अक्षर आकार:

श्रीरामसहस्रनामावलिः २

shrIrAmasahasranAmAvaliH 2

श्रीरामसहस्रनामावलिः २

ॐ आर्यश्रेष्ठाय नमः । धरापालाय । साकेतपुरपालकाय । एकबाणाय । धर्मवेत्त्रे । सत्यसन्धाय । अपराजिताय । इक्ष्वाकुकुलसम्भूताय । रघुनाथाय । सदाश्रयाय । अघध्वंसिने । महापुण्याय । मनस्विने । मोहनाशनाय । अप्रमेयाय । महाभागाय । सीतासौन्दर्यवर्धनाय । अहल्योद्धारकाय । शास्त्रे । कुलदीपाय नमः ॥ २० ॐ प्रभाकराय नमः । आपद्विनाशिने । गुह्यज्ञाय । सीताविरहव्याकुलाय । अन्तर्ज्ञानिने । महाज्ञानिने । शुद्धसंज्ञाय । अनुजप्रियाय । असाध्यसाधकाय । भीमाय । मितभाषिणे । विदांवराय । अवतीर्णाय । समुत्ताराय । दशस्यन्दनमानदाय । आत्मारामाय । विमानार्हाय । हर्षामर्षसुसङ्गताय । अभिगम्याय । विशालात्मने नमः ॥ ४० ॐ विरामाय नमः । चिन्तनात्मकाय । अद्वितीयाय । महायोगिने । साधुचेतसे । प्रसादनाय । उग्रश्रिये । अन्तकाय । तेजसे । तारणाय । भूरिसङ्ग्रहाय । एकदाराय । सत्त्वनिधये । सन्निधये । स्मृतिरूपवते । उत्तमालङ्कृताय । कर्त्रे । उपमारहिताय । कृतिने । आजानुबाहवे नमः ॥ ६० ॐ अक्षुब्धाय नमः । क्षुब्धसागरदर्पघ्ने । आदित्युकलसन्तानाय । वंशोचितपराक्रमाय । सतामनुकूलाय । भावबद्धकरैः सद्भिः स्तुताय । उपदेष्ट्रे । नृपोत्कृष्टाय । भूजामात्रे । खगप्रियाय । ओजोराशये । निधये । साक्षात्क्षणदृष्टात्मचेतनाय । उमापरीक्षिताय । मूकाय । सन्धिज्ञाय । रावणान्तकाय । अलैकिकाय । लोकपालाय । त्रैलोक्यव्याप्तवैभवाय नमः ॥ ८० ॐ अनुजाश्वासिताय नमः । शिष्टाय । चापधारिषु वरिष्ठाय । उद्यमिने । बुद्धिमते । गुप्ताय । युयुत्सवे । सर्वदर्शनाय । ऐक्ष्वाकाय । लक्ष्मणप्राणाय । लक्ष्मीवते । भार्गवप्रियाय । इष्टदाय । सत्यदिदृक्षवे । दिग्जयिने । दक्षिणायनाय । अनन्यवृत्तये । उद्योगिने । चन्द्रशेखरशान्तिदाय । अनुजार्थसमुत्कण्ठाय नमः ॥ १०० ॐ सुरत्राणाय नमः । सुराकृतये । अश्वमेधिने । यशोवृद्धाय । तरुणाय । तारणेक्षणाय । अप्राकृताय । प्रतिज्ञात्रे । वरप्राप्ताय । वरप्रदाय । अभूतपूर्वाय । अद्भुतध्येयाय । रुद्रप्रेमिणे । सुशीतलाय । अन्तःस्पृशे । धनुःस्पृशे । भरतापृष्टकौशलाय । आत्मसंस्थाय । मनःसंस्थाय । सत्त्वसस्थाय नमः ॥ १२० ॐ रणस्थिताय नमः । ईर्ष्याहीनाय । महाशक्तये । सूर्यवंशिने । जनस्तुताय । आसनस्थाय । बान्धवस्थाय । श्रद्धास्थानाय । गुणस्थिताय । इन्द्रमित्राय । अशुभहराय । मायाविमृगघातकाय । अमोघेषवे । स्वभावज्ञाय । नामोच्चारणसंस्मृताय । अरण्यरुदनाक्रान्ताय । बाष्पसङ्गुललोचनाय । अमोघाशीर्वचसे । अमन्दाय । विद्वद्वन्द्याय नमः ॥ १४० ॐ वनेचराय नमः । इन्द्रादिदेवतातोषाय । संयमिने । व्रतधारकाय । अन्तर्यामिणे । विनष्टारये । दम्भहीनाय । रविद्युतये । काकुत्स्थाय । गिरिगम्भीराय । ताटकाप्राणकर्षणाय । कन्दमूलान्नसन्तुष्टाय । दण्डकारण्यशोधनाय । कर्तव्यदक्षाय । स्नेहार्द्राय । स्नेहकृते । कामसुन्दराय । कैकयीलीनप्रवृत्तये । निवृत्तये । नामकीर्तिताय नमः ॥ १६० ॐ कबन्धघ्नाय नमः । भयत्राणाय । भरद्वाजकृतादराय । करुणाय । पुरुषश्रेष्ठाय । पुरुषाय । परमार्थविदे । केवलाय । सुतसङ्गीताकर्षिताय । ऋषिसङ्गताय । काव्यात्मने । नयविदे । मान्याय । मुक्तात्मने । गुरुविक्रमाय । क्रमज्ञाय । कर्मशास्त्रज्ञाय । सम्बन्धज्ञाय । सुलक्षणाय । किष्किन्धेशहिताकाङ्क्षिणे नमः ॥ १८० ॐ लघुवाक्यविशारदाय नमः । कपिश्रेष्ठसमायुक्ताय । प्राचीनाय । वल्कलावृताय । काकप्रेरितब्रह्मास्त्राय । सप्ततालविभञ्जनाय । कपटज्ञाय । कपिप्रीताय । कविस्फूर्तिप्रदायकाय । किंवदन्तीद्विधावृत्तये । निधाराद्रये । विधिप्रियाय । कालमित्राय । कालकर्त्रे । कालदिग्दर्शितान्तविदे । क्रान्तदर्शिने । विनिष्क्रान्ताय । नीतिशास्त्रपुरःसराय । कुण्डलालङ्कृतश्रोत्राय । भ्रान्तिघ्ने नमः ॥ २०० ॐ भ्रमनाशकाय नमः । कमलायताक्षाय । नीरोगाय । सुबद्धाङ्गाय । मृदुस्वनाय । क्रव्यादघ्नाय । वदान्यात्मने । संशयापन्नमानसाय । कौसल्पाक्रोडविश्रामाय । काकपक्षधराय । शुभाय । खलक्षयाय । अखिलश्रेष्ठाय । पृथुख्यातिपुरस्कृताय । गुहकप्रेमभाजे । देवाय । मानवेशाय । महीधराय । गूढात्मने । जगदाधाराय नमः ॥ २२० ॐ कलत्रविरहातुराय नमः । गूढाचाराय । नरव्याघ्राय । बुधाय । बुद्धिप्रचोदनाय । गुणभृते । गुणसङ्घाताय । समाजोन्नतिकारणाय । गृध्रहृद्गतसङ्कल्पाय । नलनीलाङ्गदप्रियाय । गृहस्थाय विपिनस्थायिने । मार्गस्थाय । मुनिसङ्गताय । गूढजत्रवे । वृषस्कन्धाय । महोदाराय । शमास्पदाय । चारवृत्तान्तसन्दिष्टाय । दुरवस्थासहाय नमः ॥ २४० ॐ सख्ये नमः । चतुर्दशसहस्रघ्नाय । नानासुरनिषुदनाय । चैत्रेयाय । चित्रचरिताय । चमत्कारक्षमाय । अलघवे । चतुराय । बान्धवाय । भर्त्रे । गुरवे । आत्मप्रबोधनाय । जानकीकान्ताय । आनन्दाय । वात्सल्यबहुलाय । पित्रे । जटायुसेविताय । सौम्याय । मुक्तिधासे । परन्तपाय नमः ॥ २६० ॐ जनसङ्ग्रहकृते नमः । सूक्ष्माय । चरणाश्रितकोमलाय । जनकानन्दसङ्कल्पाय । सीतापरिणयोत्सुकाय । तपस्विने । दण्डनाधाराय । देवासुरविलक्षणाय । त्रिबन्धवे । विजयाकाङ्क्षिणे । प्रतिज्ञापारगाय । महते । त्वरिताय । द्वेषहीनेच्छाय । स्वस्थाय । स्वागततत्पराय । जननीजनसौजन्याय । परिवाराग्रण्ये । गुरवे । तत्त्वविदे नमः ॥ २८० ॐ तत्त्वसन्देष्ट्रे नमः । तत्त्वाचारिणे । विचारवते । तीक्ष्णबाणाय । चापपाणये । सीतापाणिग्रहिणे । यूने । तीक्ष्णाशुगाय । सरित्तीर्णाय । लङ्धितोच्चमहीधराय । देवतासङ्गताय । असङ्गाय । रमणीयाय । दयामयाय । दिव्याय । देदीप्यमानाभाय । दारुणारिनिषूदनाय । दुर्धर्षाय । दक्षिणाय । दक्षाय नमः ॥ ३०० ॐ दीक्षिताय नमः । अमोघवीर्यवते । दात्रे । दूरगताख्यातये । नियन्त्रे । लोकसंश्रयाय । दुष्कीर्तिशङ्किताय । वीराय । निष्पापाय । दिव्यदर्शनाय । देहधारिणे । ब्रह्मवेत्त्रे । विजिगीषवे । गुणाकराय । दैत्यघातिने । बाणपाणये । ब्रह्मास्त्राढ्याय । गुणान्विताय । दिव्याभरणलिप्ताङ्गाय । दिव्यमाल्यसुपूजिताय नमः ॥ ३२० ॐ दैवज्ञाय नमः । देवताऽऽराध्याय । देवकार्यसमुत्सुकाय । दृढप्रतिज्ञाय । दीर्घायुषे । दुष्टदण्डनपण्डिताय । दण्डकारण्यसञ्चारिणे । चतुर्दिग्विजयिने । जयाय । दिव्यजन्मने । इन्द्रियेशाय । स्वल्पसन्तुष्टमानसाय । देवसम्पूजिताय । रम्याय । दीनदुर्बलरक्षकाय । दशास्यहननाय । अदूराय । स्थाणुसदृशनिश्चयाय । दोषघ्ने । सेवकारामाय नमः ॥ ३४० ॐ सीतासन्तापनाशनाय नमः । दूषणघ्नाय । खरध्वंसिने । समग्रनृपनायकाय । दुर्धराय । दुर्लभाय । दीप्ताय । दुर्दिनाहतवैभवाय । दीननाथाय । दिव्यरथाय । सज्जनात्ममनोरथाय । दिलीपकुलसन्दीपाय । रघुवंशसुशोभनाय । दीर्घबाहवे । दूरदर्शिने । विचाराय । विधिपण्डिताय । धनुर्धराय । धनिने । दान्ताय नमः ॥ ३६० ॐ तापसाय नमः । नियतात्मवते । धर्मसेतवे । धर्ममार्गाय । सेतुबन्धनसाधनाय । धर्मोद्धाराय । मनोरूपाय । मनोहारिणे । महाधनाय । ध्यातृध्येयात्मकाय । मध्याय । मोहलोभप्रतिक्रियाय । धाममुचे । पुरमुचे । वक्त्रे । देशत्यागिने । मुनिव्रतिने । ध्यानशक्तये । ध्यानमूर्तये । ध्यातृरूपाय नमः ॥ ३८० ॐ विधायकाय नमः । धर्माभिप्रायविज्ञानिने । दृढाय । दुः स्वप्रनाशनाय । धरन्धराय । धराभर्त्रे । प्रशस्ताय । पुण्यबान्धवाय । नीलाभाय । निश्चलाय । राज्ञे । कौसल्येयाय । रघूत्तमाय । नीलनीरजसङ्काशाय । कर्कशाय । विषकर्षणाय । निरन्तराय । समाराध्याय । सेनाध्यक्षाय । सनातनाय नमः ॥ ४०० ॐ निशाचरभयावर्ताय नमः । वर्तमानाय । त्रिकालविदे । नीतिज्ञाय । राजनीतिज्ञाय । धर्मनीतिज्ञाय । आत्मवते । नायकाय । सायकोत्सारिणे । विपक्षासुविकर्षणाय । नौकागामिने । कुशेशायिने । तपोधाम्ने । आर्तरक्षणाय ।(तपोधामार्तरक्षणाय)। निःस्पृहाय । स्पृहणीयश्रिये । निजानन्दाय । वितन्द्रिताय । नित्योपायाय । वनोपेताय नमः ॥ ४२० ॐ गुहकाय नमः । श्रेयसान्निधये । निष्ठावते । निपुणाय । धुर्याय । धृतिमते । उत्तमस्वराय । नानाऋषिमखाहूताय । यजमानाय । यशस्कराय । मैथिलीदूषितार्तान्तःकरणाय । विबुधप्रियाय । नित्यानित्यविवेकिने । सत्कार्यसज्जाय । सदुक्तिमते । पुरुषार्थदर्शकाय । वाग्मिने । हनुमत्सेविताय । प्रभवे । प्रौढप्रभावाय नमः ॥ ४४० ॐ भावज्ञाय नमः । भक्ताधीनाय । ऋषिप्रियाय । पावनाय । राजकार्यज्ञाय । वसिष्ठानन्दकारणाय । पर्णगेहिने । विगूढात्मने । कूटज्ञाय । कमलेक्षणाय । प्रियार्हाय । प्रियसङ्कल्पाय । प्रियामोदन- पण्डिताय । परदुःखार्तचेतसे । दुर्व्यसनेऽचलनिश्चयाय । प्रमाणाय । प्रेमसंवेद्याय । मुनिमानसचिन्तनाय । प्रीतिमते । ऋतवते नमः ॥ ४६० ॐ विदुषे नमः । कीर्तिमते । युगधारणाय । प्रेरकाय । चन्द्रवच्चारवे । जागृताय । सज्जकार्मुकाय । पूज्याय । पवित्राय । सर्वात्मने । पूजनीयाय । प्रियंवदाय । प्राप्याय । प्राप्ताय । अनवद्याय । स्वर्निलयाय । नीलविग्रहिणे । परतत्त्वार्थसन्मूर्तये । सत्कृताय । कृतविदे नमः ॥ ४८० ॐ वराय नमः । प्रसन्नाय । प्रयताय । प्रीताय । प्रियप्रायाय । प्रतीक्षिताय । पापघ्ने । शक्रदत्तास्त्राय । शक्रदत्तरथस्थिताय । प्रातर्ध्येयाय । सदाभद्राय । भयभञ्जनकोविदाय । पुण्यस्मरणाय । सन्नद्धाय । पुण्यपुष्टिपरायणाय । पुत्रयुग्मपरिस्पृष्टाय । विश्वासाय । शान्तिवर्धनाय । परिचर्यापरामर्शिने । भूमिजापतये नमः ॥ ५०० ॐ ईश्वराय नमः । पादुकादाय । अनुजप्रेमिणे । ऋजुनाम्ने । अभयप्रदाय । पुत्रधर्मविशेषज्ञाय । समर्थाय । सङ्गरप्रियाय । पुष्पवर्षावशुभ्राङ्गाय । जयवते । अमरस्तुताय । पुण्यश्लोकाय । प्रशान्तार्चिषे । चन्दनाङ्गविलेपनाय । पौरानुरञ्जनाय । शुद्धाय । सुग्रीवकृतसङ्गतये । पार्थिवाय । स्वार्थसन्न्यासिने । सुवृत्ताय नमः ॥ ५२० ॐ परचित्तविदे नमः । पुष्पकारूढवैदेहीसंलापस्नेहवर्धनाय । पितृमोदकराय । अरूक्षाय । नष्टराक्षसवल्गनाय । प्रावृण्मेघ- समोदाराय । शिशिराय । शत्रुकालनाय । पौरानुगमनाय । अवध्याय । वैरिविध्वंसनव्रतिने । पिनाकिमानसाह्लादाय । वालुकालिङ्गपूजकाय । पुरस्थाय । विजनस्थायिने । हृदयस्थाय । गिरिस्थिताय । पुण्यस्पर्शाय । सुखस्पर्शाय । पदसंसृष्टप्रस्तराय नमः ॥ ५४० ॐ प्रतिपन्नसमग्रश्रिये नमः । सत्प्रपन्नाय । प्रतापवते । प्रणिपातप्रसन्नान्मने । चन्दनाद्भुतशीतलाय । पुण्यनामस्मृताय । नित्याय । मनुजाय । दिव्यतां गताय । बन्धच्छेदिने । वनच्छन्दाय । स्वच्छन्दाय । छादनाय । धुवाय । बन्धुत्रयसमायुक्ताय । हृन्नि- धानाय । मनोमयाय । विभीषणशरण्याय । श्रीयुक्ताय । श्रीवर्धनाय नमः ॥ ५६० ॐ पराय नमः । बन्धुनिक्षिप्तराज्यस्वाय । सीतामोचनधोरण्ये । भव्यभालाय । समुन्नासाय । किरीताङ्कितमस्तकाय । भवाब्धितरणाय । बोधाय । धनमानविलक्षणाय । भूरिभृते । भव्यसङ्कल्पाय । भूतेशात्मने । विबोधनाय । भक्तचातकमेघार्द्राय । मेधाविने । वर्धितश्रुतये । भयनिष्कासनाय । अजेयाय । निर्जराशाप्रपूरकाय । भवसाराय नमः ॥ ५८० ॐ भावसाराय नमः । भक्तसर्वस्वरक्षकाय । भार्गवौजसे । समुत्कर्षाय । रावणस्वसृमोहनाय । भरतन्यस्तराज्यश्रिये । जानकीसुखसागराय । मिथिलेश्वरजामात्रे । जानकीहृदयेश्वराय । मातृभत्त्गाय । अनन्तश्रिये । पितृसन्दिष्टकर्मकृते । मर्यादापुरुषाय । शान्ताय । श्यामाय । नीरजलोचनाय । मेघवर्णाय । विशालाक्षाय । शरवर्षावभीषणाय । मन्त्रविदे नमः ॥ ६०० ॐ गाधिजादिष्टाय नमः । गौतमाश्रमपावनाय । मधुराय । अमन्दगाय । सत्त्वाय । सात्त्विकाय । मूदुलाय । बलिने । मन्दस्मितमुखाय । अलुब्धाय । विश्रामाय । सुमनोहराय । मानवेन्द्राय । सभासज्जाय । घनगम्भीरगर्जनाय । मैथिलीमोहनाय । मानिने । गर्वघ्नाय । पुण्यपोषणाय । मधुजाय नमः ॥ ६२० ओमधुराकाराय नमः । मधुवाचे । मधुराननाय । महाकर्मणे । विराधघ्नाय । विघ्नशान्तये । अरिन्दमाय । मर्मस्पर्शिर्शने । नवोन्मेषाय । क्षत्रियाय । पुरुषोत्तमाय । मारीचवञ्चिताय । भार्याप्रियकृते । प्रणयोत्कटाय । महात्यागिने । रथारूढाय । पदगामिने । बहुश्रुताय । महावेगाय । महावीर्याय नमः ॥ ६४० ॐ वीराय नमः । मातलिसारथये । मखत्रात्रे । सदाचारिणे । हरकार्मुकभञ्जनाय । महाप्रयासाय । प्रामाण्यग्राहिणे । सर्वस्वदायकाय । मुनिविघ्नान्तकाय । शस्त्रिणे । शापसम्भ्रान्तलोचनाय । मलहारिणे । कलाविज्ञाय । मनोज्ञाय । परमार्थविदे । मिताहारिणे । सहिष्णवे । भूपालकाय । परवीरघ्ने । मातृस्रेहिने नमः ॥ ६६० ॐ सुतस्नेहिने नमः । स्निग्धाङ्गाय । स्निग्धदर्शनाय । मातृपितृपदस्पर्शिने । अश्मस्पर्शिने । मनोगताय । मृदुस्पर्शाय । इषुस्पर्शिने । सीतासम्मितविग्रहाय । मातृप्रमोदनाय । जप्याय । वनप्रस्थाय । प्रगल्भधिये । यज्ञसंरक्षणाय । साक्षिणे । आधाराय । वेदविदे । नृपाय । योजनाचतुराय । स्वामिने नमः ॥ ६८० ॐ दीर्घान्वेषिणे नमः । सुबाहुघ्ने । युगेन्द्राय । भारतादर्शाय । सूक्ष्मदर्शिने । ऋजुस्वनाय । यदृच्छालाभलघ्वाशिने । मन्त्ररश्मिप्रभाकराय । यज्ञाहूतनृपवृन्दाय । ऋक्षवानरसेविताय । यज्ञदत्ताय । यज्ञकर्त्रे । यज्ञवेत्त्रे । यशोमयाय । यतेन्द्रियाय । यतिने । युक्ताय । राजयोगिने । हरप्रियाय । राघवाय नमः ॥ ७०० ॐ रविवंशाढयाय नमः । रामचन्द्राय । अरिमर्दनाय । रुचिराय । चिरसन्धेयाय । सङ्घर्षज्ञाय । नरेश्वराय । रुचिरस्मितशोभाढ्याय । दृढोरस्काय । महाभुजाय । राज्यहीनाय । पुरत्यागिने । बाष्पसङ्कुललोचनाय । ऋषिसम्मानिताय । सीमापारीणाय । राजसत्तमाय । रामाय । दाशरथये । श्रेयसे । भुवि परमात्मसमाय नमः ॥ ७२० ॐ लङ्केशक्षोभणाय नमः । धन्याय । चेतोहारिणे । स्वयन्धनाय । लावण्यखनये । आख्याताय । प्रमुखाय । क्षत्ररक्षणाय । लङ्कापतिभयोद्रेकाय । सुपुत्राय । विमलान्तराय । विवेकिने । कोमलाय । कान्ताय । क्षमावते । दुरितान्तकाय । वनवासिने । सुखत्यागिने । सुखकृते । सुन्दराय नमः ॥ ७४० ॐ वशिने नमः । विरागिणे । गौरवाय । धीराय । शूराय । राक्षसघातकाय । वर्धिष्णवे । विजयिने । प्राज्ञाय । रहस्यज्ञाय । विमर्शविदे । वाल्मीकिप्रतिभास्रोतसे । साधुकर्मणे । सतां गतये । विनयिने । न्यायविज्ञात्रे । प्रजारञ्जनधर्मविदे । विमलाय । मतिमते । नेत्रे नमः ॥ ७६० ॐ नेत्रानन्दप्रदायकाय नमः । विनीताय । वृद्धसौजन्याय । वृक्षभिदे । चेतसा ऋजवे । वत्सलाय । मित्रहृन्मोदाय । सुग्रीवहितकृते । विभवे । वालिनिर्दलनाय । असह्याय । ऋक्षसाह्याय । महामतये । वृक्षालिङ्गनलीलाविदे । मुनिमोक्षपटवे । सुधिये । वरेण्याय । परमोदाराय । निग्रहिणे । चिरविग्रहिणे नमः ॥ ७८० ॐ वासवोपमसामर्थ्याय । ज्यासङ्घातोग्रनिःस्वनाय । विश्वामित्रपरामृष्टाय । पूर्णाय । बलसमायुताय । वैदेहीप्राणसन्तोषाय । शरणागतवत्सलाय । विनम्राय । स्वाभिमानार्हाय । पर्णशालासमाश्रिताय । वृत्तगण्डाय । शुभदन्तिने । समभ्रूद्वय- शोभिताय । विकसत्पङ्कजाभास्याय । प्रेमदृष्टये । सुलोचनाय । वैष्णवाय । नरशार्दूलाय । भगवते । भक्तरक्षणाय नमः ॥ ८०० ॐ वसिष्ठप्रियशिष्याय नमः । चित्स्वरूपाय । चेतनात्मकाय । विविधापत्पराक्रान्ताय । वानरोत्कर्षकारणाय । वीतरागिणे । शर्मदायिने । मुनिमन्तव्यसाधनाय । विरहिणे । हरसङ्कल्पाय । हर्षोत्फुल्लवराननाय । वृत्तिज्ञाय । व्यवहारज्ञाय । क्षेमकारिणे । पृथुप्रभाय । विप्रप्रेमिणे । वनक्रान्ताय । फलभुजे । फलदायकाय । विपन्मित्राय नमः ॥ ८२० ॐ महामन्त्राय नमः । शक्तियुक्ताय । जटाधराय । व्यायामव्यायताकाराय । विदां विश्रामसम्भवाय । वन्यमानव- कल्याणाय । कुलाचारविचक्षणाय । विपक्षोरःप्रहारज्ञाय । चापधारिबहूकृताय । विपल्लङ्घिने । घनश्यामाय । घोरकृद्राक्षसासहाय । वामाङ्काश्रयिणीसीतामुखदर्शनतत्पराय । विविधाश्रमसम्पूज्याय । शरभङ्गकृतादराय । विष्णुचापधराय । क्षत्राय । धनुर्धरशिरोमणये । वनगामिने । पदत्यागिने नमः ॥ ८४० ॐ पादचारिणे नमः । व्रतस्थिताय । विजिताशाय । महावीराय । दाक्षिण्यनवनिर्झराय । विष्णुतेजोंऽशसम्भूताय । सत्यप्रेमिणे । दृढव्रताय । वानरारामदाय । नम्राय । मृदुभाषिणे । महामनसे । शत्रुघ्ने । विघ्नहन्त्रे । सल्लोकसम्मानतत्पराय । शत्रुघ्नाग्रजनये । श्रीमते । सागरादरपूजकाय । शोककर्त्रे । शोकहर्त्रे नमः ॥ ८६० ॐ शीलवते नमः । हृदयङ्गमाय । शुभकृते । शुभसङ्कल्पाय । कृतान्ताय । दृढसङ्गराय । शोकहन्त्रे । विशेषार्हाय । शेषसङ्गतजीवनाय । शत्रुजिते । सर्वकल्याणाय । मोहजिते । सर्वमङ्गलाय । शम्बूकवधवकाय । अभीष्टदाय । युगधर्माग्रहिणे । यमाय । शक्तिमते रणमेधाविने । श्रेष्ठाय नमः ॥ ८८० ॐ सामर्थ्यसंयुताय नमः । शिवस्वाय । शिवचैतन्याय । शिवात्मने । शिवबोधनाय । शबरीभावनामुग्धाय । सर्वमार्दवसुन्दराय । शमिने । दमिने । समासीनाय । कर्मयोगिने । सुसाधकाय । शाकभुजे । क्षेपणास्त्रज्ञाय । न्यायरूपाय । नृणां वराय । शून्याश्रमाय । शून्यमनसे । लतापादपपृच्छकाय । शापोक्तिरहितोद्गाराय नमः ॥ ९०० ॐ निर्मलाय नमः । नामपावनाय । शुद्धान्तःकरणाय । प्रेष्ठाय । निष्कलङ्काय । अविकम्पनाय । श्रेयस्कराय । पृथुस्कन्धाया बन्धनासये । सुरार्चिताय । श्रद्धेयाय । शीलसम्पन्नाय । सुजनाय । सज्जनान्तिकाय । श्रमिकाय । श्रान्तवैदेहीविश्रामाय । श्रुतिपारगाय । श्रद्धालवे । नीतिसिद्धान्तिने । सभ्याय नमः ॥ ९२० ॐ सामान्यवत्सलाय नमः । सुमित्रासुतसेवार्थिने । भरतादिष्टवैभवाय । साध्याय । स्वाध्यायविज्ञेयाय । शब्दपालाय । परात्पराय । सञ्जीवनाय । जीवसख्ये । धनुर्विद्याविशारदाय । यमबुद्धये । महातेजसे । अनासक्ताय । प्रियावहाय । सिद्धाय । सर्वाङ्गसम्पूर्णाय । कारुण्यार्द्रपयोनिधये । सुशीलाय । शिवचित्त- ज्ञाय । शिवध्येयाय नमः ॥ ९४० ॐ शिवास्पदाय नमः । समदर्शिने । धनुर्भङ्गिने । संशयोच्छेदनाय । शुचये । सत्यवादिने । कार्यवाहाय । चैतन्याय । सुसमाहिताय । सन्मित्राय । वायुपुत्रेशाय । विभीषणकृतानतये । सगुणाय । सर्वथाऽऽरामाय । निर्द्वन्द्वाय । सत्यमास्थिताय । सामकृते । दण्डविदे । दण्डिने । कोदण्डिने नमः ॥ ९६० ॐ चण्डविक्रमाय नमः । साधुक्षेमाय । रणावेशिने । रणकर्त्रे । दयार्णवाय । सत्त्वमूर्तये । परस्मै ज्योतिषे । ज्येष्ठपुत्राय । निरामयाय । स्वकीयाभ्यन्तराविष्टाय । अविकारिणे । नभःसदृशाय । सरलाय । सारसर्वस्वाय । सतां सङ्कल्पसौरभाय । सुरसङ्घसमुद्धर्त्रे । चक्रवर्तिने । महीपतये । सुज्ञाय । स्वभावविज्ञानिने नमः ॥ ९८० ॐ तितिक्षवे नमः । शत्रुतापनाय । समाधिस्थाय । शस्त्रसज्जाय । पित्राज्ञापालनप्रियाय । समकर्णाय । सुवाक्यज्ञाय । गन्धरेखितभालकाय । स्कन्धस्थापिततूणीराय । धनुर्धारणधोरण्ये । सर्वसिद्धिसमावेशाय । वीरवेषाय । रिपुक्षयाय । सङ्कल्पसाधकाय । अक्लिष्टाय । घोरासुरविमर्दनाय । समुद्रपारगाय । जेत्रे । जितक्रोधाय । जनप्रियाय नमः ॥ १००० ॐ संस्कृताय नमः । सुषमाय । श्यामाय । समुत्क्रान्ताय । सदाशुचये । सद्धभप्रेरकाय । धर्माय । धर्मसंरक्षणोत्सुकाय नमः ॥ १००८ इति श्रीरामसहस्रनामावलिः २ सम्पाता ।