अक्षर आकार:

सीताष्टोत्तरशतनामावलिः

sItAShTottarashatanAmAvaliH

सीताष्टोत्तरशतनामावलिः

सीतायै नमः । सीरध्वजसुतायै । सीमातीतगुणोज्ज्वलायै । सौन्दर्यसारसर्वस्वभूतायै । सौभाग्यदायिन्यै । देव्यै । देवार्चितपदायै । दिव्यायै । दशरथस्नुषायै । रामायै । रामप्रियायै । रम्यायै । राकेन्दुवदनोज्ज्वलायै । वीर्यशुल्कायै । वीरपत्न्यै । वियन्मध्यायै । वरप्रदायै । पतिव्रतायै । पङ्क्तिकण्ठनाशिन्यै । पावनस्मृत्यै नमः ॥ २० वन्दारुवत्सलायै नमः । वीरमात्रे । वृतरघूत्तमायै । सम्पत्कर्यै । सदातुष्टायै । साक्षिण्यै । साधुसम्मतायै । नित्यायै । नियतसंस्थानायै । नित्यानन्दायै । नुतिप्रियायै । पृथ्व्यै । पृथ्वीसुतायै । पुत्रदायिन्यै । प्रकृत्यै । परायै । हनुमत्स्वामिन्यै । हृद्यायै । हृदयस्थायै । हताशुभायै नमः ॥ ४० हंसयुक्तायै नमः । हंसगत्यै । हर्षयुक्तायै । हतासुरायै । साररूपायै । सारवचसे । साध्व्यै । सरमाप्रियायै । त्रिलोकवन्द्यायै । त्रिजटासेव्यायै । त्रिपथगार्चिन्यै । त्राणप्रदायै । त्रातकाकायै । तृणीकृतदशाननायै । अनसूयाङ्गरागाङ्कायै । अनसूयायै । सूरिवन्दितायै । अशोकवनिकास्थानायै । अशोकायै । शोकविनाशिन्यै नमः ॥ ६० सूर्यवंशस्नुषायै नमः । सूर्यमण्डलान्तस्थवल्लभायै । श्रुतमात्राघहरणायै । श्रुतिसन्निहितेक्षणायै । पुण्यप्रियायै । पुष्पकस्थायै । पुण्यलभ्यायै । पुरातनायै । पुरुषार्थप्रदायै । पूज्यायै । पूतनाम्न्यै । परन्तपायै । पद्मप्रियायै । पद्महस्तायै । पद्मायै । पद्ममुख्यै । शुभायै । जनशोकहरायै । जन्ममृत्युशोकविनाशिन्यै । जगद्रूपायै नमः ॥ ८० जगद्वन्द्यायै नमः । जयदायै । जनकात्मजायै । नाथनीयकटाक्षायै । नाथायै । नाथैकतत्परायै । नक्षत्रनाथवदनायै । नष्टदोषायै । नयावहायै । वह्निपापहरायै । वह्निशैत्यकृते । वृद्धिदायिन्यै । वाल्मीकिगीतविभवायै । वचोऽतीतायै । वराङ्गनायै । भक्तिगम्यायै । भव्यगुणायै । भान्त्यै । भरतवन्दितायै । सुवर्णाङ्ग्यै ॥ १०० सुखकर्यै नमः । सुग्रीवाङ्गदसेवितायै । वैदेह्यै । विनताघौघनाशिन्यै । विधिवन्दितायै । लोकमात्रे । लोचनान्तःस्थितकारुण्यसागरायै । श्रीरामवल्लभायै नमः ॥ १०८ सीतामुदारचरितां विधिशम्भुविष्णु- वन्द्यां त्रिलोकजननीं नतकल्पवल्लीम् । हैमामनेकमणिरञ्जितकोटिभास- भूषोत्करामनुदिनं ललितां नमामि ॥ उन्मृष्टं कुचसीम्नि पत्रमकरं दृष्ट्वा हठालिङ्गनात् कोपो मास्तु पुनर्लिखाम्यमुमिति स्मेरे रघूणां वरे । कोपेनारुणितोऽश्रुपातदलितः प्रेम्णा च विस्तारितो दत्ते मैथिलकन्यया दिशतु नः क्षेमः कटाक्षाङ्कुरः ॥ इति सीताष्टोत्तरशतनामावलिः समाप्ता ।