अक्षर आकार:

श्रीरामसहस्रनामस्तोत्रम्

Shri Rama SahasranAma Stotra

श्रीरामसहस्रनामस्तोत्रम्

(अकारादिज्ञकारान्त) ॥श्रीः ॥ सङ्कल्पः - यजमानः, आचम्य, प्राणानायम्य, हस्ते जलाऽक्षतपुष्पद्रव्याण्यादाय, अद्येत्यादि-मास-पक्षाद्युच्चार्य एवं सङ्कल्पं कुर्यात् । शुभपुण्यतिथौ अमुकप्रवरस्य अमुकगोत्रस्य अमुकनाम्नो मम यजमानस्य सकुटुम्बस्य श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थं त्रिविधतापोपशमनार्थं सकलमनोरथसिद्ध्यर्थं श्रीसीतारामचन्द्रप्रीत्यर्थं च श्रीरामसहस्रनामस्तोत्रपाठं करिष्ये । अथवा कौशल्यानन्दवर्द्धनस्य श्रीभरतलक्ष्मणाग्रजस्य स्वमताभीष्टसिद्धिदस्य श्रीसीतासहितस्य मर्यादापुरुषोत्तमश्रीरामचन्द्रस्य सहस्रनामभिः श्रीरामनामाङ्कित- तुलसीदलसमर्पणसहितं पूजनमहं करिष्ये । अथवा सहस्रनमस्कारान् करिष्ये ॥ विनियोगः - ॐ अस्य श्रीरामचन्द्रसहस्रनामस्तोत्रमन्त्रस्य भगवान् शिव ऋषिः, अनुष्टुप् छन्दः, श्रीरामसीतालक्ष्मणा देवताः, चतुर्वर्गफलप्राप्त्ययर्थं पाठे (तुलसीदलसमर्पणे, पूजायां नमस्कारेषु वा) विनियोगः ॥ करन्यासः - श्रीरामचन्द्राय, अङ्गुष्ठाभ्यां नमः । श्रीसीतापतये, तर्जनीभ्यां नमः । श्रीरघुनाथाय, मध्यमाभ्यां नमः । श्रीभरताग्रजाय, अनामिकाभ्यां नमः । श्रीदशरथात्मजाय, कनिष्ठिकाम्यां नमः । श्रीहनुमत्प्रभवे, करतलकरपृष्ठाभ्यां नमः ॥ अङ्गन्यासः - श्रीरामचन्द्राय, हृदयाय नमः । श्रीसीतापतये, शिरसे स्वाहा । श्रीरघुनाथाय शिखायै वषट् । श्रीभरताग्रजाय कवचाय हुम् । श्रीदशरथात्मजाय नेत्रत्रयाय वौषट् । श्रीहनुमत्प्रभवे, अस्त्राय फट् ॥ ध्यानम् - ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् । वामाङ्कारूढसीतामुखकमलमिलल्लोचनं नीरदाभं नानालङ्कारदीप्तं दधतमुरुजटामण्डनं रामचन्द्रम् ॥ १॥ var मण्डलं नमोऽस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै । नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यो नमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः ॥ २॥ मानस-पञ्चोपचार-पूजनम्- १ ॐ लं पृथिव्यात्मने गन्धं परिकल्पयामि । २ ॐ हं आकाशात्मने पुष्पं परिकल्पयामि । ३ ॐ यं वाय्वात्मने धूपं परिकल्पयामि । ४ ॐ रं वह्न्यात्मने दीपं परिकल्पयामि । ५ ॐ वं अमृतात्मने नैवेद्यं परिकल्पयामि । अथ श्रीरामसहस्रनामस्तोत्रम् । ॐ अनादिरधिवासश्चाच्युत आधार एव च । आत्मप्रचालकश्चादिरात्मभुङ्नामकस्तथा ॥ १॥ इच्छाचारीभबन्धारीडानाडीश्वर एव च । इन्द्रियेशश्चेश्वरश्च तथा चेतिविनाशकः ॥ २॥ उमाप्रिय उदारज्ञ उमोत्साहस्तथैव च । उत्साह उत्कटश्चैव उद्यमप्रिय एव च ॥ ३॥ ऊधाब्धिदानकर्ता च ऊनसत्त्वबलप्रदः । ऋणमुक्तिकरश्चाथ ऋणदुःखविमोचकः ॥ ४॥ एकपत्निश्चैकबाणधृट् तथा चैन्द्रजालिकः । ऐश्वर्यभोक्ता ऐश्वर्यमोषधीनां रसप्रदः ॥ ५॥ ओण्ड्रपुष्पाभिलाषी चौत्तानपादिसुखप्रियः । औदार्यगुणसम्पन्न औदरश्चौषधस्तथा ॥ ६॥ अंशांशिभावसम्पन्नश्चांसी चाङ्कुरपूरकः । काकुत्स्थः कमलानाथः कोदण्डी कामनाशनः ॥ ७॥ कार्मुकी काननस्थश्च कौसल्यानन्दवर्धनः । कोदण्डभञ्जनः काकध्वंसी कार्मुकभञ्जनः ॥ ८॥ कामारिपूजकः कर्ता कर्बूरकुलनाशनः । कबन्धारिः क्रतुत्राता कौशिकाह्लादकारकः ॥ ९॥ काकपक्षधरः कृष्णः कृष्णोत्पलदलप्रभः । कञ्जनेत्रः कृपामूर्तिः कुम्भकर्णविदारणः ॥ १०॥ कपिमित्रं कपित्राता कपिकालः कपीश्वरः । कृतसत्यः कलाभोगी कलानाथमुखच्छविः ॥ ११॥ काननी कामिनीसङ्गी कुशतातः कुशासनः । कैकेयीकीर्तिसंहर्ता कृपासिन्धुः कृपामयः ॥ १२॥ कुमारः कुकुरत्राता करुणामयविग्रहः । कारुण्यं कुमूदानन्दः कौसल्यागर्भसेवनः ॥ १३॥ कन्दर्पनिन्दिताङ्गःश्च कोटिचन्द्रनिभाननः । कमलापूजितः कामः कमलापरिसेवितः ॥ १४॥ कौसल्येयः कृपाधाता कल्पद्रुमनिषेवितः । खङ्गहस्तः खरध्वंसी खरसैन्यविदारणः ॥ १५॥ खरषुत्रप्राणहर्ता खण्डितासुरजीवनः । खलान्तकः खस्थविरः खण्डितेशधनुस्तथा ॥ १६॥ खेदी खेदहरः खेददायकः खेदवारणः । खेदहा खरहा चैव खड्गी क्षिप्रप्रसादनः ॥ १७॥ खेलत्खञ्जननेत्रश्च खेलत्सरसिजाननः । खगचक्षुसुनासश्च खञ्जनेशसुलोचनः ॥ १८॥ खञ्जरीटपतिः खञ्जः खञ्जरीटविचञ्चलः । गुणाकरो गुणानन्दो गञ्जितेशधनुस्तथा ॥ १९॥ गुणसिन्धुर्गयावासी गयाक्षेत्रप्रकाशकः । गुहमित्रं गुहत्राता गुहपूज्यो गुहेश्वरः ॥ २०॥ गुरुगौरवकर्ता च गरुगौरवरक्षकः । गुणी गुणप्रियो गीतो गर्गाश्रमनिषेवकः ॥ २१॥ गवेशो गवयत्राता गवाक्षामोददायकः । गन्धमादनपूज्यश्च गन्धमादनसेवितः ॥ २२॥ गौरभार्यो गुरुत्राता गरुयज्ञाधिपालकः । गोदावरीतीरवासी गङ्गास्नातो गणाधिपः ॥ २३॥ गरुत्मतरथी गुर्वी गुणात्मा च गुणेश्वरः ॥ गरुडी गण्डकीवासी गण्डकीतीरचारणः ॥ २४॥ गर्भवासनियन्ताऽथ गुरुसेवापरायणः । गीष्पतिस्तूयमानस्तु गीर्वाणत्राणकारकः ॥ २५॥ गौरीशपूजको गौरीहृदयानन्दवर्धनः । गीतप्रियो गीतरतस्तथा गीर्वाणवन्दितः ॥ २६॥ घनश्यामो घनानन्दो घोरराक्षसघातकः । घनविघ्नविनाशो वै घनानन्दविनाशकः ॥ २७॥ घनानन्दो घनानादी घनगर्जिनिवारणः । घोरकाननवासी च घोरशस्त्रविनाशकः ॥ २८॥ घोरबाणधरो घोरधन्वी घोरपराक्रमः । घर्मबिन्दुमुखश्रीमान् घर्मबिन्दुविभूषितः ॥ २९॥ घोरमारीचहर्ता च घोरवीरविघातकः । चन्द्रवक्त्रश्चञ्चलाक्षश्चन्द्रमूर्तिश्चतुष्कलः ॥ ३०॥ चन्द्रकान्तिश्चकोराक्षश्चकोरीनयनप्रियः । चण्डवाणश्चण्डधन्वा चकोरीप्रियदर्शनः ॥ ३१॥ चतुरश्चातुरीयुक्तश्चातुरीचित्तचोरक्रः । चलत्खड्गश्चलद्बाणश्चतुरङ्गबलान्वितः ॥ ३२॥ चारुनेत्रश्चारुवक्त्रश्चारुहासप्रियस्तथा । चिन्तामणिविभूषाङ्गश्चिन्तामणिमनोरथी ॥ ३३॥ चिन्तामणिसुदीपश्च चिन्तामणिमणिप्रियः । चित्तहर्ता चित्तरूपी चलच्चित्तश्चिताञ्चितः ॥ ३४॥ चराचरभयत्राता चराचरमनोहरः । चतुर्वेदमयश्चिन्त्यश्चिन्तासागरवारणः ॥ ३५॥ चण्डकोदण्डधारी च चण्डकोदण्डखण्डनः । चण्डप्रतापयुक्तश्च चण्डेषुश्चण्डविक्रमः ॥ ३६॥ चतुर्विक्रमयुक्तश्च चतुरङ्गबलापहः । चतुराननपूज्यश्च चतुःसागरशासिता ॥ ३७॥ चमूनाथश्चमूभर्ता चमूपूज्यश्चमूयुतः । चमूहर्ता चमूभञ्जी चमूतेजोविनाशकः ॥ ३८॥ चामरी चारुचरणश्चरणारुणशोभनः । चर्मी चर्मप्रियश्चारुमृगचर्मविभूषितः ॥ ३९॥ चिद्रूपी च चिदानन्दश्चित्स्वरूपी चराचरः । छत्ररूपी छत्रसङ्गी छात्रवृन्दविभूषितः ॥ ४०॥ छात्रश्छत्रप्रियश्छत्री छत्रमोहार्तपालकः । छत्रचामरयुक्तश्च छत्रचामरमण्डितः ॥ ४१॥ छत्रचामरहर्ता च छत्रचामरदायकः । छत्रधारी छत्रहर्ता छत्रत्यागी च छत्रदः ॥ ४२॥ छत्ररूपी छलत्यागी छलात्मा छलविग्रहः । छिद्रहर्त्ता छिद्ररूपी छिद्रौघविनिषूदनः ॥ ४३॥ छिन्नशत्रुश्छिन्नरोगश्छिन्नधन्वा छलापहः । छिन्नछत्रप्रदाता च छन्दश्चारी छलापहा ॥ ४४॥ जानकीशो जितामित्रो जानकीहृदयप्रियः । जानकीपालको जेता जितशत्रुर्जितासुरः ॥ ४५॥ जानक्युद्धारको जिष्णुर्जितसिन्धुर्जयप्रदः । जानकीजीवनानन्दो जानकीप्राणवल्लभः ॥ ४६॥ जानकीप्राणभर्ता च जानकीदृष्टिमोहनः । जानकीचित्तहर्ता च जानकीदुःखभञ्जनः ॥ ४७॥ जयदो जयकर्ता च जगदीशो जनार्दनः । जनप्रियो जनानन्दो जनपालो जनोत्सुकः ॥ ४८॥ जितेन्द्रियो जितक्रोधो जीवेशो जीवनप्रियः । जटायुमोक्षदो जीवत्राता जीवनदायकः ॥ ४९॥ जयन्तारिर्जानकीशो जनकोत्सवदायकः । जगत्त्राता जगत्पाता जगत्कर्ता जगत्पतिः ॥ ५०॥ जाड्यहा जाड्यहर्ता च जाड्येन्धनहुताशनः । जगत्स्थितिर्जगन्मूर्तिर्जगतां पापनाशनः ॥ ५१॥ जगच्चिन्त्यो जगद्वन्द्यो जगज्जेता जगत्प्रभुः । जनकारिविहर्ता च जगज्जाड्यविनाशकः ॥ ५२॥ जटी जटिलरूपश्च जटाधारी जटाबहः । झर्झरप्रियवाद्यश्च झञ्झावातनिवारकः ॥ ५३॥ झञ्झारवस्वनो झान्तो झार्णो झार्णवभूषितः । टङ्कारिष्टङ्कदाता च टीकादृष्टिस्वरूपधृट् ॥ ५४॥ ठकारवर्णनियमो डमरुध्वनिकारकः । ढक्कावाद्यप्रियो ढार्णो ढक्कावाद्यमहोत्सवः ॥ ५५॥ तीर्थसेवी तीर्थवासी तरुस्तीर्थनिवासकः । तालभेत्ता तालघाती तपोनिष्ठस्तपः प्रभुः ॥ ५६॥ तापसाश्रमसेवी च तपोधनसमाश्रयः । तपोवनस्थितश्चैव तपस्तापसपूजितः ॥ ५७॥ तन्वीभार्यस्तनूकर्ता त्रैलोक्यवशकारकः । त्रिलोकीशस्त्रिगुणकस्त्रैगुण्यस्त्रिदिवेश्वरः ॥ ५८॥ त्रिदिवेशस्त्रिसर्गेशस्त्रिमूर्तिस्त्रिगुणात्मकः । तन्त्ररूपस्तन्त्रविज्ञस्तन्त्रविज्ञानदायकः ॥ ५९॥ तारेशवदनोद्योती तारेशमुखमण्डलः । त्रिविक्रमस्त्रिपादूर्ध्वस्त्रिस्वरस्त्रिप्रवाहकः ॥ ६०॥ त्रिपुरारिकृतभक्तिश्च त्रिपुरारिप्रपूजितः । त्रिपुरेशस्त्रिसर्गश्च त्रिविधस्त्रितनुस्तथा ॥ ६१॥ तूणी तूणीरयुक्तश्च तूणबाणधरस्तथा । ताटकावधकर्ता च ताटकाप्राणघातकः ॥ ६२॥ ताटकाभयकर्ता च ताटकादर्पनाशकः । थकारवर्णनियमस्थकारप्रियदर्शनः ॥ ६३॥ दीनबन्धुर्दयासिन्धुर्दारिद्रयापद्विनाशकः । दयामयो दयामूर्तिर्दयासागर एव च ॥ ६४॥ दिव्यमूर्तिर्दिव्यबाहुर्दीर्घनेत्रो दुरासदः । दुराधर्षो दुराराध्यो दुर्मदो दुर्गनाशनः ॥ ६५॥ दैत्यारिर्दनुजेन्द्रारिर्दानवेन्द्रविनाशनः । दूर्वादलश्याममूर्तिर्दूर्वादलघनच्छविः ॥ ६६॥ दूरदर्शी दीर्घदर्शी दुष्टारिबलहारकः । दशग्रीववधाकाङ्क्षी दशकन्धरनाशकः ॥ ६७॥ दूर्वादलश्यामकान्तो दूर्वादलसमप्रभः । दाता दानपरो दिव्यो दिव्यसिंहासनस्थितः ॥ ६८॥ दिव्यदोलासमासीनो दिव्यचामरमण्डितः । दिव्यच्छत्रसमायुक्तो दिव्यालङ्कारमण्डितः ॥ ६९॥ दिव्याङ्गनाप्रमोदश्च दिलीपान्वयसम्भवः । दूषणारिर्दिव्यरूपी देवो दशरथात्मजः ॥ ७०॥ दिव्यदो दधिभुगू दानी दुःखसागरभञ्जनः । दण्डी दण्डधरो दान्तो दन्तुरो दनुजापहः ॥ ७१॥ धैर्यं धीरो धरानाथो धनेशो धरणीपतिः । धन्वी धनुष्मान् धेनुष्को धनुर्भक्ता धनाधिपः ॥ ७२॥ धार्मिको धर्मशीलश्च धर्मिष्ठो धर्मपालकः । धर्मपाता धर्मयुक्तो धर्मनिन्दकवर्जकः ॥ ७३॥ धर्मात्मा धरणीत्यागी धर्मयूपो धनार्थदः । धर्मारण्यकृतावासो धर्मारण्यनिषेवकः ॥ ७४॥ धरोद्धर्ता धरावासी धैर्यवान् धरणीधरः । नारायणो नरो नेता नन्दिकेश्वरपूजितः ॥ ७५॥ नायको नृपतिर्नेता नेयो नरपतिर्नटः । नटेशो नगरत्यागी नन्दिग्रामकृताश्रमः ॥ ७६॥ नवीनेन्दुकलाकान्तिर्नौपतिर्नृपतेः पतिः । नीलेशो नीलसन्तापी नीलदेहो नलेश्वरः ॥ ७७॥ नीलाङ्गो नीलमेघाभो नीलाञ्जनसमद्युतिः । नीलोत्पलदलप्रख्यो नीलोत्पलदलेक्षणः ॥ ७८॥ नवीनकेतकीकुन्दो नूत्नमालाविराजितः । नारीशो नागरीप्राणो नीलबाहुर्नदी नदः ॥ ७९॥ निद्रात्यागी निद्रितश्च निद्रालुर्नदबन्धकः । नादो नादस्वरूपच्च नादात्मा नादमण्डितः ॥ ८०॥ पूर्णानन्दो परब्रह्म परन्तेजाः परात्परः । परं धाम परं मूर्तिः परहंसः परावरः ॥ ८१॥ पूर्णः पूर्णोदरः पूर्वः पूर्णारिविनिषूदनः । प्रकाशः प्रकटः प्राप्यः पद्मनेत्रः परोत्कटः ॥ ८२॥ पूर्णब्रह्म पूर्णमूर्तिः पूर्णतेजाः परंवषुः । पद्मबाहुः पद्यवक्त्रः पञ्चाननसुपूजितः ॥ ८३॥ प्रपञ्चः पञ्चपूतश्च पञ्चाम्नायः परप्रभूः । पद्मेशः पद्मकोशश्च पद्माक्षः पद्मलोचनः ॥ ८४॥ पद्मापतिः पुराणश्च पुराणषुरुषः प्रभुः । पयोधिशयनः पालः पालकः पृथिवीपतिः ॥ ८५॥ पवनात्मजवन्द्यश्च पवनात्मजसेवितः । पञ्चप्राणः पञ्चवायुः पञ्चाङ्गः पञ्चसायकः ॥ ८६॥ पञ्चबाणः पूरकश्च प्रपञ्चनाशकः प्रियः । पातालं प्रमथः प्रौढः पाशी प्रार्थ्यः प्रियंवदः ॥ ८७॥ प्रियङ्करः पण्डितात्मा पापहा पापनाशनः । पाण्ड्येशः पूर्णशीलश्च पद्मी पद्मसमर्चितः ॥ ८८॥ फणीशः फणिशायी च फणिपूज्यः फणान्वितः । फलमूलप्रभोक्ता च फलदाता फलेश्वरः ॥ ८९॥ फणिरूपः फणेर्भर्त्ता फणिभुग्वाहनस्तथा । फल्गुतीर्थसदास्नायी फल्गुतीर्थप्रकाशकः ॥ ९०॥ फलाशी फलदः फुल्लः फलकः फलभक्षकः । बुधो बोधप्रियो बुद्धो बुद्धाचारनिवारकः ॥ ९१॥ बहुदो बलदो ब्रह्मा ब्रह्मण्यो ब्रह्मदायकः । भरतेशो भारतीशो भारद्वाजप्रपूजितः ॥ ९२॥ भर्ता च भगवान् भोक्ता भीतिघ्नो भयनाशनः । भवो भीतिहरो भव्यो भूपतिर्भूपवन्दितः ॥ ९३॥ भूपालो भवनं भोगी भावनो भुवनप्रियः । भारतारो भारहर्ता भारभृद्भरताग्रजः ॥ ९४॥ भूर्भुग्भुवनभर्ता च भूनाथो भूतिसुन्दरः । भेद्यो भेदकरो भेत्ता भूतासुरविनाशनः ॥ ९५॥ भूमिदो भूमिहर्ता च भूमिदाता च भूमिपः । भूतेशो भूतनाथश्च भूतेशपरिपूजितः ॥ ९६॥ भूधरो भूधराधीशो भूधरात्मा भयापहः । भयदो भयदाता च भयहर्ता भयावहः ॥ ९७॥ भक्षो भक्ष्यो भवानन्दो भवमूर्तिर्भवोदयः । भवाब्धिर्भारतीनाथो भरतो भूमिभूधरौ ॥ ९८॥ मारीचारिर्मरुत्त्राता माधवो मधुसूदनः । मन्दोदरीस्तूयमानो मधुगद्गदभाषणः ॥ ९९॥ मन्दो मन्दारुमन्तारौ मङ्गलं मतिदायकः । मायी मारीचहन्ता च मदनो मातृपालकः ॥ १००॥ महामायो महाकायो महातेजा महाबलः । महाबुद्धिर्महाशक्तिर्महादर्पो महायशाः ॥ १०१॥ महात्मा माननीयश्च मूर्तो मरकतच्छविः । मुरारिर्मकराक्षारिर्मत्तमातङ्गविक्रमः ॥ १०२॥ मधुकैटभहन्ता च मातङ्गवनसेवितः । मदनारिप्रभुर्मत्तो मार्तण्डकुलभूषणः ॥ १०३॥ मदो मदविनाशी च मर्दनो मुनिपूजकः । मुक्तिर्मरकताभश्च महिमा मननाश्रयः ॥ १०४॥ मर्मज्ञो मर्मघाती च मन्दारकुसुमप्रियः । मन्दरस्थो मुहूर्तात्मा मङ्गल्यो मङ्गलालकः ॥ १०५॥ मिहिरो मण्डलेशश्च मन्युर्मान्यो महोदधिः । मारुतो मारुतेयश्च मारुतीशो मरुत्तथा ॥ १०६॥ यशस्यश्च यशोराशिर्यादवो यदुनन्दनः । यशोदाहृदयानन्दो यशोदाता यशोहरः ॥ १०७॥ युद्धतेजा युद्धकर्ता योधो युद्धस्वरूपकः । योगो योगीश्वरो योगी योगेन्द्रो योगपावनः ॥ १०८॥ योगात्मा योगकर्ता च योगभृद्योगदायकः । योद्धा योधगणासङ्गी योगकृद्योगभूषणः ॥ १०९॥ युवा युवतिभर्ता च युवभ्राता युवार्जकः । रामभद्रो रामचन्द्रो राघवो रघुनन्दनः ॥ ११०॥ रामो रावणहन्ता च रावणारी रमापतिः । रजनीचरहन्ता च राक्षसीप्राणहारकः ॥ १११॥ रक्ताक्षो रक्तपद्माक्षो रमणो राक्षसान्तकः । राघवेन्द्रो रमाभर्ता रमेशो रक्तलोचनः ॥ ११२॥ रणरामो रणासक्तो रणो रक्तो रणात्मकः । रङ्गस्थो रङ्गभूमिस्थो रङ्गशायी रणार्गलः ॥ ११३॥ रेवास्नायी रमानाथो रणदर्पविनाशनः । राजराजेश्वरो राजा राजमण्डलमण्डितः ॥ ११४॥ राज्यदो राज्यहर्ता च रमणीप्राणवल्लभः । राज्यत्यागी राज्यभोगी रसिकोऽथ रघूद्वहः ॥ ११५॥ राजेन्द्रो रधुनायश्च रक्षोहा रावणान्तकः । लक्ष्मीकान्तश्च लक्ष्मीपो लक्ष्मीशो लक्ष्मणाग्रजः ॥ ११६॥ लक्ष्मणत्राणकर्ता च लक्ष्मणप्रीतिपालकः । लीलावतारो लङ्कारिर्लङ्केशो लक्ष्मणेश्वरः ॥ ११७॥ लक्ष्मणत्राणकश्चैव लक्ष्मणप्रतिपालकः । लङ्गेशघातकश्चाथ लङ्गेशप्राणहारकः ॥ ११८॥ लङ्केशवीर्यहर्ता च लाक्षारसविलोचनः । लवङ्गकुसुमासक्तो लवङ्गकुसुमप्रियः ॥ ११९॥ ललनापालनो लक्षो लिङ्गरूपी लसत्तनुः । लावण्यरामो लावण्यं लक्ष्मीनारायणात्मकः ॥ १२०॥ लवणाम्बुधिबन्धश्च लवणाम्बुधिसेतुकृत् । लीलामयो लवणजित् लोलो लवणजित्प्रियः ॥ १२१॥ वसुधापालको विष्णुर्विद्वान् विद्वज्जनप्रियः । वसुधेशो वासुकीशो वरिष्ठो वरवाहनः ॥ १२२॥ वेदो विशिष्टो वक्ता च वदान्यो वरदो विभुः । विधिर्विधाता वासिष्ठो वसिष्ठो वसुपालकः ॥ १२३॥ वसुर्वसुमतीभर्ता वसुमान् वसुदायकः । वार्ताधारी वनस्थश्च वनवासी वनाश्रयः ॥ १२४॥ विश्वभर्ता विश्वपाता विश्वनाथो विभावसुः । विभुर्विभुज्यमानश्च विभक्तो वधबन्धनः ॥ १२५॥ विविक्तो वरदो वन्यो विरक्तो वीरदर्पहा । वीरो वीरगुरुर्वीरदर्पध्वंसी विशाम्पतिः ॥ १२६॥ वानरारिर्वानरात्मा वीरो वानरपालकः । वाहनो वाहनस्थश्च वनाशी विश्वकारकः ॥ १२७॥ वरेण्यो वरदाता च वरदो वरवञ्चकः । वसुदो वासुदेवश्च वसुर्वन्दनमेव च ॥ १२८॥ विद्याधरो वेद्यविन्ध्यो तथा विन्ध्याचलाशनः । विद्याप्रियो विशिष्टात्मा वाद्यभाण्डप्रियस्तथा ॥ १२९॥ वन्द्यश्च वसुदेवश्च वसुप्रियवसुप्रदौ । श्रीदः श्रीशः श्रीनिवासः श्रीपतिः शरणाश्रयः ॥ १३०॥ श्रीधरः श्रीकरः श्रीलः शरण्यः शरणात्मकः । शिवार्जितः शिवप्राणः शिवदः शिवपूजकः ॥ १३१॥ शिवकृत् शिवहर्ता च शिवात्मा शिववाञ्छकः । शायकी शङ्करात्मा च शङ्कःरार्चनतत्परः ॥ १३२॥ शङ्करेशः शिशुः शौरिः शाब्दिकः शब्दरूपकः । शब्दभेदी शब्दहर्ता शायकः शरणार्तिहा ॥ १३३॥ शर्वः शर्वप्रभुः शूली शूलपाणिप्रपूजितः । शार्ङ्गी च शङ्करात्मा च शिवः शकटभञ्जनः ॥ १३४॥ शान्तः शान्तिः शान्तिदाता शान्तिकृत् शान्तिकारकः । शान्तिकः शङ्खधारी च शङ्खी शङ्खध्वनिप्रियः ॥ १३५॥ षट्चक्रभेदनकरः षड्गुणश्च षडूर्मिकः । षडिन्द्रियः षडङ्गात्मा षोडशः षोडशात्मकः ॥ १३६॥ स्फुरत्कुण्डलहाराढ्यः स्फुरन्मरकतच्छविः । सदानन्दः सतीभर्ता सर्वेशः सज्जनप्रियः ॥ १३७॥ सर्वात्मा सर्वकर्ता च सर्वपाता सनातनः । सिद्धः साध्यः साधकेन्द्रः साधकः साधकप्रियः ॥ १३८॥ सिद्धेशः सिद्धिदः साधुः सत्कर्ता वै सदीश्वरः । सद्गतिः सञ्चिदानन्दः सद्ब्रह्मा सकलात्मकः ॥ १३९॥ सतीप्रियः सतीभार्यः स्वाध्यायश्च सतीपतिः । सत्कविः सकलत्राता सर्वपापप्रमोचकः ॥ १४०॥ सर्वशास्त्रमयः सूर्यः सर्वाम्नायनमस्कृतः । सर्वदेवमयः साक्षी सर्वयज्ञस्वरूपकः ॥ १४१॥ सर्वः सङ्कटहर्ता च साहसी सगुणात्मकः । सुस्निग्धः सुखदाता च सत्त्वः सत्त्वगुणाश्रयः ॥ १४२॥ सत्यः सत्यव्रतश्चैव सत्यवान् सत्यपालकः । सत्यात्मा सुभगश्चैव सौभाग्यं सगरान्वयः ॥ १४३॥ सीतापतिः ससीतश्च सात्वतः सात्वताम्पतिः । हरिर्हली हलश्चैव हर-कोदण्ड-खण्डनः ॥ १४४॥ हुङ्कारध्वनिपूरश्च हुङ्कारध्वनिसम्भवः । हर्ता हरो हरात्मा च हारभूषणभूषितः ॥ १४५॥ हरकार्मुकभङ्क्ता च हरपूजापरायणः । क्षोणीशः क्षितिभुग् क्षोणीनेता चैव क्षमापरः ॥ १४६॥ क्षमाशीलः क्षमायुक्तः क्षोदी क्षोदविमोचनः । क्षेमङ्करस्तथा क्षेमदायको ज्ञानदायकः ॥ १४७॥ फलश्रुतिः - नाम्नामेतत्सहस्रं तु श्रीरामस्य जगत्प्रभोः । रुद्रयामलतन्त्रेऽस्मिन् भुक्तिमुक्तिप्रदायकम् ॥ १४८॥ श्रीगौर्यै श्रावितं स्तोत्रं भक्त्या श्रीशस्मृना स्वयम् । रामसायुज्यलक्ष्मीकं सर्वसौख्यकरं नृणाम् ॥ पठन् श‍ृण्वन् गृणन् वापि ब्रह्मभूयाय कल्पते ॥ १४९॥ श्रीरामनाम्ना परमं सहस्रकं पापापहं पुण्यसुखावहं शुभम् । भक्तिप्रदं भक्तजनैकपालकं स्त्रीपुत्रपौत्रप्रदमिष्चदायकम् ॥ १५०॥ ॥ इति श्रीरामसहस्रनामस्तोत्रं सम्पूर्णम् ॥ ॥ ॐ तत्सत् श्रीसीतारामचन्द्रार्पणमस्तु ॥