सीतासमेतः पुरीम् ॥ अत्रिः - अयोध्याकाण्डम् दास्या मन्थरया दयारहितया दुर्भेदिता कैकयी श्रीरामप्रथमाभिषेकसमये माताप्ययाचद्वरौ । भर्तारं भरतः प्रशास्तु धरणीं रामो वनं गच्छता- दित्याकर्ण्य सचोत्तरं नहि ददौ दुःखेन मूर्च्छां गतः ॥ भरद्वाजः - आरण्यकाण्डम् श्रीरामः पितृशासनाद्वनमगात् सौमित्रिसीतान्वितो गंगां प्राप्य जटां निबध्य सगुहः सच्चित्रकूटे वसन् । कृत्वा तत्र पितृक्रियां सभरतो दत्वाऽभयं दण्डके प्राप्यागस्त्यमुनीश्वरं तदुदितं धृत्वा धनुश्चाक्षयम् ॥ विश्वामित्रः - किष्किन्धाकाण्डम् गत्वा पञ्चवटीमगस्त्यवचनाद्दत्वाऽभयं मौनिनां छित्वा शूर्पणखास्यकर्णयुगलं त्रातुं समस्तान् मुनीन् । हत्वा तं च खरं सुवर्णहरिणं भित्वा तथा वालिनं तारारत्न मवैरिराज्यमकरोत्सर्वं च सुग्रीवसात् ॥ गौतमः - सुन्दरकाण्डम् दूतो दाशरथेः सलीलमुदधीं तीर्त्त्वा हनूमान् महान् दृष्ट्वाऽशोकवने स्थितां जनकजां दत्वांगुलेर्मुद्रिकाम् । अक्षादीनसुरान्निहत्य महतीं लङ्कां च दग्ध्वा पुनः श्रीरामं च समेत्य देव जननी दृष्टा मयेत्यब्रवीत् ॥ जमदग्निः - युद्धकाण्डम् रामो बद्धपयोनिधिः कपिवरैर्वीरैर्नलाद्यैर्वृतो लङ्कां प्राप्य सकुंभकर्णतनुजं हत्वा रणे रावणम् । त्सयाम् न्यस्य विभीषणं पुनरसौ सीतापतिः पुष्पका- रूढः सन् पुरमागतः सभरतः सिंहासनस्थो बभौ ॥ वसिष्ठः - उत्तरकाण्डम् श्री रामो हयमेधमुख्यमखकृत् सम्यक् प्रजाः पालयन् कृत्वा राज्यमथानुजश्च सुचिरं भूरिस्वधर्मान्वितौ । पुत्रौ भ्रातृसमन्वितौ कुशलवौ संस्थाप्य भूमण्डले सोऽयोध्यापुरवासिभिश्च सरयूस्नातः प्रपेदे दिवं ॥ सर्वे ऋषयः श्रीरामस्य कथासुधातिमधुरान् श्लोकानिमानुत्तमान् ये श‍ृण्वन्ति पठन्ति च प्रतिदिनं तेऽघौघविध्वंसिनः । श्रीमन्तो बहुपुत्रपौत्रसहिता भुक्त्वेह भोगाश्चिरं भोगान्ते तु सदार्चितं सुरगणैर्विष्णोर्ल्लभन्ते पदम् ॥ Sri Swami Ganapati Sacchidananda mentions that the Saptarshi Ramayana was revealed to him in a vision with Hanumana who propitiated Saptarshis to narrate the Ramayana.