अक्षर आकार:

सीतासहस्रनामस्तोत्रम् भुषुण्डिरामायणान्तर्गतम्

sItAsahasranAmastotram from bhuShuNDirAmAya

सीतासहस्रनामस्तोत्रम् भुषुण्डिरामायणान्तर्गतम्

चतर्दशोऽध्यायः । वसिष्ठ उवाच - या श्रीरेतस्य सहजा सीता नित्याङ्गसङ्गिनो । भवित्री जनकस्यैव कुले सर्वाङ्गसुन्दरी ॥ १॥ तस्याश्च नामसाहस्रं कथयिष्यामि भूपते । यथा रामस्तथैवेयं महालक्ष्मीः सनातनी ॥ २॥ नानयोः संमतो भेदः शास्त्रकोटिशतैरपि । अस्यैव नित्यरमणो बहुनामस्वरूपतः ॥ ३॥ तस्यास्तु नामसाहस्रं यथावदुपधारय । अं सहजानन्दिनी सीता जानकी राधिका रतिः ॥ ४॥ रुक्मिणी कमला कान्ता कान्तिः कमललोचना । किशोरी रामललना कामुकी करुणानिधिः ॥ ५॥ कन्दर्पवद्धिनी वीरा वरुणालयवासिनो । अशोकवनमध्यस्था महाशोकविनाशिनी ॥ ६॥ चम्पकाङ्गी तडित्कान्तिर्जाह्नवी जनकात्मजा । जानकी जयदा जप्या जयिनी जैत्रपालिका ॥ ७॥ परमा परमानन्दा पूणिमामृतसागरा । सूधासूतिः सुधारश्मिः सुधादीपितविग्रहा ॥ ८॥ सुस्मिता सुस्मितमुखी तारका सुखदेक्षणा । रक्षणी चित्रकूटस्था वृन्दावनमहेश्वरी ॥ ९॥ कन्दर्पकोटिजननी कोटिब्रह्माण्डनायिका । शरण्या शारदा श्रीश्च शरत्कालविनोदिनी ॥ १०॥ हंसी क्षीराब्धिवसतिर्वासुकी स्थावराङ्गना । वराङ्गासनसंस्थाना प्रियभोगविशारदा ॥ ११॥ वसिष्ठविश्ववसिनी विश्वपत्नी गुणोदया । गौरी चम्पकगात्रा च दीपद्योता प्रभावती ॥ १२॥ रत्नमालाविभूषा च दिव्यगोपालकन्यका । सत्यभामारतिः प्रीता मित्रा चित्तविनोदिनी ॥ १३॥ सुमित्रा चैव कौशल्या कैकेयीकुलवर्द्धिनी । कुलीना केलिनी दक्षा दक्षकन्या दयावती ॥ १४॥ पार्वती शैलकुलजा वंशध्वजपटीरुचिः । रुचिरा रुचिरापाङ्गा पूर्णरूपा कलावती ॥ १५॥ कोटिब्रह्माण्डलक्ष्मीशा स्थानदात्री स्थितिः सती । अमृता मोदिनी मोदा रत्नाचलविहारिणी ॥ १६॥ नन्दभानुसुता धीरा वंशीरवविनोदिनी । विजया वीजिनी विद्या विद्यादानपरायणा ॥ १७॥ मन्दस्मिता मन्दगतिर्मदना मदनातुरा । वृंहिणी वृहती वर्या वरणीया वराङ्गना ॥ १८॥ रामप्रिया रमारूपा रासनृत्यविशारदा । गान्धर्विका गीतरम्या सङ्गीतरसवर्द्धिनी ॥ १९॥ तालदा तालवक्षोजा तालभेदनसुन्दरी । सरयूतीरसन्तुष्टा यमुनातटसंस्थिता ॥ २०॥ स्वामिनी स्वामिनिरता कौसुम्भवसनावृता । मालिनी तुङ्गवक्षोजा फलिनी फलमालिनी ॥ २१॥ वैडूर्यहारसुभगा मुक्ताहारमनोहरा । किरातीवेशसंस्थाना गुञ्जामणिविभूषणा ॥ २२॥ विभूतिदा विभा वीणा वीणानादविनोदिनी । प्रियङ्गुकलिकापाङ्गा कटाक्षा गतितोषिता ॥ २३॥ रामानुरागनिलया रत्नपङ्कजमालिनी । विभावा विनयस्था च मधुरा पतिसेविता ॥ २४॥ शत्रुघ्नवरदात्री च रावणप्राणमोचिनी । var मोक्षिणी दण्डकावनमध्यस्था बहुलीला विलासिनी ॥ २५॥ शुक्लपक्षप्रिया शुक्ला शुक्लापाङ्गस्वरोन्मुखी । कोकिलस्वरकण्ठी च कोकिलस्वरगायिनी ॥ २६॥ पञ्चमस्वरसन्तुष्टा पञ्चवक्त्रप्रपूजिता । आद्या गुणमयी लक्ष्मीः पद्महस्ता हरिप्रिया ॥ २७॥ हरिणी हरिणाक्षी च चकोराक्षी किशोरिका । गुणहृष्टा शरज्ज्योत्स्ना स्मितस्नपितविग्रहा ॥ २८॥ विरजा सिन्धुगमनी गङ्गासागरयोगिनी । कपिलाश्रमसंस्थाना योगिनी परमाकला ॥ २९॥ खेचरो भूचरी सिद्धा वैष्णवी वैष्णवप्रिया । ब्राह्मी माहेश्वरी तिग्मा दुर्वारबलविभ्रमा ॥ ३०॥ रक्तांशुकप्रिया रक्ता नवविद्रुमहारिणी । हरिप्रिया ह्रीस्वरूपा हीनभक्तविवर्द्धिनी ॥ ३१॥ हिताहितगतिज्ञा च माधवी माधवप्रिया । मनोज्ञा मदनोन्मत्ता मदमात्सर्यनाशिनी ॥ ३२॥ निःसपत्नो निरुपमा स्वाधीनपतिका परा । प्रेमपूर्णा सप्रणया जनकोत्सवदायिनी ॥ ३३॥ वेदिमध्या वेदिजाता त्रिवेदी वेदभारतो । गीर्वाणगुरुपत्नी च नक्षत्रकुलमालिनी ॥ ३४॥ मन्दारपुष्पस्तवका मन्दाक्षनयवर्द्धिनी । सुभगा शुभरूपा च सुभाग्या भाग्यवर्द्धिनी ॥ ३५॥ सिन्दूराङ्कितमाला च मल्लिकादामभूषिता । तुङ्गस्तनी तुङ्गनासा विशालाक्षी विशल्यका ॥ ३६॥ कल्याणिनी कल्मषहा कृपापूर्णा कृपानदी । क्रियावती वेधवती मन्त्रणी मन्त्रनायिका ॥ ३७॥ कैशोरवेशसुभगा रघुवंशविवद्धिनी । राघवेन्द्रप्रणयिनी राघवेन्द्रविलासिनी ॥ ३८॥ तरुणी तिग्मदा तन्वी त्राणा तारुण्यवर्द्धिनी । मनस्विनी महामोदा मीनाक्षी मानिनी मनुः ॥ ३९॥ आग्नेयीन्द्राणिका रौद्री वारुणी वशवर्तिनी । var अग्राह्यी वारुणी वीतरागा वीतरतिर्वोतशोका वरोरुका ॥ ४०॥ वरदा वरसंसेव्या वरज्ञा वरकाङ्क्षिणी । फुल्लेन्दीवरदामा च वृन्दा वृन्दावती प्रिया ॥ ४१॥ तुलसीपुष्पसंकाशा तुलसीमाल्यभूषिता । तुलसीवनसंस्थाना तुलसीवनमन्दिरा ॥ ४२॥ सर्वाकारा निराकारा रूपलावण्यवर्द्धिनी । var नित्याकारा रूपिणी रूपिका रम्या रमणीया रमात्मिका ॥ ४३॥ वैकुप्यपतिपत्नी च वैकुण्ठप्रियवासिनी । वद्रिकाश्रभसंस्था च सर्वसौभाग्यमण्डिता ॥ ४४॥ सर्ववेदान्तगम्या च निष्कला परमाकला । कलाभासा तुरीया च तुरीयाश्रममण्डिता ॥ ४५॥ रक्तोष्ठी च प्रिया रामा रागिनी रागवर्द्धिनी । नीलांशुकपरीधाना सुवर्णकलिकाकृतिः ॥ ४६॥ कामकेलिविनोदा च सुरतानन्दवर्द्धिनी । सावित्री व्रतधर्त्री च करामलकनायका ॥ ४७॥ var व्रतधात्री मराला मोदिनी प्राज्ञा प्रभा प्राणप्रिया परा । पुनाना पुण्यरूपा च पुण्यदा पूर्णिमात्मिका ॥ ४८॥ पूर्णाकारा व्रजानन्दा व्रजवासा व्रजेश्वरी । व्रजराजसुताधारा धारापीयूषवर्षिणी ॥ ४९॥ राकापतिभुखी मग्ना मधुसूदनवल्लभा । वीरिणी वीरपत्नी च वीरचारित्रवर्द्धिनी ॥ ५०॥ धम्मिल्लमल्लिकाषुष्पा माधुरी ललितालया । वासन्ती वर्हभूषा च वर्होत्तंसा विलासिनी ॥ ५१॥ बर्हिणी बहुदा बह्वी बाहुवल्ली मृणालिका । शुकनासा शुद्धरूपा गिरीशवरवर्द्धिता ॥ ५१॥ नन्दिनी च सुदन्ता च वसुधा चित्तनन्दिनी । हेमसिहासनस्थाना चामरद्वयवीजिता ॥ ५२॥ छत्रिणी छत्ररम्या च महासाम्राज्यसर्वदा । संपन्नदा भवानी च भवभीतिविनाशिनी ॥ ५४॥ द्राविडी द्रविडस्थाना आन्ध्री कार्णाटनागरी । महाराष्ट्रैकविषया उदग्देशनिवासिनी ॥ ५५॥ सुजङ्घा पङ्कजपदा गुप्तगुल्फा गुरुप्रिया । रक्तकाञ्चीगुणकटिः सुरूपा बहुरूपिणी ॥ ५६॥ सुमध्या तरुणश्रीश्च वलित्रयविभूषिता । गर्विणी गुर्विणी सीता सीतापाङ्गविभोचनी ॥ ५७॥ ताटङ्किनी कुन्तलिनी हारिणी हीरकान्विता । शैवालमञ्जरीहस्ता मञ्जुला मञ्जुलापिनी ॥। ५८॥ कवरीकेशविन्यासा मन्दहासमनोरथा । मधुरालापसन्तोषा कौबेरी दुर्गमालिका ॥ ५९॥ इन्दिरा परमश्रीका सुश्रीः शैशवशोभिता । शमीवृक्षाश्रया श्रेणी शमिनो शान्तिदा शमा ॥ ६०॥ कुञ्जेश्वरी कुञ्जगेहा कुञ्जगा कुञ्जदेवता । कलविङ्ककुलप्रीता पादाङ्गुलिविभूषिता ॥ ६१॥ वसुदा वसुपत्नी च वीरसूर्वीरवर्द्धिनी । सप्तश‍ृङ्गकृतस्थाना कृष्णा कृष्णप्रिया प्रिया ॥ ६२॥ गोपीजनगणोत्साहा गोपगोपालमण्डिता । गोवर्द्धनधरा गोपी गोधनप्रणयाश्रया ॥ ६३॥ दधिविक्रयकर्त्रो च दानलीलाविशारदा । विजना विजनप्रीता विधिजा विधुजा विधा ॥ ६४॥ अद्वैता द्वैतविच्छिन्ना रामतादाम्यरूपिणी । कृपारूपा निष्कलङ्का काञ्चनासनसंस्थिता ॥ ६५॥ महार्हरत्नपीठस्था राज्यलक्ष्मी रजोगुणा । रक्तिका रक्तपुष्पा च ताम्बूलीदलचर्विणी ॥ ६६॥ बिम्बोष्ठी व्रीडिता व्रीडा वनमालाविभूषणा । वनमालैकमध्यस्था रामदोर्दण्डसङ्गिनी ॥ ६७॥ खण्डिता विजितक्रोधा विप्रलब्धा समुत्सुका । अशोकवाटिकादेवी कुञ्जकान्तिविहारिणी ॥ ६८॥ var कुन्तकान्ति मैथिली मिथिलाकारा मैथिलैकहितप्रदा । वाग्वती शैलजा शिप्रा महाकालवनप्रिया ॥ ६९॥ रेवा कल्लोलसुरता सत्यरूपा सदाचिता । सभ्या सभावती सुभ्रूः कुरङ्गाक्षी शुभानना ॥ ७०॥ मायापुरी तथायोध्या रङ्गधामनिवासिनी । मुग्धा मुग्धगतिर्मोवा प्रमोदा परमोन्नता ॥ ७१॥ कामधेनुः कल्पवल्ली चिन्तामणिगृहाङ्गणा । हिन्दोलिनी महाकेलिः सखीगणविभूषिता ॥ ७२॥ सुन्दरी परमोदारा रामसान्निध्यकारिणी । रामार्द्धाङ्गा महालक्ष्मीः प्रमोदवनवसिनी ॥ ७३॥ विकुण्ठापत्यमुदिता परदारप्रियाप्रिया । var सहजावरदाप्रिया रामकैङ्कर्यनिरता जम्भजित्करवीजिता ॥ ७४॥ कदम्बकाननस्था च कादम्बकुलवासिनी । कलहंसकुलारावा राजहंसगतिप्रिया ॥ ७५॥ कारण्डवकुलोत्साहा ब्रह्मादिसुरसंस्थिता । सरसी सरसीकेलिः पम्पाजलविनोदिनो ॥ ७६॥ करिणीयूथमध्यस्था महाकेलिविधायिनी । जनस्थानकृतोत्साहा काञ्चनन्यङ्कुवञ्चिता ॥ ७७॥ कावेरीजलसुस्नाता तीर्थस्नानकृताश्रया । गुप्तमन्त्रा गुप्तगतिर्गोप्या गोपतिगोपिता ॥ ७८॥ गम्भीरावर्तनाभिश्च नानारसबिलम्बिनी । श‍ृङ्गाररससालम्बा कादम्बामोदमादिनो । कादम्बिनी पानमत्ता घूर्णिताक्षी स्खलद्गतिः ॥ ८०॥ सुसाध्या दुःखसाध्या च दम्भिनी दम्भवर्जिता । गुणाश्रया गुणाकारा कल्याणगुणयोगिनी ॥ ८१॥ सर्वमाङ्गल्यसम्पन्ना माङ्गल्या मतवल्लभा । सुखितात्मजनिप्राणा प्राणेशी सर्वचेतना ॥ ८२॥ चैतन्यरूपिणो ब्रह्मरूपिणी मोदवर्द्धिनी । एकान्तभक्तसुलभा जयदुर्गा जयप्रिया ॥ ८३॥ हरचापकृतक्रोधा भङ्गुरोक्षणदायिनी । स्थिरा स्थिरगतिः स्थात्री स्थावरस्था वराश्रया ॥ ८४॥ स्थावरेन्द्रसुता धन्या धनिनी धनदार्चिता । महालक्ष्यीर्लोकमाता लोकेशी लोकनायिका ॥ ८५॥ प्रपञ्चातीतगुणनी प्रपञ्चातीतविग्रहा । परब्रह्मस्वरूपा च नित्या भक्तिस्वरूपिणी ॥ ८६॥ ज्ञानभक्तिस्वरूपा च ज्ञानभक्तिविवर्द्धिनी । ब्रह्मसायुज्यसाधुश्च रामसायुज्यसाधना ॥ ८७॥ ब्रह्माकारा ब्रह्ममयी ब्रह्मविष्णुस्वरूपिणो । महाधम्मिल्लशोभा च कवरीकेशपाशिनी ॥ ८८॥ चिन्मयानन्दरूपा च चिन्मयानन्दविग्रहा । कैवर्तकुलसम्पत्तिः शबरीपरिवारिणी ॥ ८९॥ कनकाचलसंस्थाना गङ्गा त्रिपथगामिनी । त्रिपुटा त्रिवृता विद्या प्रणवाक्षररूपिणी ॥ ९०॥ गायत्री मुनिविद्या च सन्ध्या पातकनाशिनी । सर्वदोषप्रशमनी सर्वकल्याणदायिनी ॥ ९१॥ रामरामामनोरम्या स्वयलक्ष्म्या स्वसाक्षिणी । var स्वयलक्ष्या अनन्तकोटिनामा च अनन्तकोटिरूपिणी ॥ ९२॥ भूलीला रुक्मिणी राधा रामकेलिविबोधिनी । वीरा वृन्दा पौर्णमासी विशाखा ललिता लता ॥ ९३॥ लावण्यदा लयाकारा लक्ष्मीर्लोकानुबन्धिनी । सृष्टिस्थितिलयाकारा तुर्यातुर्यातिगावधिः ॥ ९४॥ दुर्वासावरलभ्या च विचित्रबलवद्धिनी । रमणी रामरमणी सारात्सारा परात्परा ॥ ९५॥ इति श्रीजानकीदेव्याः नामसाहस्रकं स्तवम् । नामकर्मप्रसङ्गेन मया तुभ्यं प्रकाशितम् ॥ ९६॥ गोपनीयं प्रयत्नेन त्रैलोक्येऽप्यतिदुर्लभम् । सीतायाः श्रोमहालक्ष्भ्याः सद्यः संतोषदायकम् ॥ ९७॥ यः पठेत्प्रयतो नित्यं स साक्षाद्वैष्णवोत्तमः । नित्यं गुरुमुखाल्लब्ध्वा पठनीयं प्रयत्नतः ॥ ९८॥ सर्वसम्पत्करं पुण्यं वैष्णवानां सुखप्रदम् । कीतिदं कान्तिदं चैव धनदं सौभगप्रदम् ॥ ९९॥ प्रमुद्वनविहारिण्याः सीतायाः सुखवर्द्धनम् । रामप्रियाया जानक्या नामसाहस्रकं परम् ॥ १००॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे सीतानामसाहस्रकं नाम चतुर्दशोऽध्यायः ॥ १४॥