अक्षर आकार:

श्रीरामस्तवराजः सनत्कुमारसंहितायाम्

Shri Ramastavaraja from Sanatkumarasamhita

श्रीरामस्तवराजः सनत्कुमारसंहितायाम्

अस्य श्रीरामचन्द्रस्तवराजस्तोत्रमन्त्रस्य सनत्कुमारऋषिः । श्रीरामो देवता । अनुष्टुप् छन्दः । सीता बीजम् । हनुमान् शक्तिः । श्रीरामप्रीत्यर्थे जपे विनियोगः ॥ सूत उवाच । सर्वशास्त्रार्थत्त्वज्ञं व्यासं सत्यवतीसुतम् । धर्मपुत्रः प्रहृष्टात्मा प्रत्युवाच मुनीश्वरम् ॥ १॥ युधिष्ठिर उवाच । भगवन्योगिनां श्रेष्ठ सर्वशास्त्रविशारद । किं तत्त्वं किं परं जाप्यं किं ध्यानं मुक्तिसाधनम् ॥ २॥ श्रोतुमिच्छामि तत्सर्वं ब्रूहि मे मुनिसत्तम । वेदव्यास उवाच । धर्मराज महाभाग श‍ृणु वक्ष्यामि तत्त्वतः ॥ ३॥ यत्परं यद्गुणातीतं यज्ज्योतिरमलं शिवम् । तदेव परमं तत्त्वं कैवल्यपदकारणम् ॥ ४॥ श्रीरामेति परं जाप्यं तारकं ब्रह्मसञ्ज्ञकम् । ब्रह्महत्यादिपापघ्नमिति वेदविदो विदुः ॥ ५॥ श्रीराम रामेति जना ये जपन्ति च सर्वदा । तेषां भुक्तिश्च मुक्तिश्च भविष्यति न संशयः ॥ ६॥ स्तवराजं पुरा प्रोक्तं नारदेन च धीमता । तत्सर्वं सम्प्रवक्ष्यामि हरिध्यानपुरःसरम् ॥ ७॥ तापत्रयाग्निशमनं सर्वाघौघनिकृन्तनम् । दारिद्र्यदुःखशमनं सर्वसम्पत्करं शिवम् ॥ ८॥ विज्ञानफलदं दिव्यं मोक्षैकफलसाधनम् । नमस्कृत्य प्रवक्ष्यामि रामं कृष्णं जगन्मयम् ॥ ९॥ अयोध्यानगरे रम्ये रत्नमण्डपमध्यगे । स्मरेत्कल्पतरोर्मूले रत्नसिंहासनं शुभम् ॥ १०॥ तन्मध्येऽष्टदलं पद्मं नानारत्नैश्च वेष्टितम् । स्मरेन्मध्ये दाशरथिं सहस्रादित्यतेजसम् ॥ ११॥ पितुरङ्कगतं राममिन्द्रनीलमणिप्रभम् । कोमलाङ्गं विशालाक्षं विद्युद्वर्णाम्बरावृतम् ॥ १२॥ भानुकोटिप्रतीकाशं किरीटेन विराजितम् । रत्नग्रैवेयकेयूररत्नकुण्डलमण्डितम् ॥ १३॥ रत्नकङ्कणमञ्जीरकटिसूत्रैरलङ्कृतम् । श्रीवत्सकौस्तुभोरस्कं मुक्ताहारोपशोभितम् ॥ १४॥ दिव्यरत्नसमायुक्तमुद्रिकाभिलङ्कृतम् । राघवं द्विभुजं बालं राममीषत्स्मिताननम् ॥ १५॥ तुलसीकुन्दमन्दारपुष्पमाल्यैरलङ्कृतम् । कर्पूरागरुकस्तूरीदिव्यगन्धानुलेपनम् ॥ १६॥ योगशास्त्रेष्वभिरतं योगेशं योगदायकम् । सदा भरतसौमित्रिशत्रुघ्नैरुपशोभितम् ॥ १७॥ विद्याधरसुराधीशसिद्धगन्धर्वकिन्नरैः । योगीन्द्रैर्नारदाद्यैश्च स्तूयमानमहर्निशम् ॥ १८॥ विश्वामित्रवसिष्ठादिमुनिभिः परिसेवितम् । सनकादिमुनिश्रेष्ठैर्योगिवृन्दैश्च सेवितम् ॥ १९॥ रामं रघुवरं वीरं धनुर्वेदविशारदम् । मङ्गलायतनं देवं रामं राजीवलोचनम् ॥ २०॥ सर्वशास्त्रार्थतत्त्वज्ञमानन्दकरसुन्दरम् । कौसल्यानन्दनं रामं धनुर्बाणधरं हरिम् ॥ २१॥ एवं सञ्चिन्तयन्विष्णुं यज्ज्योतिरमलं विभुम् । प्रहृष्टमानसो भूत्वा मुनिवर्यः स नारदः ॥ २२॥ सर्वलोकहितार्थाय तुष्टाव रघुनन्दनम् । कृताञ्जलिपुटो भूत्वा चिन्तयन्नद्भुतं हरिम् ॥ २३॥ यदेकं यत्परं नित्यं यदनन्तं चिदात्मकम् । यदेकं व्यापकं लोके तद्रूपं चिन्तयाम्यहम् ॥ २४॥ विज्ञानहेतुं विमलायताक्षं प्रज्ञानरूपं स्वसुखैकहेतुम् । श्रीरामचन्द्रं हरिमादिदेवं परात्परं राममहं भजामि ॥ २५॥ कविं पुराणं पुरुषं पुरस्तात्सनातनं योगिनमीशितारम् । अणोरणीयांसमनन्तवीर्यं प्राणेश्वरं राममसौददर्श ॥ २६॥ नारद उवाच । नारायणं जगन्नाथमभिरामं जगत्पतिम् । कविं पुराणं वागीशं रामं दशरथात्मजम् ॥ २७॥ राजराजं रघुवरं कौसल्यानन्दवर्धनम् । भर्गं वरेण्यं विश्वेशं रघुनाथं जगद्गुरुम् ॥ २८॥ सत्यं सत्यप्रियं श्रेष्ठं जानकीवल्लभं विभुम् । सौमित्रिपूर्वजं शान्तं कामदं कमलेक्षणम् ॥ २९॥ आदित्यं रविमीशानं घृणिं सूर्यमनामयम् । आनन्दरूपिणं सौम्यं राघवं करुणामयम् ॥ ३०॥ जामदग्न्यं तपोमूर्तिं रामं परशुधारिणम् । वाक्पतिं वरदं वाच्यं श्रीपतिं पक्षिवाहनम् ॥ ३१॥ श्रीशार्ड़गधारिणं रामं चिन्मयानन्दविग्रहम् । हलधृग्विष्णुमीशानं बलरामं कृपानिधिम् ॥ ३२॥ श्रीवल्लभं कृपानाथं जगन्मोहनमच्युतम् । मत्स्यकूर्मवराहादिरूपधारिणमव्ययम् ॥ ३३॥ वासुदेवं जगद्योनिमनादिनिधनं हरिम् । गोविन्दं गोपतिं विष्णुं गोपीजनमनोहरम् ॥ ३४॥ गोगोपालपरीवारं गोपकन्यासमावृतम् । विद्युत्पुञ्जप्रतीकाशं रामं कृष्णं जगन्मयम् ॥ ३५॥ गोगोपिकासमाकीर्णं वेणुवादनतत्परम् । कामरूपं कलावन्तं कामिनीकामदं विभुम् ॥ ३६॥ मन्मथं मथुरानाथं माधवं मकरध्वजम् । श्रीधरं श्रीकरं श्रीशं श्रीनिवासं परात्परम् ॥ ३७॥ भूतेशं भूपतिं भद्रं विभूतिं भूतिभूषणम् । सर्वदुःखहरं वीरं दुष्टदानववैरिणम् ॥ ३८॥ श्रीनृसिंहं महाबाहुं महान्तं दीप्ततेजसम् । चिदानन्दमयं नित्यं प्रणवं ज्योतिरूपिणम् ॥ ३९॥ आदित्यमण्डलगतं निश्चितार्थस्वरूपिणम् । भक्तप्रियं पद्मनेत्रं भक्तानामीप्सितप्रदम् ॥ ४०॥ कौसल्येयं कलामूर्तिं काकुत्स्थं कमलाप्रियम् । सिंहासने समासीनं नित्यव्रतमकल्मषम् ॥ ४१॥ विश्वामित्रप्रियं दान्तं स्वदारनियतव्रतम् । यज्ञेशं यज्ञपुरुषं यज्ञपालनतत्परम् ॥ ४२॥ सत्यसन्धं जितक्रोधं शरणागतवत्सलम् । सर्वक्लेशापहरणं विभीषणवरप्रदम् ॥ ४३॥ दशग्रीवहरं रौद्रं केशवं केशिमर्दनम् । वालिप्रमथनं वीरं सुग्रीवेप्सितराज्यदम् ॥ ४४॥ नरवानरदेवैश्चसेवितं हनुमत्प्रियम् । शुद्धं सूक्ष्मं परं शान्तं तारकाब्रह्मरूपिणम् ॥ ४५॥ सर्वभूतात्मभूतस्थं सर्वाधारं सनातनम् । सर्वकारणकर्तारं निदानं प्रकृतेः परम् ॥ ४६॥ निरामयं निराभासं निरवध्यं निरञ्जनम् । नित्यानन्दं निराकारमद्वैतं तमसः परम् ॥ ४७॥ परात्परतरं तत्त्वं सत्यानन्दं चिदात्मकम् । मनसा शिरसा नित्यं प्रणमामि रघूत्तमम् ॥ ४८॥ सूर्यमण्डलमध्यस्थं रामं सीतासमन्वितम् । नमामि पुण्डरीकाक्षममेयं गुरुतत्परम् ॥ ४९॥ नमोऽस्तु वासुदेवाय ज्योतिषां पतये नमः । नमोऽस्तु रामदेवाय जगदानन्दरूपिणे ॥ ५०॥ नमो वेदान्तनिष्ठाय योगिने ब्रह्मवादिने । मायामयनिरासाय प्रपन्नजनसेविने ॥ ५१॥ वन्दामहे महेशानचण्डकोदण्डखण्डनम् । जानकीहृदयानन्दवर्धनं रघुनन्दनम् ॥ ५२॥ उत्फुल्लामलकोमलोत्पलदलश्यामाय रामाय ते कामाय प्रमदामनोहरगुणग्रामाय रामात्मने । योगारूढमुनीन्द्रमानससरोहंसाय संसारविध्वंसाय स्फुरदोजसे रघुकुलोत्तंसाय पुंसे नमः ॥ ५३॥ भवोद्भवं वेदविदां वरिष्ठमादित्यचन्द्रानलसुप्रभावम् । सर्वात्मकं सर्वगतस्वरूपं नमामि रामं तमसः परस्तात् ॥ ५४॥ निरञ्जनं निःष्प्रतिमं निरीहं निराश्रयं निष्कलमप्रपञ्चम् । नित्यं ध्रुवं निर्विषयस्वरूपं निरन्तरं राममहं भजामि ॥ ५५॥ भवाब्धिपोतं भरताग्रजं तं भक्तप्रियं भानुकुलप्रदीपम् । भूतत्रिनाथं भुवनाधिपं तं भजामि रामं भवरोगवैद्यम् ॥ ५६॥ सर्वाधिपत्यं समराङ्गधीरं सत्यं चिदानन्दमयस्वरूपम् । सत्यं शिवं शान्तिमयं शरण्यं सनातनं राममहं भजामि ॥ ५७॥ कार्यक्रियाकारणमप्रमेयं कविं पुराणं कमलायताक्षम् । कुमारवेद्यं करुणामयं तं कल्पद्रुमं राममहं भजामि ॥ ५८॥ त्रैलोक्यनाथं सरसीरुहाक्षं दयानिधिं द्वन्द्वविनाशहेतुम् । महाबलं वेदविधिं सुरेशं सनातनं राममहं भजामि ॥ ५९॥ वेदान्तवेद्यं कविमीशितारमनादिमध्यान्तमचिन्त्यमाद्यम् । अगोचरं निर्मलमेकरूपं नमामि रामं तमसः परस्तात् ॥ ६०॥ अशेषवेदात्मकमादिसञ्ज्ञमजं हरिं विष्णुमनन्तमाद्यम् । अपारसंवित्सुखमेकरूपं परात्परं राममहं भजामि ॥ ६१॥ तत्त्वस्वरूपं पुरुषं पुराणं स्वतेजसा पूरितविश्वमेकम् । राजाधिराजं रविमण्डलस्थं विश्वेश्वरं राममहं भजामि ॥ ६२॥ लोकाभिरामं रघुवंशनाथं हरिं चिदानन्दमयं मुकुन्दम् । अशेषविद्याधिपतिं कवीन्द्रं नमामि रामं तमसः परस्तात् ॥ ६३॥ योगीन्द्रसङ्घैश्च सुसेव्यमानं नारायणं निर्मलमादिदेवम् । नतोऽस्मि नित्यं जगदेकनाथमादित्यवर्णं तमसः परस्तात् ॥ ६४॥ विभूतिदं विश्वसृजं विरामं राजेन्द्रमीशं रघुवंशनाथम् । अचिन्त्यमव्यक्तमनन्तमूर्तिं ज्योतिर्मयं राममहं भजामि ॥ ६५॥ अशेषसंसारविहारहीनमादित्यगं पूर्णसुखाभिरामम् । समस्तसाक्षिं तमसः परस्तान्नारायणं विष्णुमहं भजामि ॥ ६६॥ मुनीन्द्रगुह्यं परिपूर्णकामं कलानिधिं कल्मषनाशहेतुम् । परात्परं यत्परमं पवित्रं नमामि रामं महतो महान्तम् ॥ ६७॥ ब्रह्मा विष्णुश्च रुद्रश्च देवेन्द्रो देवतास्तथा । आदित्यादिग्रहाश्चैव त्वमेव रघुनन्दन ॥ ६८॥ तापसा ऋषयः सिद्धाः साध्याश्च मरुतस्तथा । विप्रा वेदास्तथा यज्ञाः पुराणधर्मसंहिताः ॥ ६९॥ वर्णाश्रमास्तथा धर्मा वर्णधर्मास्तथैव च । यक्षराक्षसगन्धर्वादिक्पाला दिग्गजादयः ॥ ७०॥ सनकादिमुनिश्रेष्ठास्त्वमेव रघुपुङ्गव । वसवोऽष्टौ त्रयः काला रुद्रा एकादश स्मृताः ॥ ७१॥ तारका दश दिक् चैव त्वमेव रघुनन्दन । सप्तद्वीपाः समुद्राश्च नगा नद्यस्तथा द्रुमाः ॥ ७२॥ स्थावरा जङ्गमाश्चैव त्वमेव रघुनायक । देवतिर्यड़मनुष्याणां दानवानां तथैव च ॥ ७३॥ माता पिता तथा भ्राता त्वमेव रघुवल्लभ । सर्वेषां त्वं परं ब्रह्म त्वन्मयं सर्वमेव हि ॥ ७४॥ त्वमक्षरं परं ज्योतिस्त्वमेव पुरुषोत्तम । त्वमेव तारकं ब्रह्म त्वत्तोऽन्यन्नैव किञ्चन ॥ ७५॥ शान्तं सर्वगतं सूक्ष्मं परं ब्रह्म सनातनम् । राजीवलोचनं रामं प्रणमामि जगत्पतिम् ॥ ७६॥ व्यास उवाच । ततः प्रसन्नः श्रीरामः प्रोवाच मुनिपुङ्गवम् । तुष्टोऽस्मि मुनिशार्दूल वृणीष्व वरमुत्तमम् ॥ ७७॥ नारद उवाच । यदि तुष्टोऽसि सर्वज्ञ श्रीराम करुणानिधे । त्वन्मूर्तिदर्शनेनैव कृतार्थोऽहं च सर्वदा ॥ ७८॥ धन्योऽहं कृतकृत्योऽहं पुण्योऽहं पुरुषोत्तम । अद्य मे सफलं जन्म जीवितं सफलं च मे ॥ ७९॥ अद्य मे सफलं ज्ञानमद्य मे सफलं तपः । अद्य मे सफलं कर्म त्वत्पादाम्भोजदर्शनात् । अद्य मे सफलं सर्वं त्वन्नामस्मरणं तथा ॥ ८०॥ त्वत्पादाम्भोरुहद्वन्द्वसद्भक्तिं देहि राघव । ततः परमसम्प्रीतः स रामः प्राह नारदम् ॥ ८१॥ श्रीराम उवाच । मुनिवर्य महाभाग मुनेत्विष्टं ददामि ते । यत्त्वया चेप्सितं सर्व मनसा तद्भविष्यति ॥ ८२॥ नारद उवाच । वरं न याचे रघुनाथ युष्मत्पदाब्जभक्तिः सततं ममास्तु । इदं प्रियं नाथ वरं हि याचे पुनःपुनस्त्वामिदमेव याचे ॥ ८३॥ व्यास उवाच । इत्येवमीडितो रामः प्रादात्तस्मै वरान्तरम् । वीरो रामो महातेजाः सच्चिदानन्दविग्रहः ॥ ८४॥ अद्वैतममलं ज्ञानं स्वनामस्मरणं तथा । अन्तर्दधौ जगन्नाथः पुरतस्तस्य राघवः ॥ ८५॥ इति श्रीरघुनाथस्य स्तवराजमनुत्तमम् । सर्वसौभाग्यसम्पत्तिदायकं मुक्तिदं शुभम् ॥ ८६॥ कथितं ब्रह्मपुत्रेण वेदानां सारमुत्तमम् । गुह्याद्गुह्यतमं दिव्यं तव स्नेहात्प्रकीर्तितम् ॥ ८७॥ यः पठेच्छृणुयाद्वापि त्रिसन्ध्यं श्रद्धयान्वितः । ब्रह्महत्यादिपापानि तत्समानि बहूनि च ॥ ८८॥ स्वर्णस्तेयं सुरापानं गुरुतल्पगतिस्तथा । गोवधाद्युपपापानि अनृतात्सम्भवानि च ॥ ८९॥ सर्वैः प्रमुच्यते पापैः कल्पायुतशतोद्भवैः । मानसं वाचिकं पापं कर्मणा समुपार्जितम् ॥ ९०॥ श्रीरामस्मरणेनैव तत्क्षणान्नश्यति ध्रुवम् । इदं सत्यमिदं सत्यं सत्यमेतदिहोच्यते ॥ ९१॥ रामं सत्यं परं ब्रह्म रामात्किञ्चिन्न विद्यते । तस्माद्रामस्वरूपं हि सत्यं सत्यमिदं जगत् ॥ ९२॥ श्रीरामचन्द्र रघुपुङ्गव राजवर्य रजेन्द्र राम रघुनायक राघवेश । राजाधिराज रघुनन्दन रामचन्द्र दासोऽहमद्यभवतः शरणागतोऽस्मि ॥ ९३॥ वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे मध्ये पुष्पकृतासने मणिमये वीरासने संस्थितम् । अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनीन्द्रैः परं व्याख्यातं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ ९४॥ रामं रत्नकिरीटकुण्डलयुतं केयूरहारान्वितं सीतालङ्कृतवामभागममलं सिंहासनस्थं विभुम् । सुग्रीवादिहरीश्वरैः सुरगणैः संसेव्यमानं सदा विश्वामित्रपराशरादिमुनिभिः संस्तूयमानं प्रभुम् ॥ ९५॥ सकलगुणनिधानं योगिभिः स्तूयमानं भुजविजितसमानं राक्षसेन्द्रादिमानम् । महितनृपभयानं सीताया शोभमानं स्मर हृदय विमानं ब्रह्म रामाभिधानम् ॥ ९६॥ रघुवर तव मूर्तिर्मामके मानसाब्जे नरकगतिहरं ते नामधेयं मुखे मे । अनिशमतुलभक्त्या मस्तकं त्वत्पादाब्जे भवजलनिधिमग्नं रक्षमामार्तबन्धो ॥ ९७॥ रामरत्नमहं वन्दे चित्रकूटपतिं हरिम् । कौसल्याभक्तिसम्भूतं जानकीकण्ठभूषणम् ॥ ९८॥ विमलकमलनेत्रं विस्फुरन्नीलगात्रं तपनकुलपवित्रं दानविद्वांसमित्रम् । भुवनकुलचरित्रं भूमिपुत्रिकलत्रम्- अमितगुणसमुद्रं रामचन्द्रं नमामि ॥ ९९। इति श्रीसनत्कुमारसंहितायां नारदोक्तं श्रीरामस्तवराजस्तोत्रं सम्पूर्णम् ॥