अक्षर आकार:

श्रीरामसौन्दर्यलहरी

Shri Rama Saundarya Lahari

श्रीरामसौन्दर्यलहरी

यद्दीनेषु धरासुतारमण ते नेत्रद्वयं जात्वपि प्रान्तेक्षाकनिताखिलार्त्यपगमद्‍ध्यानाद्यकुर्वत्स्वपि । नित्यं प्रेमदयोर्जितं निविशते तत्सन्ततं भक्तितः त्वत्सेवैकहृदः कथं न विषयीकुर्यात्तथा नः कृशान् ॥ १॥ मुग्धं राम तवाननं सहृदयं लोकस्य सम्पश्यतो नेत्रं विस्तृतपक्ष्मविभ्रममितो नापैति लक्ष्म्या यया । शीतांशुं विमलं न सा बहुशरद्राकोद्भवास्वेकदा श्रीष्वप्यार्य गतासु तादृशि मनाग्लक्ष्येत भिन्ने किमु ॥ २॥ चन्द्रं तवाननसमं द्रुहिणो विधातु- मेकैकया प्रतिदिनं कलया युनक्ति । पर्वण्यवेक्ष्य स तयोर्विषमत्वमुच्चै- रादर्शमाक्षिपति ता हि तथाधुनापि ॥ ३॥ रामाह्नि ते सदृशतां कमलानि दृग्भ्यां गन्तुं जलेषु वरदं समुपासतेऽर्कम् । तत्कान्तिलेशमनवाप्य ततोऽपि रात्र्यां शुष्यन्ति मीलनमिषादतिदुःखितानि ॥ ४॥ रम्यं दृशौ जगति राघव ते सिसृक्षु- र्धाताब्जकोटिमसृजत्करपाटवाय । सृष्ट्वाथ ते स तु तयोरनुरूपमेकं लब्धुं पुनः सृजति पद्मकुलं न लेभे ॥ ५॥ स्निग्धानि राम नव सान्द्रतराणि भान्ति पक्ष्माणि नीलनिबिडानि दरोन्नतानि । प्रायेण लग्ननयनाम्बुरुहप्रवेक- नीलान्यनुक्षणनिमेषकुलैरिव स्वैः ॥ ६॥ नीलोत्पलादहनि पद्मकुलाद्रजन्यां लक्ष्मीरपैति कुत इत्यवधार्य वेधाः । त्वन्नेत्रयोर्विरचितामनपायिनीं तां कर्तुं चकार नृप पक्ष्ममिषेण वप्राम् ॥ ७॥ आप्रान्तमायतनते रघुवंशचन्द्र देव भ्रुवौ नयनयोर्जितमार भातः । सञ्जातरक्तनलिनज्वलदग्रभागे वल्ल्याविवाद्भुततरे जगतीह केऽपि ॥ ८॥ मुग्धाङ्गनाजयसिसाधयिषोदयेन स्वप्रार्थितेन मदनः कमलासनेन । तं संहितं सुमुख माद्यति नेत्रकोणं त्वद्भूधनुष्युपरिपक्ष्मगुणेऽधिगत्य ॥ ९॥ दीर्घं विशालमलमुत्तरकोसलेन्द्र मध्ये विशेषकविशोभ्यलिकं तवाच्छम् । त्वद्वर्ष्मनिष्कुटतटेषु सदा चरन्त्या विश्रान्तिपीठमिव राजति रूपलक्ष्म्याः ॥ १०॥ रेखात्रयेण तव राम लसल्ललाटं तिर्यग्विभाति ननु सूक्ष्मतरेण मध्ये । सम्भावितर्धवदनोज्ज्वलताप्रवाह- वेगाहितानभिहतायतसत्रिनिम्नम् ॥ ११॥ तीक्ष्णोन्नताग्रमहिमांशुकुलावतंस घ्राणं मनाक् तव विजृम्भितचम्पकश्रि । सौन्दर्यनिर्झरचरद्वनिताक्षिमत्स्या नादातुमत्र बडिशं निहितं नु भाति ॥ १२॥ काकुत्स्थ ते सुमनसां चयमब्जयोनि- र्नासां ततान तिलपुष्षसमां गृहीत्वा । तन्निर्गतस्य पवनस्य यतः स गन्धो यः स्यात्तरामुपवने चरतो वसन्ते ॥ १३॥ ओष्ठोपरि स्फुरदनङ्गसमाङ्ग निम्नम् गाढं तवोल्लसति दाडिमबीजदघ्नम् । त्वामेव चेतसि शुचिं सततं दधत्याः स्वप्नोपभोगदशनक्षतमङ्गनायाः ॥ १४॥ निर्माय ते मृदुतयोत्पलभास्वरोष्ठं भूयः परीक्षितुमिमं चतुराननेन । तस्मिन्नसान्द्रनिहिताग्रकनिष्ठिकाया विद्योतते पदमिवोष्ठतलोर्ध्वनिम्नम् ॥ १५॥ लक्ष्येत राम तव चेदधरः कवीन्द्रैः कथ्येत विद्रुमगणेषु कथं तथा श्रीः । ज्ञायेत चेत्स मधुरोऽतिशयः सुधायां स्पृश्येत चेदभिनवे मृदुता शिरीषे ॥ १६॥ बिम्बैः फलैर्जगति यत्कविनाधराणां रामोपमामधरबिम्बपदं प्रयुक्तम् । तत्तेऽधरस्य गुणवाचि कथं न वा स्या- दत्यन्ततुच्छमिति बिम्बफलं किलातः ॥ १७॥ मुक्ताफलानि भुवि यान्यतिसुन्दराणि तान्येव चेदवनिचन्द्र नरो दिदृक्षुः । स्वच्छं समुज्ज्वल्लमिदं निशताग्रशालि पश्येत्समं स मसृणं तव द्न्तजालम् ॥ १८॥ ऊर्ध्वं स्थितेषु भरताग्रज तेऽप्यधस्तात् सत्स्वम्बुजाक्षतनयः सममानसिद्‍ध्यै । चक्रे ध्रुवं तनुशलाकिकयान्तरन्त- र्लेखाः कृशा विरलसन्धिमिषादनेकाः ॥ १९॥ सौमित्रिपूर्वज तवानिशमास्यभाजः शुद्धात्वषः सुमुख वागधिदेवतायाः तेजो बहिः प्रसरदेव शरद्धवाच्छ ज्योत्स्नाविशोभि तनुहास इतीर्यतेऽन्यैः ॥ २०॥ मन्दस्मितं दशरथात्मज ते यदच्छं त्वद्वक्त्रपूर्णशशिजा ननु चन्द्रिका सा । आलोकतः सरसतां यदमुष्य चन्द्र- कान्ताननं भजति हि प्रमदाजनस्य ॥ २१॥ सङ्क्षिप्तशब्दमपि दुर्ग्रहमर्थजालैः यद्रोचते विबुध ते वचनं पशुभ्यः । तन्मन्दहासशरदुद्भवचन्द्रिकोष्ठ पीय्यूषसङ्गजमहो मधुरत्वमस्य ॥ २२॥ आदीयते स्म सुत कोसलराजपुत्र्याः वाग्भ्योऽनु ते किसलयैर्मृदुता नवीनैः । आहोस्विदत्र किमु सुस्मित वैपरीत्यं वाक्तां तवापुरुत तानि नु यन्न भेदः ॥ २३॥ सम्पश्यतां गुणागणाम्बुनिधे खनीं नः वृत्तां स्थितां भवति ते चुबुकादधोऽत्र । धात्रोन्नमय्य मुखमेतदवेक्षितुं ते दत्तादिमाङ्गुलितलाग्रखनीति शङ्का ॥ २४॥ आदर्शसाम्यमनुचिन्त्य निषेधयामो गण्डद्वयस्य तव राम कवीन्द्रबद्धम् । अस्मिन्यथाऽभिमुखसंस्थितमच्छमेव- मन्यत्र न प्रतिफलत्युपमानमात्मा ॥ २५॥ मन्दस्मितस्य विशदैस्तव तैर्महोभी रामाभितो विततमच्छकपोलयुग्मम् । सान्द्रं सरोरुहभुवा परितो विलिप्तं शुद्धामृतस्य कणिकाभिरिवाद्य भाति ॥ २६॥ ऊर्ध्वस्फुरन्मकरकुण्डलभाविलिप्त- रन्ध्रश्रुतिद्वययुजी तव राम नेत्रे । सौन्दर्यनिर्झरमहृदयुग्मतोऽलं तीरे झषाविव ततः पतितौ चलन्तौ ॥ २७॥ श्रीराम कामसम वृत्ततया त्वदीयं कर्णद्वयं प्रतिनिधीकृतशष्कुलीकम् । दोर्मूलदेशयुगले विनिहीर्षयाऽऽभा- मुत्तभ्य कुण्डलयुगस्य शनैरुपैति ॥ २८॥ अन्तर्जनस्य तव योऽस्ति गुणाढ्य रागः स्थातुं शशाक न मुहुः स समेधृमानः । शिष्टस्ततः श्रवणरन्ध्रयुगादुपास्ते निर्गत्य तत्कनककुण्डलयुग्मरूपात् ॥ २९॥ अङ्गस्य यस्य भुवि या कमनीयभूषा सा निर्मलापि यदि तच्छ्रियमातनोति । गण्डप्रभाव्यतिकरादिव कर्णभूषे काष्ठामुपेत्य तु विभूषयतस्तवास्यम् ॥ ३०॥ श्रीराम ते सदय लोचनयोरुपान्ते रागो विनिर्जितनवाङ्कुरकान्तिदर्पः । मन्ये तमद्य मनुजेषु निजानुरागं दृग्भ्यां स्वतः प्रकटितं प्रचुरञ्जनाय ॥ ३१॥ आताम्रकृष्णसितनेत्रयुगात्स्रवन्त्यो भासो विभान्ति बहुवर्णमनोज्ञरूपाः । पृज्याग्रतस्तव मुदे गगनान्तराले सिद्धेन राम रचिता इव चित्रलेखाः ॥ ३२॥ भूतेषु जन्मसु न यैर्बहु चेदकारि पुण्यं न तेषु पुरुषोत्तम तं कटाक्षः । इष्टार्थदः स तु सुधारसपूरतुल्य- स्तापं हरन्परम मां विषयीकरोति ॥ ३३॥ पश्चात्कृतस्य पशुना बुध चामरस्य मूर्ध्नि त्वयाऽद्य विधृतस्य सुकेशराशेः । नेहेऽस्मि साम्यमनुवर्णयितुं सुगन्नु यानञ्जनस्य विमतेरपहास्यतायाः ॥ ३४॥ दृग्भ्यां सरोरुहरुचिक्षतिकृत्सुधाव- द्बिम्बाधरेण हसितेन सचन्द्रिकं च । पद्मेक्षणाननसुधाकरमण्डलं ते नः पश्यतां शशिसमीक्षणतो विरक्तिः ॥ ३५॥ आस्यं त्रिलोकमपि दाशरथे स्फुटाक्षं विस्मेरमावहत उज्वलतागुणस्य । विश्रामभूरुहमनाप्य न पापकृत्कः जङ्घालमेणधरदर्पभिदाकृतीदम् ॥ ३६॥ उन्निद्रमर्धमहिमांशुमहोभिरर्ध- निद्रायितं च कमलं विधुनैकदा चेत् । तेनातिसुन्दर तवैव समीक्रियेत ग्रीवा तु सुन्दरतया रहितो हि कम्बुः ॥ ३७॥ आश्लेषसक्तहृदयेन यदा यदा ते कण्ठो व्यलोकि सुयशो वनिताजनेन । रागस्तदीयमनसोऽत्र तदा तदालं सक्तस्ततोऽस्ति नु भवानतिरक्तकण्ठः ॥ ३८॥ सत्वेन राम मिलितेन सहातिरिक्तै- स्तैरामणीयकरसैः स्वकरोपपीडम् । ते पिण्डितेन रचितस्य गलस्य तिर्य- गाकुञ्चनात्त्रिवलि विश्वसृजोदगात्किम् ॥ ३९॥ लोकत्रयस्य विजये मदनेन साक्षा- द्यः पूर्यते मुस्वमरुद्भिरनन्यसाध्ये । शङ्खः स एव तव कण्ठमिषेण राम हारैरनर्घतरलैरमलैर्विभाति ॥ ४०॥ स्कन्धौ तवामरनिभाच्छसुवर्णकर्ण भूषाप्रभारसझरस्य कपोलयुग्मम् । आक्रम्य सम्प्रवहतः पूनरप्यधस्तात् व्यूढत्वमापतुरिवाधरणाय कामम् ॥ ४१॥ सृष्ट्वा विधिस्तव शरण्य विशालमंसं मेने पुनर्बहुविशालतया विहीनम् । जत्र्वङ्गमस्य समवायि चकार सोऽत- स्तस्मान्न सम्प्रति विभो वयि दृश्यते तत् ॥ ४२॥ सङ्ख्यावतां जगति राम भुजोत्तमाङ्ग- मंसं वदन्ति निकराः प्रथितोरुकीर्त्या । तेनाहमेव भुजतश्च किलोत्तमाङ्ग- मित्युन्नतिं किमभजन्नु तवांसयुग्मम् ॥ ४३॥ शुद्धा प्रभा बहुगुणैरमलं स्वहार- माच्छाद्य राम निबिडोपरिसंसरन्ती । अत्युन्नतादिव तवांसगिरेर्गलन्ती सौन्दर्यहृद्यरसजा लहरी विभाति ॥ ४४॥ यत्ते नरेन्द्र सकलाननिवारिताभ्यो बाहू जनानुपनतानवतो विपद्भ्यः । गम्भीरसत्त्वगुणयुक्ततया ततोऽमूं सद्वृत्ततां नु किमवापतुरेव तौ द्वौ ॥ ४५॥ सङ्ग्राममूर्ध्नि रिपुषु स्वबलेन साकं प्राणान्विहाय पतितेष्वथवा द्रुतेषु । आवेशतस्तव भुजौ विरतिं भजेते दार्ढ्यं यतः सरलता न तयोः शिलायाः ॥ ४६॥ यावत्प्रभो न भुजयोस्तव सत्त्वमन्तः प्राप्नोति मानमधुनास्ति तदैव तावत् । तस्माद्ध्रुवं दृढतया दरमप्यभिन्नौ नुन्नौ न तेन शिथिलत्वमिमौ लभन्ते ॥ ४७॥ मध्येऽभिराम तव शैशवसम्प्रयुक्तं पीनत्वमद्य परिगृह्य च यौवनेन । बाहोर्न्यधायि ननु तद्यदनुप्रवेशे पीने तनुत्वमतनुत्वमपीनयोश्च ॥ ४८॥ सृष्ट्वा मिथस्तव भुजौ सदृशौ विधाता भूयः परीक्षितुमनुत्तम तत्समत्वम् । आकर्षति स्म दृढमेव ततोऽतिदैर्घ्य- माजानु राम समजन्यनयोस्तु नूनम् ॥ ४९॥ पारावारपयोविशोषणचणैबाणैर्निहत्याशरान् क्लिष्टान्साधुजनान्ररक्ष कृपया धर्मञ्चयोऽस्थापयत् । सोऽयं श्रीजनकात्मजासहचरो निश्श्रेयसाधीश्वरः क्षेमस्थैर्यजयानभीप्सितमथो भद्रञ्च दद्यात्सताम् ॥ इति श्रीरामसौन्दर्यलहरी समाप्ता । ॥ शुभमस्तु ॥ Incomplete composition by sArvabhauma