अक्षर आकार:

श्रीरामश्लोकपञ्चरत्नम्

shrIrAmashlokapa~ncharatnam

श्रीरामश्लोकपञ्चरत्नम्

कञ्जातपत्रायतलोचनाय कर्णावतंसोज्ज्वलकुण्डलाय । कारुण्यपात्राय सुवंशजाय नमोऽस्तु रामाय सलक्ष्मणाय ॥ १॥ विद्युन्निभाम्भोदसुविग्रहाय विद्याधरैः संस्तुतसद्गुणाय । वीरावताराय विराधहन्त्रे नमोऽस्तु रामाय सलक्ष्मणाय ॥ २॥ संसक्तदिव्यायुधकार्मुकाय समुद्रगर्वापहरायुधाय । सुग्रीवमित्राय सुरारिहन्त्रे नमोऽस्तु रामाय सलक्ष्मणाय ॥ ३॥ पीताम्बरालङ्कृतमध्यकाय पितामहेन्द्रामरवन्दिताय । पित्रे स्वभक्तस्य जनस्य मात्रे नमोऽस्तु रामाय सलक्ष्मणाय ॥ ४॥ नमो नमस्तेऽखिलपूजिताय नमो नमश्चन्द्रनिभाननाय । नमो नमस्ते रघुवंशजाय नमोऽस्तु रामाय सलक्ष्मणाय ॥ ५॥ इमानि पञ्चरत्नानि त्रिसन्ध्यं यः पठेन्नरः । सर्वपापविनिर्मुक्तः स याति परमां गतिम् ॥ ६॥ इति श्रीरामकर्णामृतान्तर्गतं श्रीरामश्लोकपञ्चरत्नं सम्पूर्णम् । Verses 58-63 of Ramakarnamritam, chaturtha AshvAsaH