अक्षर आकार:

श्रीरामाष्टोत्तरशतनामावली

shrIrAmAShTottarashatanAmAvali

श्रीरामाष्टोत्तरशतनामावली

ॐ श्रीरामाय नमः । ॐ रामभद्राय नमः । ॐ रामचन्द्राय नमः । ॐ शाश्वताय नमः । ॐ राजीवलोचनाय नमः । ॐ श्रीमते नमः । ॐ राजेन्द्राय नमः । ॐ रघुपुङ्गवाय नमः । ॐ जानकीवल्लभाय नमः । ॐ जैत्राय नमः ॥ १०॥ ॐ जितामित्राय नमः । ॐ जनार्दनाय नमः । ॐ विश्वामित्रप्रियाय नमः । ॐ दान्ताय नमः । ॐ शरणत्राणतत्पराय नमः । ॐ वालिप्रमथनाय नमः । ॐ वाग्मिने नमः । ॐ सत्यवाचे नमः । ॐ सत्यविक्रमाय नमः । ॐ सत्यव्रताय नमः ॥ २०॥ ॐ व्रतधराय नमः । ॐ सदाहनुमदाश्रिताय नमः । ॐ कौसलेयाय नमः । ॐ खरध्वंसिने नमः । ॐ विराधवधपंडिताय नमः । ॐ विभीषणपरित्रात्रे नमः । ॐ हरकोदण्डखण्डनाय नमः । ॐ सप्ततालप्रभेत्रे नमः । ॐ दशग्रीवशिरोहराय नमः । ॐ जामदग्न्यमहादर्पदलनाय नमः ॥ ३०॥ ॐ ताटकान्तकाय नमः । ॐ वेदान्तसाराय नमः । ॐ वेदात्मने नमः । ॐ भवरोगस्य भेषजाय नमः । ॐ दूषणत्रिशिरोहन्त्रे नमः । ॐ त्रिमूर्तये नमः । ॐ त्रिगुणात्मकाय नमः । ॐ त्रिविक्रमाय नमः । ॐ त्रिलोकात्मने नमः । ॐ पुण्यचारित्रकीर्तनाय नमः ॥ ४०॥ ॐ त्रिलोकरक्षकाय नमः । ॐ धन्विने नमः । ॐ दंडकारण्यवर्तनाय नमः । ॐ अहल्याशापविमोचनाय नमः । ॐ पितृभक्ताय नमः । ॐ वरप्रदाय नमः । ॐ जितेन्द्रियाय नमः । ॐ जितक्रोधाय नमः । ॐ जितमित्राय नमः । ॐ जगद्गुरवे नमः ॥ ५०॥ ॐ ऋक्षवानरसङ्घातिने नमः । ॐ चित्रकूटसमाश्रयाय नमः । ॐ जयन्तत्राणवरदाय नमः । ॐ सुमित्रापुत्रसेविताय नमः । ॐ सर्वदेवादिदेवाय नमः । ॐ मृतवानरजीवनाय नमः । ॐ मायामारीचहन्त्रे नमः । ॐ महादेवाय नमः । ॐ महाभुजाय नमः । ॐ सर्वदेवस्तुताय नमः ॥ ६०॥ ॐ सौम्याय नमः । ॐ ब्रह्मण्याय नमः । ॐ मुनिसंस्तुताय नमः । ॐ महायोगिने नमः । ॐ महोदराय नमः । ॐ सुग्रीवेप्सितराज्यदाय नमः । ॐ सर्वपुण्याधिकफलाय नमः । ॐ स्मृतसर्वौघनाशनाय नमः । ॐ आदिपुरुषाय नमः । ॐ परमपुरुषाय नमः ॥ ७०॥ ॐ महापुरुषाय नमः । ॐ पुण्योदयाय नमः । ॐ दयासाराय नमः । ॐ पुराणपुरुषोत्तमाय नमः । ॐ स्मितवक्त्राय नमः । ॐ मितभाषिणे नमः । ॐ पूर्वभाषिणे नमः । ॐ राघवाय नमः । ॐ अनन्तगुणगम्भीराय नमः । ॐ धीरोदात्तगुणोत्तमाय नमः ॥ ८०॥ ॐ मायामानुषचारित्राय नमः । ॐ महादेवादिपूजिताय नमः । ॐ सेतुकृते नमः । ॐ जितवाराशये नमः । ॐ सर्वतीर्थमयाय नमः । ॐ हरये नमः । ॐ श्यामाङ्गाय नमः । ॐ सुन्दराय नमः । ॐ शूराय नमः । ॐ पीतवाससे नमः ॥ ९०॥ ॐ धनुर्धराय नमः । ॐ सर्वयज्ञाधिपाय नमः । ॐ यज्विने नमः । ॐ जरामरणवर्जिताय नमः । ॐ शिवलिङ्गप्रतिष्ठात्रे नमः । ॐ सर्वापगुणवर्जिताय नमः । ॐ परमात्मने नमः । ॐ परब्रह्मणे नमः । ॐ सच्चिदानन्दविग्रहाय नमः । ॐ परञ्ज्योतिषे नमः ॥ १००॥ ॐ परन्धाम्ने नमः । ॐ पराकाशाय नमः । ॐ परात्पराय नमः । ॐ परेशाय नमः । ॐ पारगाय नमः । ॐ पाराय नमः । ॐ सर्वदेवात्मकाय नमः । ॐ परस्मै नमः ॥ १०८॥ ॥ इति श्रीरामाष्टोत्तरशतनामावलिस्समाप्ता ॥