अक्षर आकार:

श्रीरामसहस्रनामस्तोत्रम्

Shri Rama Sahasranama Stotra

श्रीरामसहस्रनामस्तोत्रम्

श्रीराघवं दशरथात्मजमप्रमेयं सीतापतिं रघुकुलान्वयरत्नदीपम् । आजानुबाहुमरविन्ददलायताक्षं रामं निशाचरविनाशकरं नमामि ॥ वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे मध्ये पुष्पकमासने मणिमये वीरासने सुस्थितम् । अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः परं व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ पार्वत्युवाच- श्रोतुमिच्छाम्यहं देव तदेवं सर्वकामदम् । नाम्नां सहस्रं रामस्य ब्रूहि यद्यस्ति मे दया ॥ १ श्रीमहादेव उवाच- अथ वक्ष्यामि ते देवि रामनामसहस्रकम् । श‍ृणु चैकमनाः स्तोत्रं गुह्यादुह्यतरं महत् ॥ २ अस्य श्रीरामशस्रनामस्तोत्रमहामन्त्रस्य, भगवान् ईश्वर ऋषिः । अनुष्टुप्छन्दः । श्रीरामः परमात्मा देवता । श्रीमान्महाविष्णुरिति बीजम् । गुणभृन्निर्गुणो महानिति शक्तिः । संसारतारको राम इति मन्त्रः । सच्चिदानन्दविग्रह इति कीलकम् । अक्षयः पुरुषः साक्षीति कवचम् । अजेयः सर्वभूतानां इत्यस्त्रम् । राजीवलोचनः श्रीमानिति ध्यानम् । श्रीरामप्रीत्यर्थे दिव्यसहस्रनामजपे विनियोगः । करन्यासः - श्रीरामचन्द्रायेत्यङ्गुष्ठाभ्यां नमः । सीतापतये इति तर्जनीभ्यां नमः । रघुनाथायेति मध्यमाभ्यां नमः । भरताग्रजायेत्यनामिकाभ्यां नमः । दशरथात्मजायेति कनिष्ठिकाभ्यां नमः । हनुमत्प्रभवे इति करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः । ध्यानम्- विज्ञानहेतुं विमलायताक्षं प्रज्ञानरूपं स्वसुखैकहेतुम् । श्रीरामचन्द्रं हरिमादिदेवं परात्परं राममहं भजामि ॥ तत्त्वस्वरूपं पुरुषं पुराणं स्वतेजसा पूरितविश्वमेकम् । राजाधिराजं रविमण्डलस्थं विश्वेश्वरं राममहं भजामि । लमित्यादिपञ्चपूजाः । ॐ रामः श्रीमान् महाविष्णुर्जिष्णुर्देवहितावहः । तत्त्वात्मा तारकं ब्रह्म शाश्वतः सर्वसिद्धिदः ॥ राजीवलोचनः श्रीमान् श्रीरामो रघुपुङ्गवः । रामभद्रः सदाचारो राजेन्द्रो जानकीपतिः ॥ १॥ अग्रगण्यो वरेण्यश्च वरदः परमेश्वरः । जनार्दनो जितामित्रः परार्थैकप्रयोजनः ॥ २॥ विश्वामित्रप्रियो दान्तः शत्रुजिच्छत्रुतापनः । सर्वज्ञः सर्वदेवादिः शरण्यो वालिमर्दनः ॥ ३॥ ज्ञानभाव्योऽपरिच्छेद्यो वाग्मी सत्यव्रतः शुचिः । ज्ञानगम्यो दृढप्रज्ञः खरध्वंसी प्रतापवान् ॥ ४॥ द्युतिमानात्मवान् वीरो जितक्रोधोऽरिमर्दनः । विश्वरूपो विशालाक्षः प्रभुः परिवृढो दृढः ॥ ५॥ ईशः खड्गधरः श्रीमान् कौसलेयोऽनसूयकः । विपुलांसो महोरस्कः परमेष्ठी परायणः ॥ ६॥ सत्यव्रतः सत्यसन्धो गुरुः परमधार्मिकः । लोकज्ञो लोकवन्द्यश्च लोकात्मा लोककृत्परः ॥ ७॥ अनादिर्भगवान् सेव्यो जितमायो रघूद्वहः । रामो दयाकरो दक्षः सर्वज्ञः सर्वपावनः ॥ ८॥ ब्रह्मण्यो नीतिमान् गोप्ता सर्वदेवमयो हरिः । सुन्दरः पीतवासाश्च सूत्रकारः पुरातनः ॥ ९॥ सौम्यो महर्षिः कोदण्डी सर्वज्ञः सर्वकोविदः । कविः सुग्रीववरदः सर्वपुण्याधिकप्रदः ॥ १०॥ भव्यो जितारिषड्वर्गो महोदारोऽघनाशनः । सुकीर्तिरादिपुरुषः कान्तः पुण्यकृतागमः ॥ ११॥ अकल्मषश्चतुर्बाहुः सर्वावासो दुरासदः । स्मितभाषी निवृत्तात्मा स्मृतिमान् वीर्यवान् प्रभुः ॥ १२॥ धीरो दान्तो घनश्यामः सर्वायुधविशारदः । अध्यात्मयोगनिलयः सुमना लक्ष्मणाग्रजः ॥ १३॥ सर्वतीर्थमयः शूरः सर्वयज्ञफलप्रदः । यज्ञस्वरूपी यज्ञेशो जरामरणवर्जितः ॥ १४॥ वर्णाश्रमकरो वर्णी शत्रुजित् पुरुषोत्तमः । विभीषणप्रतिष्ठाता परमात्मा परात्परः ॥ १५॥ प्रमाणभूतो दुर्ज्ञेयः पूर्णः परपुरञ्जयः । अनन्तदृष्टिरानन्दो धनुर्वेदो धनुर्धरः ॥ १६॥ गुणाकरो गुणश्रेष्ठः सच्चिदानन्दविग्रहः । अभिवन्द्यो महाकायो विश्वकर्मा विशारदः ॥ १७॥ विनीतात्मा वीतरागस्तपस्वीशो जनेश्वरः । कल्याणप्रकृतिः कल्पः सर्वेशः सर्वकामदः ॥ १८॥ अक्षयः पुरुषः साक्षी केशवः पुरुषोत्तमः । लोकाध्यक्षो महामायो विभीषणवरप्रदः ॥ १९॥ आनन्दविग्रहो ज्योतिर्हनुमत्प्रभुरव्ययः । भ्राजिष्णुः सहनो भोक्ता सत्यवादी बहुश्रुतः ॥ २०॥ सुखदः कारणं कर्ता भवबन्धविमोचनः । देवचूडामणिर्नेता ब्रह्मण्यो ब्रह्मवर्धनः ॥ २१॥ संसारोत्तारको रामः सर्वदुःखविमोक्षकृत् । विद्वत्तमो विश्वकर्ता विश्वहर्ता च विश्वकृत् ॥ २२॥ नित्यो नियतकल्याणः सीताशोकविनाशकृत् । काकुत्स्थः पुण्डरीकाक्षो विश्वामित्रभयापहः ॥ २३॥ मारीचमथनो रामो विराधवधपण्डितः । दुःस्वप्ननाशनो रम्यः किरीटी त्रिदशाधिपः ॥ २४॥ महाधनुर्महाकायो भीमो भीमपराक्रमः । तत्त्वस्वरूपी तत्त्वज्ञस्तत्त्ववादी सुविक्रमः ॥ २५॥ भूतात्मा भूतकृत्स्वामी कालज्ञानी महापटुः । अनिर्विण्णो गुणग्राही निष्कलङ्कः कलङ्कहा ॥ २६॥ स्वभावभद्रः शत्रुघ्नः केशवः स्थाणुरीश्वरः । भूतादिः शम्भुरादित्यः स्थविष्ठः शाश्वतो ध्रुवः ॥ २७॥ कवची कुण्डली चक्री खड्गी भक्तजनप्रियः । अमृत्युर्जन्मरहितः सर्वजित्सर्वगोचरः ॥ २८॥ अनुत्तमोऽप्रमेयात्मा सर्वादिर्गुणसागरः । समः समात्मा समगो जटामुकुटमण्डितः ॥ २९॥ अजेयः सर्वभूतात्मा विष्वक्सेनो महातपाः । लोकाध्यक्षो महाबाहुरमृतो वेदवित्तमः ॥ ३०॥ सहिष्णुः सद्गतिः शास्ता विश्वयोनिर्महाद्युतिः । अतीन्द्र ऊर्जितः प्रांशुरुपेन्द्रो वामनो बली ॥ ३१॥ धनुर्वेदो विधाता च ब्रह्मा विष्णुश्च शङ्करः । हंसो मरीचिर्गोविन्दो रत्नगर्भो महामतिः ॥ ३२॥ व्यासो वाचस्पतिः सर्वदर्पितासुरमर्दनः । जानकीवल्लभः पूज्यः प्रकटः प्रीतिवर्धनः ॥ ३३॥ सम्भवोऽतीन्द्रियो वेद्योऽनिर्देशो जाम्बवत्प्रभुः । मदनो मथनो व्यापी विश्वरूपो निरञ्जनः ॥ ३४॥ नारायणोऽग्रणीः साधुर्जटायुप्रीतिवर्धनः । नैकरूपो जगन्नाथः सुरकार्यहितः स्वभूः ॥ ३५॥ जितक्रोधो जितारातिः प्लवगाधिपराज्यदः । वसुदः सुभुजो नैकमायो भव्यप्रमोदनः ॥ ३६॥ चण्डांशुः सिद्धिदः कल्पः शरणागतवत्सलः । अगदो रोगहर्ता च मन्त्रज्ञो मन्त्रभावनः ॥ ३७॥ सौमित्रिवत्सलो धुर्यो व्यक्ताव्यक्तस्वरूपधृक् । वसिष्ठो ग्रामणीः श्रीमाननुकूलः प्रियंवदः ॥ ३८॥ अतुलः सात्त्विको धीरः शरासनविशारदः । ज्येष्ठः सर्वगुणोपेतः शक्तिमांस्ताटकान्तकः ॥ ३९॥ वैकुण्ठः प्राणिनां प्राणः कमठः कमलापतिः । गोवर्धनधरो मत्स्यरूपः कारुण्यसागरः ॥ ४०॥ कुम्भकर्णप्रभेत्ता च गोपीगोपालसंवृतः । मायावी व्यापको व्यापी रैणुकेयबलापहः ॥ ४१॥ पिनाकमथनो वन्द्यः समर्थो गरुडध्वजः । लोकत्रयाश्रयो लोकचरितो भरताग्रजः ॥ ४२॥ श्रीधरः सद्गतिर्लोकसाक्षी नारायणो बुधः । मनोवेगी मनोरूपी पूर्णः पुरुषपुङ्गवः ॥ ४३॥ यदुश्रेष्ठो यदुपतिर्भूतावासः सुविक्रमः । तेजोधरो धराधारश्चतुर्मूर्तिर्महानिधिः ॥ ४४॥ चाणूरमर्दनो दिव्यः शान्तो भरतवन्दितः । शब्दातिगो गभीरात्मा कोमलाङ्गः प्रजागरः ॥ ४५॥ लोकगर्भः शेषशायी क्षीराब्धिनिलयोऽमलः । आत्मयोनिरदीनात्मा सहस्राक्षः सहस्रपात् ॥ ४६॥ अमृतांशुर्महागर्भो निवृत्तविषयस्पृहः । त्रिकालज्ञो मुनिः साक्षी विहायसगतिः कृती ॥ ४७॥ पर्जन्यः कुमुदो भूतावासः कमललोचनः । श्रीवत्सवक्षाः श्रीवासो वीरहा लक्ष्मणाग्रजः ॥ ४८॥ लोकाभिरामो लोकारिमर्दनः सेवकप्रियः । सनातनतमो मेघश्यामलो राक्षसान्तकृत् ॥ ४९॥ दिव्यायुधधरः श्रीमानप्रमेयो जितेन्द्रियः । भूदेववन्द्यो जनकप्रियकृत्प्रपितामहः ॥ ५०॥ उत्तमः सात्त्विकः सत्यः सत्यसन्धस्त्रिविक्रमः । सुव्रतः सुलभः सूक्ष्मः सुघोषः सुखदः सुधीः ॥ ५१॥ दामोदरोऽच्युतः शार्ङ्गी वामनो मधुराधिपः । देवकीनन्दनः शौरिः शूरः कैटभमर्दनः ॥ ५२॥ सप्ततालप्रभेत्ता च मित्रवंशप्रवर्धनः । कालस्वरूपी कालात्माकालः कल्याणदःकविः । संवत्सर ऋतुः पक्षो ह्ययनं दिवसो युगः ॥ ५३॥ स्तव्यो विविक्तो निर्लेपः सर्वव्यापी निराकुलः । अनादिनिधनः सर्वलोकपूज्यो निरामयः ॥ ५४॥ रसो रसज्ञः सारज्ञो लोकसारो रसात्मकः । सर्वदुःखातिगो विद्याराशिः परमगोचरः ॥ ५५॥ शेषो विशेषो विगतकल्मषो रघुनायकः । वर्णश्रेष्ठो वर्णवाह्यो वर्ण्यो वर्ण्यगुणोज्ज्वलः ॥ ५६॥ कर्मसाक्ष्यमरश्रेष्ठो देवदेवः सुखप्रदः । देवाधिदेवो देवर्षिर्देवासुरनमस्कृतः ॥ ५७॥ सर्वदेवमयश्चक्री शार्ङ्गपाणी रघूत्तमः । मनो बुद्धिरहङ्कारः प्रकृतिः पुरुषोऽव्ययः ॥ ५८॥ अहल्यापावनः स्वामी पितृभक्तो वरप्रदः । न्यायो न्यायी नयी श्रीमान्नयो नगधरो ध्रुवः ॥ ५९॥ लक्ष्मीविश्वम्भराभर्ता देवेन्द्रो बलिमर्दनः । वाणारिमर्दनो यज्वानुत्तमो मुनिसेवितः ॥ ६०॥ देवाग्रणीः शिवध्यानतत्परः परमः परः । सामगेयः प्रियोऽक्रूरः पुण्यकीर्तिः सुलोचनः ॥ ६१॥ पुण्यः पुण्याधिकः पूर्वः पूर्णः पूरयिता रविः । जटिलः कल्मषध्वान्तप्रभञ्जनविभावसुः ॥ ६२॥ अव्यक्तलक्षणोऽव्यक्तो दशास्यद्विपकेसरी । कलानिधिः कलानाथो कमलानन्दवर्धनः ॥ ६३॥ जयी जितारिः सर्वादिः शमनो भवभञ्जनः । अलङ्करिष्णुरचलो रोचिष्णुर्विक्रमोत्तमः ॥ ६४॥ आशुः शब्दपतिः शब्दागोचरो रञ्जनो रघुः । निःशब्दः प्रणवो माली स्थूलः सूक्ष्मो विलक्षणः ॥ ६५॥ आत्मयोनिरयोनिश्च सप्तजिह्वः सहस्रपात् । सनातनतमः स्रग्वी पेशलो जविनां वरः ॥ ६६॥ शक्तिमाञ्शङ्खभृन्नाथः गदापद्मरथाङ्गभृत् । निरीहो निर्विकल्पश्च चिद्रूपो वीतसाध्वसः ॥ ६७॥ शताननः सहस्राक्षः शतमूर्तिर्धनप्रभः । हृत्पुण्डरीकशयनः कठिनो द्रव एव च ॥ ६८॥ उग्रो ग्रहपतिः श्रीमान् समर्थोऽनर्थनाशनः । अधर्मशत्रू रक्षोघ्नः पुरुहूतः पुरुष्टुतः ॥ ६९॥ ब्रह्मगर्भो बृहद्गर्भो धर्मधेनुर्धनागमः । हिरण्यगर्भो ज्योतिष्मान् सुललाटः सुविक्रमः ॥ ७०॥ शिवपूजारतः श्रीमान् भवानीप्रियकृद्वशी । नरो नारायणः श्यामः कपर्दी नीललोहितः ॥ ७१॥ रुद्रः पशुपतिः स्थाणुर्विश्वामित्रो द्विजेश्वरः । मातामहो मातरिश्वा विरिञ्चो विष्टरश्रवाः ॥ ७२॥ अक्षोभ्यः सर्वभूतानां चण्डः सत्यपराक्रमः । वालखिल्यो महाकल्पः कल्पवृक्षः कलाधरः ॥ ७३॥ निदाघस्तपनोऽमोघः श्लक्ष्णः परबलापहृत् । कबन्धमथनो दिव्यः कम्बुग्रीवशिवप्रियः ॥ ७४॥ शङ्खोऽनिलः सुनिष्पन्नः सुलभः शिशिरात्मकः । असंसृष्टोऽतिथिः शूरः प्रमाथी पापनाशकृत् ॥ ७५॥ वसुश्रवाः कव्यवाहः प्रतप्तो विश्वभोजनः । रामो नीलोत्पलश्यामो ज्ञानस्कन्धो महाद्युतिः ॥ ७६॥ पवित्रपादः पापारिर्मणिपूरो नभोगतिः । उत्तारणो दुष्कृतिहा दुर्धर्षो दुःसहोऽभयः ॥ ७७॥ अमृतेशोऽमृतवपुर्धर्मी धर्मः कृपाकरः । भर्गो विवस्वानादित्यो योगाचार्यो दिवस्पतिः ॥ ७८॥ उदारकीर्तिरुद्योगी वाङ्मयः सदसन्मयः । नक्षत्रमाली नाकेशः स्वाधिष्ठानः षडाश्रयः ॥ ७९॥ चतुर्वर्गफलो वर्णी शक्तित्रयफलं निधिः । निधानगर्भो निर्व्याजो गिरीशो व्यालमर्दनः ॥ ८०॥ श्रीवल्लभः शिवारम्भः शान्तिर्भद्रः समञ्जसः । भूशयो भूतिकृद्भूतिर्भूषणो भूतवाहनः ॥ ८१॥ अकायो भक्तकायस्थः कालज्ञानी महावटुः । परार्थवृत्तिरचलो विविक्तः श्रुतिसागरः ॥ ८२॥ स्वभावभद्रो मध्यस्थः संसारभयनाशनः । वेद्यो वैद्यो वियद्गोप्ता सर्वामरमुनीश्वरः ॥ ८३॥ सुरेन्द्रः करणं कर्म कर्मकृत्कर्म्यधोक्षजः । ध्येयो धुर्यो धराधीशः संकल्पः शर्वरीपतिः ॥ ८४॥ परमार्थगुरुर्वृद्धः शुचिराश्रितवत्सलः । विष्णुर्जिष्णुर्विभुर्वन्द्यो यज्ञेशो यज्ञपालकः ॥ ८५॥ प्रभविष्णुर्ग्रसिष्णुश्च लोकात्मा लोकभावनः । केशवः केशिहा काव्यः कविः कारणकारणम् ॥ ८६॥ कालकर्ता कालशेषो वासुदेवः पुरुष्टुतः । आदिकर्ता वराहश्च माधवो मधुसूदनः ॥ ८७॥ नारायणो नरो हंसो विष्वक्सेनो जनार्दनः । विश्वकर्ता महायज्ञो ज्योतिष्मान् पुरुषोत्तमः ॥ ८८॥ वैकुण्ठः पुण्डरीकाक्षः कृष्णः सूर्यः सुरार्चितः । नारसिंहो महाभीमो वक्रदंष्ट्रो नखायुधः ॥ ८९॥ आदिदेवो जगत्कर्ता योगीशो गरुडध्वजः । गोविन्दो गोपतिर्गोप्ता भूपतिर्भुवनेश्वरः ॥ ९०॥ पद्मनाभो हृषीकेशो धाता दामोदरः प्रभुः । त्रिविक्रमस्त्रिलोकेशो ब्रह्मेशः प्रीतिवर्धनः ॥ ९१॥ वामनो दुष्टदमनो गोविन्दो गोपवल्लभः । भक्तप्रियोऽच्युतः सत्यः सत्यकीर्तिर्धृतिः स्मृतिः ॥ ९२॥ कारुण्यं करुणो व्यासः पापहा शान्तिवर्धनः । संन्यासी शास्त्रतत्त्वज्ञो मन्दराद्रिनिकेतनः ॥ ९३॥ बदरीनिलयः शान्तस्तपस्वी वैद्युतप्रभः । भूतावासो गुहावासः श्रीनिवासः श्रियः पतिः ॥ ९४॥ तपोवासो मुदावासः सत्यवासः सनातनः । पुरुषः पुष्करः पुण्यः पुष्कराक्षो महेश्वरः ॥ ९५॥ पूर्णमूर्तिः पुराणज्ञः पुण्यदः प्रीतिवर्धनः । शङ्खी चक्री गदी शार्ङ्गी लाङ्गली मुसली हली ॥ ९६॥ किरीटी कुण्डली हारी मेखली कवची ध्वजी । योद्धा जेता महावीर्यः शत्रुजिच्छत्रुतापनः ॥ ९७॥ शास्ता शास्त्रकरः शास्त्रं शङ्करः शङ्करस्तुतः । सारथिः सात्त्विकः स्वामी सामवेदप्रियः समः ॥ ९८॥ पवनः संहतः शक्तिः सम्पूर्णाङ्गः समृद्धिमान् । स्वर्गदः कामदः श्रीदः कीर्तिदोऽकीर्तिनाशनः ॥ ९९॥ मोक्षदः पुण्डरीकाक्षः क्षीराब्धिकृतकेतनः । सर्वात्मा सर्वलोकेशः प्रेरकः पापनाशनः ॥ १००॥ सर्वव्यापी जगन्नाथः सर्वलोकमहेश्वरः । सर्गस्थित्यन्तकृद्देवः सर्वलोकसुखावहः ॥ १०१॥ अक्षय्यः शाश्वतोऽनन्तः क्षयवृद्धिविवर्जितः । निर्लेपो निर्गुणः सूक्ष्मो निर्विकारो निरञ्जनः ॥ १०२॥ सर्वोपाधिविनिर्मुक्तः सत्तामात्रव्यवस्थितः । अधिकारी विभुर्नित्यः परमात्मा सनातनः ॥ १०३॥ अचलो निर्मलो व्यापी नित्यतृप्तो निराश्रयः । श्यामो युवा लोहिताक्षो दीप्तास्यो मितभाषणः ॥ १०४॥ आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः । सत्यवान् गुणसम्पन्नः स्वयन्तेजाः सुदीप्तिमान् ॥ १०५॥ कालात्मा भगवान् कालः कालचक्रप्रवर्तकः । नारायणः परञ्ज्योतिः परमात्मा सनातनः ॥ १०६॥ विश्वसृड् विश्वगोप्ता च विश्वभोक्ता च शाश्वतः । विश्वेश्वरो विश्वमूर्तिर्विश्वात्मा विश्वभावनः ॥ १०७॥ सर्वभूतसुहृच्छान्तः सर्वभूतानुकम्पनः । सर्वेश्वरेश्वरः सर्वः श्रीमानाश्रितवत्सलः ॥ १०८॥ सर्वगः सर्वभूतेशः सर्वभूताशयस्थितः । अभ्यन्तरस्थस्तमसश्छेत्ता नारायणः परः ॥ १०९॥ अनादिनिधनः स्रष्टा प्रजापतिपतिर्हरिः । नरसिंहो हृषीकेशः सर्वात्मा सर्वदृग्वशी ॥ ११०॥ जगतस्तस्थुषश्चैव प्रभुर्नेता सनातनः । कर्ता धाता विधाता च सर्वेषां प्रभुरीश्वरः ॥ १११॥ सहस्रमूर्तिर्विश्वात्मा विष्णुर्विश्वदृगव्ययः । पुराणपुरुषः स्रष्टा सहस्राक्षः सहस्रपात् ॥ ११२॥ तत्त्वं नारायणो विष्णुर्वासुदेवः सनातनः । परमात्मा परं ब्रह्म सच्चिदानन्दविग्रहः ॥ ११३॥ परञ्ज्योतिः परन्धामः पराकाशः परात्परः । अच्युतः पुरुषः कृष्णः शाश्वतः शिव ईश्वरः ॥ ११४॥ नित्यः सर्वगतः स्थाणुरुग्रः साक्षी प्रजापतिः । हिरण्यगर्भः सविता लोककृल्लोकभृद्विभुः ॥ ११५॥ रामः श्रीमान् महाविष्णुर्जिष्णुर्देवहितावहः । तत्त्वात्मा तारकं ब्रह्म शाश्वतः सर्वसिद्धिदः ॥ ११६॥ अकारवाच्यो भगवान् श्रीर्भू लीलापतिः पुमान् । सर्वलोकेश्वरः श्रीमान् सर्वज्ञः सर्वतोमुखः ॥ ११७॥ स्वामी सुशीलः सुलभः सर्वज्ञः सर्वशक्तिमान् । नित्यः सम्पूर्णकामश्च नैसर्गिकसुहृत्सुखी ॥ ११८॥ कृपापीयूषजलधिः शरण्यः सर्वदेहिनाम् । श्रीमान्नारायणः स्वामी जगतां पतिरीश्वरः ॥ ११९॥ श्रीशः शरण्यो भूतानां संश्रिताभीष्टदायकः । अनन्तः श्रीपती रामो गुणभृन्निर्गुणो महान् ॥ १२०॥ ॥ इति श्रीरामसहस्रनामस्तोत्रं सम्पूर्णम् ॥