अक्षर आकार:

श्रीरामसहस्रनामम् श्रीमदानन्दरामायणे

shrIrAmasahasranAmam shrImadAnandarAmAyaNe

श्रीरामसहस्रनामम् श्रीमदानन्दरामायणे

श्रीपार्वत्युवाच श्रोतुमिच्छामि देवेश तदहं सर्वकामदम् । नाम्नां सहस्रं मां ब्रूहि यदस्ति मयि ते दया ॥ २८॥ श्रीमहादेव उवाच अथ वक्ष्यामि भो देवि रामनामसहस्रकम् । श‍ृणुष्वैकमनाः स्तोत्रं गुह्याद्गुह्यतरं महत् ॥ २९॥ ऋषिर्विनायकश्चास्य ह्यनुष्टुप् छन्द उच्यते । परब्रह्मात्मको रामो देवता शुभदर्शने ॥ ३०॥ ॐ अस्य श्रीरामसहस्रनाममालामन्त्रस्य विनायक ऋषिः । अनुष्टुप् छन्दः । श्रीरामो देवता । महाविष्णुरिति बीजम् । गुणभृन्निर्गुणो महानिति शक्तिः । सच्चिदानन्दविग्रह इति कीलकम् । श्रीरामप्रीत्यर्थे जपे विनियोगः ॥ आङ्गुलिन्यासः ॐ श्रीरामचन्द्राय अङ्गुष्ठाभ्यां नमः । सीतापतये तर्जनीभ्यां नमः । रघुनाथाय मध्यमाभ्यां नमः । भरताग्रजाय अनामिकाभ्यां नमः । दशरथात्मजाय कनिष्ठिकाभ्यां नमः । हनुमत्प्रभवे करतलकरपृष्ठाभ्यां नमः ॥ हृदयादिन्यासः ॐ श्रीरामचन्द्राय हृदयाय नमः । सीतापतये शिरसे स्वाहा । रघुनाथाय शिखायै वषट् । भरताग्रजाय कवचाय हुम् । दशरथात्मजाय नेत्रत्रयाय वौषट् । हनुमत्प्रभवे अस्त्राय फट् ॥ अथ ध्यानम् । ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं पीतं वासो वसानं नवकमलस्पर्धि नेत्रं प्रसन्नम् । वामाङ्कारूढसीतामुखकमलमिलल्लोचनं नीरदाभं नानालङ्कारदीप्तं दधतमुरुजटामण्डलं रामचन्द्रम् ॥ ३१॥ वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे मध्ये पुष्पकमासने मणिमये वीरासने संस्थितम् । अग्रे वाचयति प्रभञ्जनेसुते तत्त्वं मुनिभ्यः परं व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ ३२॥ सौवर्णमण्डपे दिव्ये पुष्पके सुविराजिते । मूले कल्पतरोः स्वर्णपीठे सिंहाष्टसंयुते ॥ ३३॥ मृदुश्लक्ष्णतरे तत्र जानक्या सह संस्थितम् । रामं नीलोत्पलश्यामं द्विभुजं पीतवाससम् ॥ ३४॥ स्मितवक्त्रं सुखासीनं पद्मपत्रनिभेक्षणम् । किरीटहारकेयूरकुण्डलैः कटकादिभिः ॥ ३५॥ भ्राजमानं ज्ञानमुद्राधरं वीरासनस्थितम् । स्पृशन्तं स्तनयोरग्रे जानक्याः सव्यपाणिना ॥ ३६॥ वसिष्ठवामदेवाद्यैः सेवितं लक्ष्मणादिभिः । अयोध्यानगरे रम्ये ह्यभिषिक्तं रघूद्वहम् ॥ ३७॥ एवं ध्यात्वा जपेन्नित्यं रामनामसहस्रकम् । हत्याकोटियुतो वापि मुच्यते नात्र संशयः ॥ ३८॥ (अथ सहस्रनाम स्तोत्र प्रारम्भः ।) ॐ रामः श्रीमान्महाविष्णुर्जिष्णुर्देवहितावहः । तत्त्वात्मा तारकब्रह्म शाश्वतः सर्वसिद्धिदः ॥ ३९॥ राजीवलोचनः श्रीमान् श्रीरामो रघुपुङ्गवः । रामभद्रः सदाचारो राजेन्द्रो जानकीपतिः ॥ ४०॥ अग्रगण्यो वरेण्यश्च वरदः परमेश्वरः । जनार्दनो जितामित्रः परार्थैकप्रयोजनः ॥ ४१॥ विश्वामित्रप्रियो दाता शत्रुजिच्छत्रुतापनः । सर्वज्ञः सर्ववेदादिः शरण्यो वालिमर्दनः ॥ ४२॥ ज्ञानभव्योऽपरिच्छेद्यो वाग्मी सत्यव्रतः शुचिः । ज्ञानगम्यो दृढप्रज्ञः खरध्वंसः प्रतापवान् ॥ ४३॥ द्युतिमानात्मवान् वीरो जितक्रोधोऽरिमर्दनः । विश्वरूपो विशालाक्षः प्रभुः परिवृढो दृढः ॥ ४४॥ ईशः खड्गधरः श्रीमान् कौसल्येयोऽनसूयकः । विपुलांसो महोरस्कः परमेष्ठी परायणः ॥ ४५॥ सत्यव्रतः सत्यसन्धो गुरुः परमधार्मिकः । लोकेशो लोकवन्द्यश्च लोकात्मा लोककृद्विभुः ॥ ४६॥ अनादिर्भगवान् सेव्यो जितमायो रघूद्वहः । रामो दयाकरो दक्षः सर्वज्ञः सर्वपावनः ॥ ४७॥ ब्रह्मण्यो नीतिमान् गोप्ता सर्वदेवमयो हरिः । सुन्दरः पीतवासाश्च सूत्रकारः पुरातनः ॥ ४८॥ सौम्यो महर्षिः कोदण्डः सर्वज्ञः सर्वकोविदः । कविः सुग्रीववरदः सर्वपुण्याधिकप्रदः ॥ ४९॥ भव्यो जितारिषड्वर्गो महोदारोऽघनाशनः । सुकीर्तिरादिपुरुषः कान्तः पुण्यकृतागमः ॥ ५०॥ अकल्मषश्चतुर्बाहुः सर्वावासो दुरासदः । 100 स्मितभाषी निवृत्तात्मा स्मृतिमान् वीर्यवान् प्रभुः ॥ ५१॥ धीरो दान्तो घनश्यामः सर्वायुधविशारदः । अध्यात्मयोगनिलयः सुमना लक्ष्मणाग्रजः ॥ ५२॥ सर्वतीर्थमयः शूरः सर्वयज्ञफलप्रदः । यज्ञस्वरूपो यज्ञेशो जरामरणवर्जितः ॥ ५३॥ वर्णाश्रमगुरुर्वर्णी शत्रुजित्पुरुषोत्तमः । शिवलिङ्गप्रतिष्ठाता परमात्मा परापरः ॥ ५४॥ प्रमाणभूतो दुर्ज्ञेयः पूर्णः परपुरञ्जयः । अनन्तदृष्टिरानन्दो धनुर्वेदो धनुर्धरः ॥ ५५॥ गुणाकारो गुणश्रेष्ठः सच्चिदानन्दविग्रहः । अभिवाद्यो महाकायो विश्वकर्मा विशारदः ॥ ५६॥ विनीतात्मा वीतरागस्तपस्वीशो जनेश्वरः । कल्याणः प्रह्वतिः कल्पः सर्वेशः सर्वकामदः ॥ ५७॥ अक्षयः पुरुषः साक्षी केशवः पुरुषोत्तमः । लोकाध्यक्षो महाकार्यो विभीषणवरप्रदः ॥ ५८॥ आनन्दविग्रहो ज्योतिर्हनुमत्प्रभुरव्ययः । भ्राजिष्णुः सहनो भोक्ता सत्यवादी बहुश्रुतः ॥ ५९॥ सुखदः कारणं कर्ता भवबन्धविमोचनः । देवचूडामणिर्नेता ब्रह्मण्यो ब्रह्मवर्धनः ॥ ६०॥ संसारतारको रामः सर्वदुःखविमोक्षकृत् । विद्वत्तमो विश्वकर्ता विश्वकृद्विश्वकर्म च ॥ ६१॥ नित्यो नियतकल्याणः सीताशोकविनाशकृत् । काकुत्स्थः पुण्डरीकाक्षो विश्वामित्रभयापहः ॥ ६२॥ मारीचमथनो रामो विराधवधपण्डितः । दुःस्वप्ननाशनो रम्यः किरीटी त्रिदशाधिपः ॥ ६३॥ महाधनुर्महाकायो भीमो भीमपराक्रमः । तत्त्वस्वरूपस्तत्त्वज्ञस्तत्त्ववादी सुविक्रमः ॥ ६४॥ भूतात्म भूतकृत्स्वामी कालज्ञानी महावपुः । अनिर्विण्णो गुणग्रामो निष्कलङ्कः कलङ्कहा ॥ ६५॥ स्वभावभद्रः शत्रुघ्नः केशवः स्थाणुरीश्वरः । भूतादिः शंभुरादित्यः स्थविष्ठः शाश्वतो ध्रुवः ॥ ६६॥ कवची कुण्डली चक्री खड्गी भक्तजनप्रियः । अमृत्युर्जन्मरहितः सर्वजित्सर्वगोचरः ॥ ६७॥ अनुत्तमोऽप्रमेयात्मा सर्वात्मा गुणसागरः । 200 रामः समात्मा समगो जटामुकुटमण्डितः ॥ ६८॥ अजेयः सर्वभूतात्मा विष्वक्सेनो महातपाः । लोकाध्यक्षो महाबाहुरमृतो वेदवित्तमः ॥ ६९॥ सहिष्णुः सद्गतिः शास्ता विश्वयोनिर्महाद्युतिः । अतीन्द्र ऊर्जितः प्रांशुरुपेन्द्रो वामनो बलिः ॥ ७०॥ धनुर्वेदो विधाता च ब्रह्मा विष्णुश्च शङ्करः । हंसो मरीचिर्गोविन्दो रत्नगर्भो महद्द्युतिः ॥ ७१॥ var महाद्युतिः व्यासो वाचस्पतिः सर्वदर्पितासुरमर्दनः । जानकीवल्लभः श्रीमान् प्रकटः प्रीतिवर्धनः ॥ ७२॥ संभवोऽतीन्द्रियो वेद्यो निर्देशो जाम्बवत्प्रभुः । मदनो मन्मथो व्यापी विश्वरूपो निरञ्जनः ॥ ७३॥ नारायणोऽग्रणी साधुर्जटायुप्रीतिवर्धनः । नैकरूपो जगन्नाथः सुरकार्यहितः प्रभुः ॥ ७४॥ जितक्रोधो जितारातिः प्लवगाधिपराज्यदः । वसुदः सुभुजो नैकमायो भव्यः प्रमोदनः ॥ ७५॥ चण्डांशुः सिद्धिदः कल्पः शरणागतवत्सलः । अगदो रोगहर्ता च मन्त्रज्ञो मन्त्रभावनः ॥ ७६॥ सौमित्रिवत्सलो धुर्यो व्यक्ताव्यक्तस्वरूपधृक् । वसिष्ठो ग्रामणीः श्रीमाननुकूलः प्रियंवदः ॥ ७७॥ अतुलः सात्त्विको धीरः शरासनविशारदः । ज्येष्ठः सर्वगुणोपेतः शक्तिमांस्ताटकान्तकः ॥ ७८॥ वैकुण्ठः प्राणिनां प्राणः कमलः कमलाधिपः । गोवर्धनधरो मत्स्यरूपः कारुण्यसागरः ॥ ७९॥ कुम्भकर्णप्रभेत्ता च गोपिगोपालसंवृतः । 300 मायावी व्यापको व्यापी रेणुकेयबलापहः ॥ ८०॥ पिनाकमथनो वन्द्यः समर्थो गरुडध्वजः । लोकत्रयाश्रयो लोकभरितो भरताग्रजः ॥ ८१॥ श्रीधरः सङ्गतिर्लोकसाक्षी नारायणो विभुः । मनोरूपी मनोवेगी पूर्णः पुरुषपुङ्गवः ॥ ८२॥ यदुश्रेष्ठो यदुपतिर्भूतावासः सुविक्रमः । तेजोधरो धराधरश्चतुर्मूर्तिर्महानिधिः ॥ ८३॥ चाणूरमथनो वन्द्यः शान्तो भरतवन्दितः । शब्दातिगो गभीरात्मा कोमलाङ्गः प्रजागरः ॥ ८४॥ लोकोर्ध्वगः शेषशायी क्षीराब्धिनिलयोऽमलः । आत्मज्योतिरदीनात्मा सहस्रार्चिः सहस्रपात् ॥ ८५॥ अमृतांशुर्महीगर्तो निवृत्तविषयस्पृहः । त्रिकालज्ञो मुनिः साक्षी विहायसगतिः कृती ॥ ८६॥ पर्जन्यः कुमुदो भूतावासः कमललोचनः । श्रीवत्सवक्षाः श्रीवासो वीरहा लक्ष्मणाग्रजः ॥ ८७॥ लोकाभिरामो लोकारिमर्दनः सेवकप्रियः । सनातनतमो मेघश्यामलो राक्षसान्तकः ॥ ८८॥ दिव्यायुधधरः श्रीमानप्रमेयो जितेन्द्रियः । भूदेववन्द्यो जनकप्रियकृत्प्रपितामहः ॥ ८९॥ उत्तमः सात्विकः सत्यः सत्यसन्धस्त्रिविक्रमः । सुवृत्तः सुगमः सूक्ष्मः सुघोषः सुखदः सुहृत् ॥ ९०॥ दामोदरोऽच्युतः शार्ङ्गी वामनो मथुराधिपः । देवकीनन्दनः शौरिः शूरः कैटभमर्दनः ॥ ९१॥ सप्ततालप्रभेत्ता च मित्रवंशप्रवर्धनः । कालस्वरूपी कालात्मा कालः कल्याणदः कलिः ॥ ९२॥ 400 संवत्सरो ऋतुः पक्षो ह्ययनं दिवसो युगः । स्तव्यो विविक्तो निर्लेपः सर्वव्यापी निराकुलः ॥ ९३॥ अनादिनिधनः सर्वलोकपूज्यो निरामयः । रसो रसज्ञः सारज्ञो लोकसारो रसात्मकः ॥ ९४॥ सर्वदुःखातिगो विद्याराशिः परमगोचरः । शेषो विशेषो विगतकल्मषो रघुपुङ्गवः ॥ ९५॥ वर्णश्रेष्ठो वर्णभाव्यो वर्णो वर्णगुणोज्ज्वलः । कर्मसाक्षी गुणश्रेष्ठो देवः सुरवरप्रदः ॥ ९६॥ देवाधिदेवो देवर्षिर्देवासुरनमस्कृतः । सर्वदेवमयश्चक्री शार्ङ्गपाणी रघूत्तमः ॥ ९७॥ मनोगुप्तिरहङ्कारः प्रकृतिः पुरुषोऽव्ययः । न्यायो न्यायी नयी श्रीमान् नयो नगधरो ध्रुवः ॥ ९८॥ लक्ष्मीविश्वम्भरो भर्ता देवेन्द्रो बलिमर्दनः । बाणारिमर्दनो यज्वानुत्तमो मुनिसेवितः ॥ ९९॥ देवाग्रणीः शिवध्यानतत्परः परमः परः । सामगेयः प्रियः शूरः पूर्णकीर्तिः सुलोचनः ॥ १००॥ अव्यक्तलक्षणो व्यक्तो दशास्यद्विपकेसरी । कलानिधिः कलानाथः कमलानन्दवर्धनः ॥ १०१॥ पुण्यः पुण्याधिकः पूर्णः पूर्वः पूरयिता रविः । जटिलः कल्मषध्वान्तप्रभञ्जनविभावसुः ॥ १०२॥ जयी जितारिः सर्वादिः शमनो भवभञ्जनः । अलङ्करिष्णुरचलो रोचिष्णुर्विक्रमोत्तमः ॥ १०३॥ आशुः शब्दपतिः शब्दगोचरो रञ्जनो लघुः । निःशब्दपुरुषो मायो स्थूलः सूक्ष्मो विलक्षणः ॥ १०४॥ 500 आत्मयोनिरयोनिश्च सप्तजिह्वः सहस्रपात् । सनातनतमः स्रग्वी पेशलो विजितांबरः ॥ १०५॥ शक्तिमान् शङ्खभृन्नाथो गदाधररथाङ्गभृत् । निरीहो निर्विकल्पश्च चिद्रूपो वीतसाध्वसः ॥ १०६॥ सनातनः सहस्राक्षः शतमूर्तिर्घनप्रभः । हृत्पुण्डरीकशयनः कठिनो द्रव एव च ॥ १०७॥ सूर्यो ग्रहपतिः श्रीमान् समर्थोऽनर्थनाशनः । अधर्मशत्रू रक्षोघ्नः पुरुहूतः पुरस्तुतः ॥ १०८॥ ब्रह्मगर्भो बृहद्गर्भो धर्मधेनुर्धनागमः । हिरण्यगर्भो ज्योतिष्मान् सुललाटः सुविक्रमः ॥ १०९॥ शिवपूजारतः श्रीमान् भवानीप्रियकृद्वशी । नरो नारायणः श्यामः कपर्दी नीललोहितः ॥ ११०॥ रुद्रः पशुपतिः स्थाणुर्विश्वामित्रो द्विजेश्वरः । मातामहो मातरिश्वा विरिञ्चिर्विष्टरश्रवाः ॥ १११॥ अक्षोभ्यः सर्वभूतानां चण्डः सत्यपराक्रमः । वालखिल्यो महाकल्पः कल्पवृक्षः कलाधरः ॥ ११२॥ निदाघस्तपनो मेघः शुक्रः परबलापहृत् । वसुश्रवाः कव्यवाहः प्रतप्तो विश्वभोजनः ॥ ११३॥ रामो नीलोत्पलश्यामो ज्ञानस्कन्दो महाद्युतिः । कबन्धमथनो दिव्यः कम्बुग्रीवः शिवप्रियः ॥ ११४॥ सुखी नीलः सुनिष्पन्नः सुलभः शिशिरात्मकः । असंसृष्टोऽतिथिः शूरः प्रमाथी पापनाशकृत् ॥ ११५॥ पवित्रपादः पापारिर्मणिपूरो नभोगतिः । उत्तारणो दुष्कृतिहा दुर्धर्षो दुःसहो बलः ॥ ११६॥ 600 अमृतेशोऽमृतवपुर्धर्मी धर्मः कृपाकरः । भगो विवस्वानादित्यो योगाचार्यो दिवस्पतिः ॥ ११७॥ उदारकीर्तिरुद्योगी वाङ्मयः सदसन्मयः । नक्षत्रमानी नाकेशः स्वाधिष्ठानः षडाश्रयः ॥ ११८॥ चतुर्वर्गफलं वर्णशक्तित्रयफलं निधिः । निधानगर्भो निर्व्याजो निरीशो व्यालमर्दनः ॥ ११९॥ श्रीवल्लभः शिवारंभः शान्तो भद्रः समञ्जयः । भूशायी भूतकृद्भूतिर्भूषणो भूतभावनः ॥ १२०॥ अकायो भक्तकायस्थः कालज्ञानी महापटुः । परार्धवृत्तिरचलो विविक्तः श्रुतिसागरः ॥ १२१॥ स्वभावभद्रो मध्यस्थः संसारभयनाशनः । वेद्यो वैद्यो वियद्गोप्ता सर्वामरमुनीश्वरः ॥ १२२॥ सुरेन्द्रः कारणं कर्मकरः कर्मी ह्यधोक्षजः । धैर्योऽग्रधुर्यो धात्रीशः सङ्कल्पः शर्वरीपतिः ॥ १२३॥ परमार्थगुरुर्दृष्टिः सुचिराश्रितवत्सलः । विष्णुर्जिष्णुर्विभुर्यज्ञो यज्ञेशो यज्ञपालकः ॥ १२४॥ प्रभुर्विष्णुर्ग्रसिष्णुश्च लोकात्मा लोकपालकः । केशवः केशिहा काव्यः कविः कारणकारणम् ॥ १२५॥ कालकर्ता कालशेषो वासुदेवः पुरुष्टुतः । आदिकर्ता वराहश्च वामनो मधुसूदनः ॥ १२६॥ नारायणो नरो हंसो विष्वक्सेनो जनार्दनः । विश्वकर्ता महायज्ञो ज्योतिष्मान्पुरुषोत्तमः ॥ १२७॥ 700 वैकुण्ठः पुण्डरीकाक्षः कृष्णः सूर्यः सुरार्चितः । नारसिंहो महाभीमो वज्रदंष्ट्रो नखायुधः ॥ १२८॥ आदिदेवो जगत्कर्ता योगीशो गरुडध्वजः । गोविन्दो गोपतिर्गोप्ता भूपतिर्भुवनेश्वरः ॥ १२९॥ पद्मनाभो हृषीकेशो धाता दामोदरः प्रभुः । त्रिविक्रमस्त्रिलोकेशो ब्रह्मेशः प्रीतिवर्धनः ॥ १३०॥ संन्यासी शास्त्रतत्त्वज्ञो मन्दिरो गिरिशो नतः । वामनो दुष्टदमनो गोविन्दो गोपवल्लभः ॥ १३१॥ भक्तप्रियोऽच्युतः सत्यः सत्यकीर्तिर्धृतिः स्मृतिः । कारुण्यः करुणो व्यासः पापहा शान्तिवर्धनः ॥ १३२॥ बदरीनिलयः शान्तस्तपस्वी वैद्युतः प्रभुः । भूतावासो महावासो श्रीनिवासः श्रियः पतिः ॥ १३३॥ तपोवासो मुदावासः सत्यवासः सनातनः । पुरुषः पुष्करः पुण्यः पुष्कराक्षो महेश्वरः ॥ १३४॥ पूर्णमूर्तिः पुराणज्ञः पुण्यदः प्रीतिवर्धनः । पूर्णरूपः कालचक्रप्रवर्तनसमाहितः ॥ १३५॥ नारायणः परञ्ज्योतिः परमात्मा सदाशिवः । शङ्खी चक्री गदी शार्ङ्गी लाङ्गली मुसली हली ॥ १३६॥ किरीटी कुण्डली हारी मेखली कवची ध्वजी । योद्धा जेता महावीर्यः शत्रुघ्नः शत्रुतापनः ॥ १३७॥ शास्ता शास्त्रकरः शास्त्रं शङ्करः शङ्करस्तुतः । सारथी सात्त्विकः स्वामी सामवेदप्रियः समः ॥ १३८॥ 800 पवनः संहितः शक्तिः सम्पूर्णाङ्गः समृद्धिमान् । स्वर्गदः कामदः श्रीदः कीर्तिदः कीर्तिदायकः ॥ १३९॥ मोक्षदः पुण्डरीकाक्षः क्षीराब्धिकृतकेतनः । सर्वात्मा सर्वलोकेशः प्रेरकः पापनाशनः ॥ १४०॥ वैकुण्ठः पुण्डरीकाक्षः सर्वदेवनमस्कृतः । सर्वव्यापी जगन्नाथः सर्वलोकमहेश्वरः ॥ १४१॥ सर्गस्थित्यन्तकृद्देवः सर्वलोकसुखावहः । अक्षयः शाश्वतोऽनन्तः क्षयवृद्धिविवर्जितः ॥ १४२॥ निर्लेपो निर्गुणः सूक्ष्मो निर्विकारो निरञ्जनः । सर्वोपाधिविनिर्मुक्तः सत्तामात्रव्यवस्थितः ॥ १४३॥ अधिकारी विभुर्नित्यः परमात्मा सनातनः । अचलो निश्चलो व्यापी नित्यतृप्तो निराश्रयः ॥ १४४॥ श्यामी युवा लोहिताक्षो दीप्त्या शोभितभाषणः । आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः ॥ १४५॥ सत्त्ववान् गुणसम्पन्नो दीप्यमानः स्वतेजसा । कालात्मा भगवान् कालः कालचक्रप्रवर्तकः ॥ १४६॥ नारायणः परञ्ज्योतिः परमात्मा सनातनः । विश्वकृद्विश्वभोक्ता च विश्वगोप्ता च शाश्वतः ॥ १४७॥ विश्वेश्वरो विश्वमूर्तिर्विश्वात्मा विश्वभावनः । सर्वभूतसुहृच्छान्तः सर्वभूतानुकम्पनः ॥ १४८॥ सर्वेश्वरः सर्वशर्वः सर्वदाऽऽश्रितवत्सलः । सर्वगः सर्वभूतेशः सर्वभूताशयस्थितः ॥ १४९॥ अभ्यन्तरस्थस्तमसश्छेत्ता नारायणः परः । अनादिनिधनः स्रष्टा प्रजापतिपतिर्हरिः ॥ १५०॥ नरसिंहो हृषीकेशः सर्वात्मा सर्वदृग्वशी । जगतस्तस्थुषश्चैव प्रभुर्नेता सनातनः ॥ १५१॥ 900 कर्ता धाता विधाता च सर्वेषां पतिरीश्वरः । सहस्रमूर्धा विश्वात्मा विष्णुर्विश्वदृगव्ययः ॥ १५२॥ पुराणपुरुषः श्रेष्ठः सहस्राक्षः सहस्रपात् । तत्त्वं नारायणो विष्णुर्वासुदेवः सनातनः ॥ १५३॥ परमात्मा परंब्रह्म सच्चिदानन्दविग्रहः । परञ्ज्योतिः परन्धाम पराकाशः परात्परः ॥ १५४॥ अच्युतः पुरुषः कृष्णः शाश्वतः शिव ईश्वरः । नित्यः सर्वगतः स्थाणू रुद्रः साक्षी प्रजापतिः ॥ १५५॥ हिरण्यगर्भः सविता लोककृल्लोकभुग्विभुः । ॐकारवाच्यो भगवान् श्रीभूलीलापतिः प्रभुः ॥ १५६॥ सर्वलोकेश्वरः श्रीमान् सर्वज्ञः सर्वतोमुखः । स्वामी सुशीलः सुलभः सर्वगः सर्वशक्तिमान् ॥ १५७॥ नित्यः सम्पूर्णकामश्च नैसर्गिकसुहृत्सुखी । कृपापीयूषजलधिः शरण्यः सर्वशक्तिमान् ॥ १५८॥ श्रीमान्नारायणः स्वामी जगतां प्रभुरीश्वरः । मत्स्यः कूर्मो वराहश्च नारसिंहोऽथ वामनः ॥ १५९॥ रामो रामश्च कृष्णश्च बौद्धः कल्की परात्परः । अयोध्येशो नृपश्रेष्ठः कुशबालः परन्तपः ॥ १६०॥ लवबालः कञ्जनेत्रः कञ्जाङ्घ्रिः पङ्कजाननः । सीताकान्तः सौम्यरूपः शिशुजीवनतत्परः ॥ १६१॥ सेतुकृच्चित्रकूटस्थः शबरीसंस्तुतः प्रभुः । योगिध्येयः शिवध्येयः शास्ता रावणदर्पहा ॥ १६२॥ श्रीशः शरण्यो भूतानां संश्रिताभीष्टदायकः । अनन्तः श्रीपती रामो गुणभृन्निर्गुणो महान् ॥ १६३॥ 1000 एवमादीनि नामानि ह्यसङ्ख्यान्यपराणि च । एकैकं नाम रामस्य सर्वपापप्रणाशनम् ॥ १६४॥ सहस्रनामफलदं सर्वैश्वर्यप्रदायकम् । सर्वसिद्धिकरं पुण्यं भुक्तिमुक्तिफलप्रदम् ॥ १६५॥ मन्त्रात्मकमिदं सर्वं व्याख्यातं सर्वमङ्गलम् । उक्तानि तव पुत्रेण विघ्नराजेन धीमता ॥ १६६॥ सनत्कुमाराय पुरा तान्युक्तानि मया तव । यः पठेच्छृणुयाद्वापि स तु ब्रह्मपदं लभेत् ॥ १६७॥ तावदेव बलं तेषां महापातकदन्तिनाम् । यावन्न श्रूयते रामनामपञ्चाननध्वनिः ॥ १६८॥ ब्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः । शरणागतघाती च मित्रविश्वासघातकः ॥ १६९॥ मातृहा पितृहा चैव भ्रूणहा वीरहा तथा । कोटिकोटिसहस्राणि ह्युपपापानि यान्यपि ॥ १७०॥ संवत्सरं क्रमाज्जप्त्वा प्रत्यहं रामसन्निधौ । निष्कण्टकं सुखं भुक्त्वा ततो मोक्षमवाप्नुयात् ॥ १७१॥ श्रीरामनाम्नां परमं सहस्रकं पापापहं सौख्यविवृद्धिकारकम् । भवापहं भक्तजनैकपालकं स्त्रीपुत्रपौत्रप्रदमृद्धिदायकम् ॥ इति श्रीशतकोटिरामचरितान्तर्गते श्रीमदानन्दरामायणे वाल्मीकीये राज्यकाण्डे पूर्वार्धे श्रीरामसहस्रनामकथनं नाम प्रथमः सर्गः ॥ ]hrule Verse numbers are as per the Ananda Ramayana and have not been reset to start with 1.