अक्षर आकार:

रामाष्टकं १ श्रीमदानन्दरामायणे

Ramashtakam from Ananda Ramayana

रामाष्टकं १ श्रीमदानन्दरामायणे

॥ अथ रामाष्टकम् ॥ श्रीशिव उवाच । सुग्रीवमित्रं परमं पवित्रं सीताकलत्रं नवमेघगात्रम् । कारुण्यपात्रं शतपत्रनेत्रं श्रीरामचन्द्रं सततं नमामि ॥११६॥१॥ संसारसारं निगमप्रचारं धर्मावतारं हृतभूमिभारम् । सदाविकारं सुखसिन्धुसारं श्रीरामचद्रं सततं नमामि ॥११७॥२॥ लक्ष्मीविलासं जगतां निवासं लङ्काविनाशं भुवनप्रकाशम् । भूदेववासं शरदिन्दुहासं श्रीरामचन्द्रं सततं नमामि ॥११८॥३॥ मन्दारमालं वचने रसालं गुणैर्विशालं हतसप्ततालम् । क्रव्यादकालं सुरलोकपालं श्रीरामचन्द्रं सततं नमामि ॥११९॥४॥ वेदान्तगानं सकलैः समानं हृतारिमानं त्रिदशप्रधानम् । गजेन्द्रयानं विगतावसानं श्रीरामचन्द्रं सततं नमामि ॥१२०॥५॥ श्यामाभिरामं नयनाभिरामं गुणाभिरामं वचनाभिरामम् । विश्वप्रणामं कृतभक्तकामं श्रीरामचन्द्रं सततं नमामि ॥१२१॥६॥ लीलाशरीरं रणरङ्गधीरं विश्वैकसारं रघुवंशहारम् । गम्भीरनादं जितसर्ववादं श्रीरामचन्द्रं सततं नमामि ॥१२२॥७॥ खले कृतान्तं स्वजने विनीतं सामोपगीतं मनसा प्रतीतम् । रागेण गीतं वचनादतीतं श्रीरामचन्द्रं सततं नमामि ॥१२३॥८॥ श्रीरामचन्द्रस्य वराष्टकं त्वां मयेरितं देवि मनोहरं ये । पठन्ति श‍ृण्वन्ति गृणन्ति भक्त्या ते स्वीयकामान् प्रलभन्ति नित्यम् ॥१२४॥९॥ इति शतकोटिरामचरितान्तर्गते श्रीमदानन्दरामायणे वाल्मीकीये सारकाण्डे युद्धचरिते द्वादशसर्गान्तर्गतं श्रीरामाष्टकं समाप्तम् ॥ Girish Beeharry, PSA Easwaran from Ananda Ramayana