अक्षर आकार:

श्रीरामाष्टोत्तरनामावली

Shri Ramashtottaranamavali 108 names

श्रीरामाष्टोत्तरनामावली

ॐ श्रीरामाय नमः । ॐ रामभद्राय नमः । ॐ रामचन्द्राय नमः । ॐ शाश्वताय नमः । ॐ राजीवलोचनाय नमः । ॐ श्रीमते नमः । ॐ राजेन्द्राय नमः । ॐ रघुपुंगवाय नमः । ॐ जानकीवल्लभाय नमः । १० ॐ जैत्राय नमः । ॐ जितामित्राय नमः । ॐ जनार्दनाय नमः । ॐ विश्वामित्रप्रियाय नमः । ॐ दान्ताय नमः । ॐ शरणत्राण तत्पराय नमः । ॐ वालिप्रमथनाय नमः । ॐ वाग्मिने नमः । ॐ सत्यवाचे नमः । ॐ सत्यविक्रमाय नमः । ॐ सत्यव्रताय नमः । ॐ व्रतधराय नमः । १० ॐ सदाहनुमदाश्रिताय नमः । ॐ कौसलेयाय नमः । ॐ खरध्वंसिने नमः । ॐ विराधवधपण्डिताय नमः । ॐ विभीषण परित्रात्रे नमः । ॐ हरकोदण्ड खँडनाय नमः । ॐ सप्तताल प्रभेत्त्रे नमः । ॐ दशग्रीव शिरोहराय नमः । ॐ जामद्ग्न्य महादर्पदलनाय नमः । ॐ ताटकान्तकाय नमः । ॐ वेदान्तसाराय नमः । १० ॐ वेदात्मने नमः । ॐ भवरोगस्य भेषजाय नमः । ॐ दूषण त्रिशिरो हन्त्रे नमः । ॐ त्रिमूर्तये नमः । ॐ त्रिगुणात्मकाय नमः । ॐ त्रिविक्रमाय नमः । ॐ त्रिलोकात्मने नमः । ॐ पुण्यचारित्रकीर्तनाय नमः । ॐ त्रिलोकरक्षकाय नमः । ॐ धन्विने नमः । ॐ दण्डकारण्य पुण्यकृते नमः । १० ॐ अहल्या शाप शमनाय नमः । ॐ पितृ भक्ताय नमः । ॐ वरप्रदाय नमः । ॐ जितेन्द्रियाय नमः । ॐ जितक्रोधाय नमः । ॐ जितामित्राय नमः । ॐ जगद्गुरवे नमः । ॐ ऋक्ष वानर संघातिने नमः । ॐ चित्रकूट समाश्रयाय नमः । ॐ जयन्त त्राण वरदाय नमः । ॐ सुमित्रापुत्र सेविताय नमः । ॐ सर्वदेवादि देवाय नमः । १० ॐ मृतवानर् जीविताय नमः । ॐ मायामारीचहन्त्रे नमः । ॐ महादेवाय नमः । ॐ महाभुजाय नमः । ॐ सर्वदेवस्तुताय नमः । ॐ सौम्याय नमः । ॐ ब्रह्मण्याय नमः । ॐ मुनिसंस्तुताय नमः । ॐ महा योगिने नमः । ॐ महोदराय नमः । ॐ सुग्रीवेप्सित राज्यदाय नमः । ॐ सर्वपुण्याधिक फलाय नमः । १० ॐ स्मृत सर्वाघ नाशनाय नमः । ॐ आदिपुरुषाय नमः । ॐ परमपुरुषाय नमः । ॐ महापुरुषाय नमः । ॐ पुण्योदयाय नमः । ॐ दयासाराय नमः । ॐ पुराणपुरुषोत्तमाय नमः । ॐ स्मितवक्त्राय नमः । ॐ मितभाषिणे नमः । ॐ पूर्वभाषिणे नमः । ॐ राघवाय नमः । ॐ अनन्तगुण गम्भीराय नमः । ॐ धीरोद्दात्तगुणोत्तमाय नमः । १० ॐ मायामानुष चरित्राय नमः । ॐ महादेवादिपूजिताय नमः । ॐ सेतुकृते नमः । ॐ जितवाराशये नमः । ॐ सर्वतीर्थमयाय नमः । ॐ हरये नमः । ॐ श्यामांगाय नमः । ॐ सुन्दराय नमः । ॐ शूराय नमः । १० ॐ पीतवाससे नमः । ॐ धनुर्धराय नमः । ॐ सर्वयज्ञाधिपाय नमः । ॐ यज्वने नमः । ॐ जरामरणवर्जिताय नमः । ॐ विभीषण प्रतिष्ठात्रे नमः । ॐ सर्वावगुणवर्जिताय नमः । ॐ परमात्मने नमः । ॐ परस्मै ब्रह्मणे नमः । १० ॐ सच्चिदानन्द विग्रिहाय नमः । ॐ परस्मै ज्योतिषे नमः । ॐ परस्मै धाम्ने नमः । ॐ पराकाशाय नमः । ॐ परात्पराय नमः । ॐ परेशाय नमः । ॐ पारगाय नमः । ॐ पाराय नमः । ॐ सर्वदेवात्मकाय परस्मै नमः । १०८ ॥ इति रामाष्टोत्तरशतनामावलिः ॥