अक्षर आकार:

रामसहस्रनामस्तोत्रम् भुषुण्डिरामायणान्तर्गतम्

rAmasahasranAmastotram from bhuShuNDirAmAya

रामसहस्रनामस्तोत्रम् भुषुण्डिरामायणान्तर्गतम्

त्रयोदशोऽध्यायः ब्रह्मोवाच - अथ त्रयोदशतमे दिने नामविघित्सया । कुमाराणां सुजनुषां परमायुश्चिकीर्षया ॥ १॥ वसिष्ठो वंशपौरौधाः मुदायुक्तः समाययौ । राज्ञो दशरथस्यान्तःपुरे सर्वसमर्द्धने ॥ २॥ var समृद्धने समायातं मुनिधेष्ठं राजा दशरथोऽग्रहीत् । अहो मे भाग्यसंपत्या सङ्गतोऽद्य पुरोहितः ॥ ३॥ प्राजापत्यो मुनिश्रेष्ठः परमानन्ददर्शनः । नमस्ते मुनिशार्दूल प्राजापत्य महाप्रभ ॥ ४॥ var महाप्रभो वसिष्ठ उवाच - नरेन्द्र वत ते भाग्यं जातोऽसि तनु पुत्रवान् ॥ ५॥ तेषामहं कुमाराणां नामकृत्यं सुखप्रदम् । तवाज्ञया विधास्यामि यद्गोप्यममरैरपि ॥ ६॥ अहो अमी प्रभोरंशा रामस्यामिततेजसः । योऽसौ तव कुमाराणामग्रणी राम एव सः ॥ ७॥ अस्य चत्वार एवांशाः ब्रह्मरूपाः सनातनाः । वासुदेवः संकर्षणः प्रद्युम्नश्चानिरुद्धकः ॥ ८॥ चत्वार एते पुरुषाः स्वस्वकार्यविधायकाः । धर्मरूपास्तु रामस्य पुरुषोत्तमरूपिणः ॥ ९॥ ततः संस्तातसंस्कारान् मन्त्रितान् विधिवर्त्मना । नामानि चक्रे व्रह्मर्षिः कोटिकल्पविदुत्तमः ॥ १०॥ वसिष्ठ उवाच - रामः श्यामो हरिर्विष्णुः केशवः केशिनाशनः । नारायणो माधवश्च श्रीधरो मधुसूदनः ॥ ११॥ रावणारिः कंसनिहा वकीप्राणनिवर्त्तनः । ताडकाहननोद्युक्तो विश्वामित्रप्रियः कृती ॥ १२॥ वेदाङ्गो यज्ञवाराहो धर्मज्ञो मेदिनीपतिः । वासुदेवोऽरविन्दाक्षो गोविन्दो गोपतिः प्रभुः ॥ १३॥ पद्माकान्तो विकुण्ठाभूः कीर्तिकन्यासुखप्रदः । जानकीप्राणनाथश्च सीताविश्लेषनाशनः ॥ १४॥ मुकुन्दो मुक्तिदाता च कौस्तुभी करुणाकरः । खरदूषणनाशी च मारीचप्राणनाशकः ॥ १५॥ सुबाहुमारणोत्साही पक्षिश्राद्धविधायकः । विहङ्गपितृसम्बन्धी क्षणतुष्टो गतिप्रदः ॥ १६॥ पूतनामातृगतिदो विनिवृत्ततृणानिलः । पावनः परमानन्दः कालिन्दीजलकेलिकृत् ॥ १७॥ सरयूजलकेलिश्च साकेतपुरदैवतः । मथुरास्थाननिलयो विश्रुतात्मा त्रयीस्तुतः ॥ १८॥ कौन्तेयविजयोद्युक्तः सेतुकृत् सिन्धुगर्भवित् । सप्ततालप्रभेदी च महास्थिक्षेपणोद्धुरः ॥ १९॥ कौशल्यानन्दनः कृष्णः किशोरीजनवल्लभः । आभीरीवल्लभो वीरः कोटिकन्दर्पविग्रहः ॥ २०॥ गोवर्द्धनगिरिप्राशी गोवर्द्धनगिरीश्वरः । गोकुलेशो न्नजेशश्च सहजाप्राणवल्लभः ॥ २१॥ भूलीलाकेलिसन्तोषी वामाकोटिप्रसादनः । भिल्लपत्नीकृपासिन्धुः कैवर्त्तकरुणाकरः ॥ २२॥ जाम्बवद्भक्तिदो भोक्ता जाम्बवत्यङ्गनापतिः । सीताप्रियो रुक्मिणीशः कल्याणगुणसागरः ॥ २३॥ भक्तप्रियो दाशरथिः कैटभारिः कृतोत्सवः । कदम्बवनमध्यस्थः शिलासंतारदायकः ॥ २४॥ राघवो रघुवीरश्च हनुमत्सख्यवर्द्धनः । पीताम्बरोऽच्युतः श्रीमान् श्रीगोपीजनवल्लभः ॥ २५॥ भक्तेष्टो भक्तिदाता च भार्गवद्विजगर्वजित् । कोदण्डरामः क्रोधात्मा लङ्काविजयपण्डितः ॥ २६॥ कुम्भकर्णनिहन्ता च युवा कैशोरसुन्दरः । वनमाली घनश्यामो गोचारणपराक्रमी ॥ २७॥ काकपक्षधरो वेषो विटो धृष्टः शठः पतिः । अनुकूलो दक्षिणश्च तारः कपटकोविदः ॥ २८॥ अश्वमेधप्रणेता च राजा दशरथात्मजः । राघवेन्द्रो महाराजः श्रीरामानन्दविग्रहः ॥ २९॥ क्षत्त्रः क्षत्त्रकुलोत्तसो महातेजाः प्रतापवान् । महासैन्यो महाचापो लक्ष्मणैकान्तसुप्रियः ॥ ३०॥ कैकेयीप्रणनिर्माता वीतराज्यो वनालयः । चित्रकूटप्रियस्थानो मृगयाचारतत्परः ॥ ३१॥ किरातवेषः क्रूरात्मा पशुमांसैकभोजनः । फलपुष्पकृताहारः कन्दमूलनिषेवणः ॥ ३२॥ पयोव्रतो विधानज्ञः सद्धर्मप्रतिपालकः । गदाधरो यज्ञकर्त्ता श्राद्धकर्ता द्विजार्चकः ॥ ३३॥ पितृभक्तो मातृभक्तो बन्धुः स्वजनतोषकृत् । मत्स्यः कूर्मो नृसिंहश्च वराहो वामनस्तथा ॥ ३४॥ रघुरामः परशुरामो बलरामो रमापतिः । रामलिङ्गस्थापयिता शिवभक्तिपरायणः ॥ ३५॥ var रुद्रमाहात्म्यवर्धनः चण्डिकार्चनकृत्यज्ञश्चण्डीपाठविधानवित् । अष्टमीव्रतकर्मज्ञो विजयादशमीप्रियः ॥ ३६॥ कपिसैन्यसमारम्भी सुग्रीवप्राणदः परः । सूर्यवंशध्वजो धीरो ब्रह्मण्यो ब्राह्मणप्रियः ॥ ३७॥ ब्रह्मार्पणी ब्रह्महोता ब्रह्मकर्मविदुत्तमः । ब्रह्मज्ञो ब्राह्मणाचारः कृतकृत्यः सनातनः ॥ ३८॥ सच्चिदानन्दरूपश्च निरीहो निर्विकारकः । नित्याकारो निराधारो रामो रमयतां वरः ॥ ३९॥ रकारादिर्मकारादिः रामः कैवल्यमङ्गलः । संदर्भो संशयच्छेत्ता शेषशायी सतां गतिः ॥ ४०॥ पुरुषः पुरुषाकारः प्रमेयः पुरुषोत्तमः । वशीधरो विहारज्ञो रसानन्दीजितस्मरः ॥ ४१॥ पूर्णातिथिविनोदी च वृन्दावनविलासकृत् । रत्नकटकधरो वीरो मुक्ताहारविभूषणः ॥ ४२॥ नृत्यप्रियो नृत्यकरो नित्यसीताविहारवान् । महालक्ष्मीदृढानन्दो प्रमोदवननायकः ॥ ४३॥ परप्रेमा परानन्दः परभक्तिस्वरूपकः । अग्निरूपः कालरूपः प्रलयान्तमहानलः ॥ ४४॥ var महबलः सुप्रसन्नः प्रसादात्मा प्रसन्नास्यः परः प्रभुः । प्रीतिः प्रीति मनाः प्रीतिः शकटासुरभञ्जनः ॥ ४५॥ var प्रीतः प्रीत मनाः खट्वासुरवधोद्युक्तः कालरूपो दुरन्तकः । हंसः स्मरसहस्रात्मा स्मरणीयो रुचिप्रदः ॥ ४६॥ पण्डा पण्डितमानी च वेदरूपः सरस्वती । गुह्यार्थदो गुरुर्देवो मन्त्रज्ञो मन्त्रदीक्षितः ॥ ४७॥ योगज्ञो योगविन्नाथः स्वात्मयोगविशारदः । अध्यात्मशास्त्रसारज्ञो रसरूपो रसात्मकः ॥ ४८॥ श‍ृङ्गारवेशो मदनो मानिनीमानवर्द्धनः । चन्दनद्रवसशीतश्चन्दनद्रवलेपनः ॥ ४९॥ श्रीवत्सलान्छनः श्रीमान् मानी मानुषविग्रहः । करणं कारणं कर्ताऽऽधारो विधरणो धरः ॥ ५०॥ धरित्रीधरणो धीरः स्त्र्यधीशः सत्यवाक् प्रियः । सत्यकृत् सत्रकर्ता च कर्मी कर्मविवर्द्धनः ॥ ५१॥ कार्मुकी विशिखी शक्तिधरो विजयदायकः ऊर्ज्जस्वलो बली जिष्णुर्लङ्केशप्राणनाशकः ॥ ५२॥ शिशुपालप्रहन्ता च दन्तवक्त्रविनाशनः । परमोत्साहनोऽसह्यः कलिदोषविनाशनः ॥ ५३॥ var परमोत्साहनो सत्त्व जरासन्धमहायुद्धो निःकिंचनजनप्रियः । var योद्धा द्वारकास्थाननिर्माता मथुरावासशून्यकृत् ॥ ५४॥ काकुत्स्थो विनयी वाग्मी मनस्वी दक्षिणाप्रदः । प्राच्यवाचीप्रतीच्युक्तदक्षिणो भूरिदक्षिणः ॥ ५५॥ दक्षयज्ञसमानेता विश्वकेलिः सुरार्चितः । देवाधिपो दिवोदासो दिवास्वापी दिवाकरः ॥ ५६॥ कमलाक्षः कृपावासो द्विजपत्नीमनोहरः । विभीषणशरण्यश्च शरणं परमा गतिः ॥ ५७॥ चाणूरबलनिर्माथी महामातङ्गनाशनः । बद्धकक्षो महामल्ली मल्लयुद्धविशारदः ॥ ५८॥ अप्रमेयः प्रमेयात्मा प्रमाणात्मा सनातनः । मर्यादावतरो विज्ञो मर्यादापुरुषोत्तमः ॥ ५९॥ महाक्रतुविधानज्ञः क्रतुकर्मा क्रतुप्रियः । वृषस्कन्धो वृषस्कन्दो वृषध्वजमहासखः ॥ ६०॥ चक्री शार्ङ्गी गदापाणिः शङ्खभृत् सुस्मिताननः । योगध्यानी योगगम्यो योगाचार्यो दृढासनः ॥ ६१॥ जिताहारो मिताहारः परहा दिग्जयोद्धुरः । सुपर्णासनसंस्थाता गजाभो गजमोक्षणः ॥ ६२॥ गजगामी ज्ञानगम्यो भक्तिगम्यो भयापहः । भगवान् सुमहैश्वर्यः परमः परमामृतः ॥ ६३॥ स्वानन्दी सच्चिदानन्दी नन्दिग्रामनिकेतनः । वर्होत्तंसः कलाकान्तः कालरूपः कलाकरः ॥ ६४॥ कमनीयः कुमाराभो मुचुकुन्दगतिप्रदः । मुक्तिभूरिफलाकारः कारुण्यधृतविग्रहः ॥ ६५॥ भूलीलारमणोद्युक्तः शतधाकृतविग्रहः । रसास्वादी रसानन्दी रसातलविनोदकृत् ॥ ६६॥ अप्रतर्क्यः पुनीतात्मा विनीतात्मा विधानवित् । भुज्युः सभाजनः सभ्यः पण्डः पण्डुर्विपण्यजः ॥ ६७॥ चर्षणी उत्कटो वीतो वित्तदः सविताऽविता । विभवो विविधाकारो रामः कल्याणसागरः ॥ ६८॥ सीतास्वयवरोद्युक्तो हरकार्मुकभञ्जनः । रावणोन्मादशमनः सीताविरहकातरः ॥ ६९॥ कुमारकुशलः कामः कामदः कोतिवर्द्धनः । दुर्योधनमहावैरी युधिष्ठिरहितप्रदः ॥ ७०॥ द्रौपदीचीरविस्तारी कुन्तीशोकनिवारणः । गान्धारीशोकसंतानः कृपाकोमलमानसः ॥ ७१॥ चित्रकूटकृतावासो गङ्गासलिलपावनः । ब्रह्मचारी सदाचारः कमलाकेलिभाजनः ॥ ७२॥ दुरासदः कलहकृत् कलिः कलिविनाशनः । चारी दण्डाजिनी छत्री पुस्तकी कृष्णमेखलः ॥ ७३॥ var ब्रह्मचारी दण्डछत्री दण्डकारण्यमध्यस्थः पञ्चवट्यालयस्थितः । परिणामजयानन्दी नन्दिग्रामसुखप्रदः ॥ ७४॥ इन्द्रारिमानमथनो बद्धदक्षिणसागरः । शैलसेतुविनिर्माता कपिसैन्यमहीपतिः ॥ ७५॥ रथारूढो गजारूढो हयारूढो महाबली । निषङ्गी कवची खड्गी खलगर्वनिवहणः ॥ ७६॥ वेदान्तविज्ञो विज्ञानी जानकीब्रह्मदर्शनः । लङ्काजेता विमानस्थो नागपाशविमोचकः ॥ ७७॥ अनन्तकोटिगणभूः कल्याणः केलिनीपतिः । दुर्वासापूजनपरो वनवासी महाजवः ॥ ७८॥ सुस्मयः सुस्मितमुखः कालियाहिफणानटः । विभुर्विषहरो वत्सो वत्सासुरविनाशनः ॥ ७९॥ वृषप्रमथनो वेत्ता मरीचिर्मुनिरङ्गिराः । वसिष्ठो द्रोणपुत्रश्च द्रोणाचार्यो रघूत्तमः ॥ ८०॥ रघुवर्यो दुःखहन्ता वनधावनसश्रमः । भिल्लग्रामनिवासी च भिल्लभिल्लिहितप्रदः ॥ ८१॥ रामो रविकुलोत्तंसः वृष्णिगर्भो महामणिः । var पृश्निगर्भो यशोदाबन्धनप्राप्तो यमलार्जुनभञ्जनः ॥ ८२॥ दामोदरो दुराराध्यो दूरगः प्रियदर्शनः । मृत्तिकाभक्षणक्रीडो ब्रह्माण्डावलिविग्रहः ॥ ८३॥ बाललीलाविनोदी च रतिलीलाविशारदः । वसुदेवसुतः श्रीमान् भव्यो दशरथात्मजः ॥ ८४॥ वलिप्रियो वालिहन्ता विक्रमी केसरी करी । सनिग्रहफलानन्दी सनिग्रहनिवारणः ॥ ८५॥ सीतावामाङ्गसंलिष्टः कमलापाङ्गवीक्षितः । स्यमन्तपञ्चकस्थायी भृगुवंशमहायशाः ॥ ८६॥ अनन्तोऽनन्तमाता च रामो राजीवलोचनः । इत्येवं नामसाहस्रं राजेन्द्र तनयस्य ते ॥ ८७॥ यः पठेत्प्रातरुत्थाय धौतपादः शुचिव्रत्रः । स याति रामसायुज्यं भुक्त्वान्ते केवलं पदम् ॥ ८८॥ न यत्र त्रिगुणग्रासो न माया न स्मयो मदः । तद्याति विरजं स्थानं रामनामानुकीर्तयन् ॥ ८९॥ न ते पुत्रस्य नामानि संख्यातुमहमीश्वरः । संक्षेपेण तु यत्प्रोक्तं तन्मात्रमवधारय ॥ ९०॥ यावन्ति सन्ति रूपाणि विष्णोरमिततेजसः । तावन्ति तव पुत्रस्य परब्रह्मस्वरूपिणः ॥ ९१॥ पाज्वभौतिकमेतद्धि विश्वं समुपधारय । ततः परं परब्रह्म विद्धि रामं सनातनम् ॥ ९२॥ नश्वरं सकलं दृश्यं रामं ब्रूमः सनातनम् । एतद्धि तव पुत्रत्वं प्राप्तो रामः परात्परः ॥ ९३॥ सद्वेदैरपि वेदान्तैर्नेति नेतीति गीयते । var वेदान्ते तमेव जलदश्यामं रामं भावय भावय ॥ ९४॥ य एतत् पठते नित्यं रामसाहस्रकं विभो । स याति परमां मुक्तिं रामकैवल्यरूपिणीम् ॥ ९५॥ मा शङ्किष्ठा नराधीशः श्रीरामरसिकस्य च । अनन्तकोटिरूपाणि रामस्तेषां विभावकः ॥ ९५॥ त्रैलोक्यमेतदखिलं रामवीर्ये प्रतिष्ठितम् । विजानन्ति नराः सर्वे नास्य रूपं च नाम च ॥ ९७॥ य एतस्मिन् महाप्रीतिं कलयिष्यन्ति मानवाः । त एव धन्या राजेन्द्र नान्ये स्वजनदूषकाः ॥ ९८॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसवादे वसिष्ठकृतनाम- सहस्रकथनं नाम त्रयोदशोऽध्यायः ॥ १३॥