अक्षर आकार:

श्रीरामस्तुती जटायुप्रोक्तं अध्यात्मरामायणे

Praise of Rama by Jatayu from Adhyatma Ramayana

श्रीरामस्तुती जटायुप्रोक्तं अध्यात्मरामायणे

अगण्यगुणमाद्यमव्ययमप्रमेय- मखिलजगत्सृष्टिस्थितिसंहारमूलम् । परमं परापरमानन्दं परात्मानं वरदमहं प्रणतोऽस्मि सन्ततं रामम् ॥ १॥ महितकटाक्षविक्षेपितामरशुचं रहितावधिसुखमिन्दिरामनोहरम् । श्यामलं जटामकुटोज्ज्वलं चापशर- कोमलकरांबुजं प्रणतोऽस्म्यहं रामम् ॥ २॥ भुवनकमनीयरूपमीडितं शत- रविभासुरमभीष्टप्रदं शरणदम् । सुरपादमूलरचितनिलयं सुरसञ्चयसेव्यं प्रणतोऽस्म्यहं रामम् ॥ ३॥ भवकाननदवदहननामधेयं भवपङ्कजभवमुखदैवतं देवम् । दनुजपतिकोटिसहस्रविनाशं मनुजाकारं हरिं प्रणतोऽस्म्यहं रामम् ॥ ४॥ भवभावनाहरं भगवत्स्वरूपिणं भवभीविरहितं मुनिसेवितं परम् । भवसागरतरणांघ्रिपोतकं नित्यं भवनाशायानिशं प्रणतोऽस्म्यहं रामम् ॥ ५॥ गिरिशगिरिसुताहृदयांबुजावासं गिरिनायकधरं गिरिपक्षारिसेव्यम् । सुरसञ्चयदनुजेन्द्रसेवितपादं सुरपमणिनिभं प्रणतोऽस्म्यहं रामम् ॥ ६॥ परदारार्थपरिवर्जितमनीषिणां परपूरुषगुणभूतिसन्तुष्टात्मनाम् । परलोकैकहितनिरतात्मनां सेव्यं परमानन्दमयं प्रणतोऽस्म्यहं रामम् ॥ ७॥ स्मितसुन्दरविकसितवक्त्रांभोरुहं स्मृतिगोचरमसितांबुदकलेबरम् । सितपङ्कजचारुनयनं रघुवरं क्षितिनन्दिनीवरं प्रणतोऽस्म्यहं रामम् ॥ ८॥ जलपात्रौघस्थितरविमण्डलसमं सकलचराचरजीवान्तःस्थितम् । परिपूर्णात्मानमद्वयमव्ययमेकं परमं परापरं प्रणतोऽस्म्यहं रामम् ॥ ९॥ विधिमाधवशम्भुरूपभेदेन गुण- त्रितयविराजितं केवलं विराजन्तम् । त्रिदशमुनिजनस्तुतमव्यक्तमजं क्षितिजामनोहरं प्रणतोऽस्म्यहं रामम् ॥ १०॥ मन्मथशतकोटिसुन्दरकलेवरं जन्मनाशादिहीनं चिन्मयं जगन्मयम् । निर्मलं जन्मकर्माधारमप्यनाधारं निर्मममात्मारामं प्रणतोऽस्म्यहं रामम् ॥ ११॥