अक्षर आकार:

श्रीरामाष्टकम् २

shrIrAmAShTakam 2

श्रीरामाष्टकम् २

कृतार्तदेववन्दनं दिनेशवंशनन्दनम् । सुशोभिभालचन्दनं नमामि राममीश्वरम् ॥ १॥ मुनीन्द्रयज्ञकारकं शिलाविपत्तिहारकम् । महाधनुर्विदारकं नमामि राममीश्वरम् ॥ २॥ स्वतातवाक्यकारिणं तपोवने विहारिणम् । करे सुचापधारिणं नमामि राममीश्वरम् ॥ ३॥ कुरङ्गमुक्तसायकं जटायुमोक्षदायकम् । प्रविद्धकीशनायकं नमामि राममीश्वरम् ॥ ४॥ प्लवङ्गसङ्गसम्मतिं निबद्धनिम्नगापतिम् । दशास्यवंशसङ्क्षतिं नमामि राममीश्वरम् ॥ ५॥ विदीनदेवहर्षणं कपीप्सितार्थवर्षणम् । स्वबन्धुशोककर्षणं नमामि राममीश्वरम् ॥ ६॥ गतारिराज्यरक्षणं प्रजाजनार्तिभक्षणम् । कृतास्तमोहलक्षणं नमामि राममीश्वरम् ॥ ७॥ हृताखिलाचलाभरं स्वधामनीतनागरम् । जगत्तमोदिवाकरं नमामि राममीश्वरम् ॥ ८॥ इदं समाहितात्मना नरो रघूत्तमाष्टकम् । पठन्निरन्तरं भयं भवोद्भवं न विन्दते ॥ ९॥ ॥ इति श्रीपरमहंसस्वामिब्रह्मानन्दविरचितं श्रीरामाष्टकं सम्पूर्णम् ॥ Visit http://www.webdunia.com for additional texts with Hindi meanings.