अक्षर आकार:

श्रीरामसहस्रनामाक्षरपुष्पावलिः

Shri Ramasahasranama akSharapuShpAvaliH

श्रीरामसहस्रनामाक्षरपुष्पावलिः

ॐ श्रीरामजयम् ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । नमः श्रीत्यागराजाय मदाचार्यवराय च । श्रीसीतारामभक्ताय गुरुदेवाय ते नमः ॥ ॐ सीतावराय विद्महे । त्यागगेयाय धीमहि । तन्नो रामः प्रचोदयात् ॥ अथ श्रीरामसहस्रनामाक्षरपुष्पावलिः । अनन्यरामभक्ताय अक्षरावलिशक्तये । अनन्यगुरुदेवाय अक्षराय नमो नमः ॥ १॥ आनन्दनादरूपाय आत्मप्रकाशदीपिने । आदिदेवप्रगेयाय आचार्याय नमो नमः ॥ २॥ श्रीसीतारामगेयाय पुष्पावलिप्रचोदिने । श्रीत्यागब्रह्मसन्नाम्ने सद्गुरुस्वामिने नमः ॥ ३॥ अम्बासीतामहालक्ष्म्यै अक्षरारम्भहूतये । अतिमङ्गलधात्र्यै च अतिभायै नमो नमः ॥ ४॥ अक्षरावलिपूज्याय क्षरान्तस्थाक्षरात्मने । अक्षरावलिवासाय श्रीरामाय नमो नमः ॥ ५॥ अद्वैततत्त्वसाराय अक्षराजान्तरात्मने । अचिन्त्यचिन्त्यरूपाय सीतारामाय ते नमः ॥ ६॥ अयोध्यानृपपुत्राय अवनीजासुजानये । असमानप्रभावाय अभिरामाय ते नमः ॥ ७॥ आनन्दकन्दमूलाय आद्यन्तरहितार्चिषे । आशराभावभावाय आत्मारामाय ते नमः ॥ ८॥ इलाधिपाय इष्टाय इन्दुद्युमणिचक्षुषे । इनवंशाब्धिचन्द्राय इक्ष्वाकुभातवे नमः ॥ ९॥ ईयसत्त्वप्रकाशाय ईरणात्मजवन्दिने । ईशसन्नूतसन्नाम्ने ईश्वराय नमो नमः ॥ १०॥ उत्तमश्लोकपूज्याय उत्तमासक्तिदायिने । उत्तमोत्तमगुण्याय उत्तमाय नमो नमः ॥ ११॥ ऊषप्रशान्तिगेयाय ऊषकध्यातृसेविने । ऊषकस्तुतगीताय ऊषारामाय ते नमः ॥ १२॥ ऋषिपूजितपादाय ऋषिसन्नुतकीर्तये । ऋषिमानसवासाय ऋतधाम्ने नमो नमः ॥ १३॥ एकब्रह्मस्वरूपाय एकवाक्यार्थकाय च । एकान्तस्वानुभूताय एकाक्षराय ते नमः ॥ १४॥ ऐकाग्र्यभक्तिगीताय ऐकान्तिकसुखाय च । ऐकात्म्यैकार्थदात्रे च ऐकान्तिकाय ते नमः ॥ १५॥ ओंकारव्यक्तरूपाय ओंकारनादशक्तये । ओंकारगुप्तसत्त्वाय ओंकारब्रह्मणे नमः ॥ १६॥ औजस्यनामसाराय औज्ज्वल्यसत्यतेजसे । औषधीयसुनामप्रभावरामाय ते नमः ॥ १७॥ कल्याणगुणसान्द्राय कल्याणकीर्तिदायिने । कल्याणरामचन्द्राय कल्याणीपतये नमः ॥ १८॥ कारुण्यपूर्णवीक्षाय कामादिरिपुदारिणे । कामितार्थप्रदात्रे च कालातीताय ते नमः ॥ १९॥ किरणावलिमालाय कीशसन्नुततेजसे । कीर्तनौघनिमग्नाय कीर्तिताय नमो नमः ॥ २०॥ कुन्दकुड्मलदन्ताय कुटिलालकशोभिने । कुण्डलीशसुशय्याय कुलदैवाय ते नमः ॥ २१॥ कूर्ममत्स्यावताराय कूवारशयनाय च । कूटशस्तोत्रमालाय कूटस्थाय नमो नमः ॥ २२॥ कृष्णावतारलीलाय कृपणोद्धारणाय च । कृताञ्जलिप्रसादाय कृपालवे नमो नमः ॥ २३॥ केदारनाथनूताय केवलज्ञानदायिने । केदारसन्निवासाय केशवाय नमो नमः ॥ २४॥ कैकेयीसुतपूज्याय कैटभारिसुकीर्तये । कैलासनाथमोदाय कैवल्यदायिने नमः ॥ २५॥ कोटिशाजप्तनाम्ने च कोपतापप्रणाशिने । कोटिसूर्यप्रभासाय कोदण्डपाणये नमः ॥ २६॥ कौशल्याप्रियपुत्राय कौशिकाहवरक्षिणे । कौशेयपीतवासाय कौस्तुभाङ्काय ते नमः । २७॥ क्रमकाक्षरगीताय क्रान्तदर्शिप्रसादिने । क्रियायोगोपदेशाय क्रीडाविनोदिने नमः ॥ २८॥ क्रूरराक्षसहाराय क्रोधमोहविदारिणे । क्रोडीकृताञ्जनेयाय क्लेशापहाय ते नमः ॥ २९॥ क्वणद्वीणास्वरस्थाय क्षणक्षणस्मृताय च । क्षमस्तोतृमनःस्थाय क्षान्तिमते नमो नमः ॥ ३०॥ क्षितिजावरनाथाय क्षीरसागरशायिने । क्षुब्धमानसशाम्याय क्षेमंकराय ते नमः ॥ ३१॥ क्षेत्रज्ञायातिदैवाय क्षैत्रज्ञक्षिप्रदाय च । क्षौमसंमृदुवाचाय क्ष्मापुत्रीपतये नमः ॥ ३२॥ खगराजतुरङ्गाय खरदूषणहारिणे । खाण्डवस्वादुभाषाय ख्यातिदात्रे नमो नमः ॥ ३३॥ गङ्गाप्रभावपादाय गजेन्द्रमोक्षकारिणे । गम्भीरद्युतिशोभाय गरिष्ठाय नमो नमः ॥ ३४॥ गान्धर्वगानपूज्याय गानमाधुर्यवासिने । गानलोलाय गेयाय गायत्रीगीतये नमः ॥ ३५॥ गिरीशप्रियसन्नाम्ने गिरामाधुर्यभाषिणे । गीर्वाणमुनिवन्द्याय गीताचार्याय ते नमः ॥ ३६॥ गीतवाद्याभिनन्दाय गीतसत्कृतिमोदिने । गुरुदेवाभिगीताय गुहारामाय ते नमः ॥ ३७॥ गुप्ताय गुणसान्द्राय गुणातीतस्वरूपिणे । गुप्तहृत्स्थलवन्द्याय गूढोत्मने नमो नमः ॥ ३८॥ गृहदैवाय गेयाय गेयराजस्तुताय च । गैरिकीभवपादाय गोधूलिशान्तये नमः ॥ ३९॥ गोविन्दाय सुनन्दाय गौरीशमुदितात्मने । गौराननाय गौराय गौरवकृतये नमः ॥ ४०॥ ग्मापुत्रीमनआभाय ग्रथिताक्षरमालिने । ग्रन्थनाथाय ग्रन्थाय ग्लानिच्छिदे नमो नमः ॥ ४१॥ घटनापरिपूर्णाय घनगानप्रसादिने । घण्टारवाभिपूज्याय घनश्यामाय ते नमः ॥ ४२॥ घण्टानादसुगीताय घनीकृतातिशक्तये । घनाघघनघाताय घनस्वराय ते नमः ॥ ४३॥ घुषिताद्भुतसन्नाम्ने घूर्णमानससान्त्विने । घोरसंसारताराय घृणिने ते नमो नमः ॥ ४४॥ घृणापाङ्गसुरक्षाय घृणिवंशातिभातये । घृणाघ्नघृणसान्द्राय घृणालवे नमो नमः ॥ ४५॥ चण्डभास्करतेजाय चन्द्रभास्करचक्षुषे । चण्डमारुतबाणाय चन्द्राननाय ते नमः ॥ ४६॥ चापालङ्कृतपाणाय चारित्राद्भुतकीर्तये । चायनीयप्रशान्ताय चारुनेत्राय ते नमः ॥ ४७॥ चिरकालसुगीताय चिन्तितार्चितचित्तये । चिरस्थायिचरित्राय चित्स्वरूपाय ते नमः ॥ ४८॥ चिद्विलासाय चित्तागोचराय चिन्तिताय च । चित्तशोधननाम्ने च चिन्मयाय नमो नमः ॥ ४९॥ चेतोहरातितेजाय चेतनाचेतनात्मने । चेतोजार्चितदैवाय चैतन्यब्रह्मणे नमः ॥ ५०॥ चैत्रावतारताराय चोदितानन्यभक्तये । चौक्षव्यक्त्यकलङ्काय च्युतश्रायाय ते नमः ॥ ५१॥ छत्रच्छायाधिराजाय छन्दस्कृतस्तुताय च । छन्दोवृत्तस्तुतिस्थाय छन्द्राय ते नमो नमः ॥ ५२॥ छायामण्डलवृत्ताय छिद्रहृच्छमनाय च । छुरिताक्षरमालाय छन्दकाय नमो नमः ॥ ५३॥ जन्ममृत्युविवर्जाय जराधिव्याधिघातिने । जगन्नाथाय नीथाय जयरामाय ते नमः ॥ ५४॥ जगदानन्दकाराय जानकीजयजानये । जगन्मोहनरामाय जनाधाराय ते नमः ॥ ५५॥ जप्यतारकनाम्ने च जपमन्त्रस्वरूपिणे । जपार्थाक्षररूपाय जप्तनाम्ने नमो नमः ॥ ५६॥ जलजारुणपादाय जगदात्मस्वरूपिणे । जलजाप्तकुलाप्ताय जलेशशायिने नमः ॥ ५७॥ जानकीसुकलत्राय जाजीकुसुमधारिणे । जानकीजापसाराय जागर्तये नमो नमः ॥ ५८॥ जितगौतमशापाय जितेन्द्रियाय जित्वने । जितशङ्करचापाय जितसीताय ते नमः ॥ ५९॥ जितरामाय रामाय जितशङ्करचेतसे । जितात्मने अजित्याय जितकामाय ते नमः ॥ ६०॥ जीवाधाराय जीवाय जीवनाधारभासवे । जीवशक्त्यैकजीवाय जीवनीयाय ते नमः ॥ ६१॥ जीवन्मुक्तप्रगीताय जुष्टसद्गुरुगीतये । जूर्णिश्लोकातिदैवाय जुष्यरामाय ते नमः ॥ ६२॥ जूर्णिगङ्गाप्रभावाय जृम्भपुष्पार्चिताय च । जृम्भिताव्यक्तरूपाय जेन्याय ते नमो नमः ॥ ६३॥ जेत्राय जैवसर्वस्मै जोषिकार्चिततेजसे । जोटिङ्गध्यातसन्नाम्ने ज्ञप्त्यतीताय ते नमः ॥ ६४॥ ज्ञानाय ज्ञानगम्याय ज्ञानानन्दस्वरूपिणे । ज्ञानवृद्धमनःस्थाय ज्ञानतेजाय ते नमः ॥ ६५॥ ज्ञेयाय ज्ञातसर्वस्मै ज्ञीप्सापूरणचक्षसे । ज्याघोषबाणकोदण्डरामाय ते नमो नमः ॥ ६६॥ झङ्कारश्रुतिगीताय टङ्कारघोषधन्वने । झल्लरीनादमोदाय ठक्कुराकृतये नमः ॥ ६७॥ तन्त्रीसुस्वरलोलाय तन्त्रीस्वरलयाय च । तन्त्रीसङ्गीतमोदाय तन्त्रीरागाय ते नमः ॥ ६८॥ तालवाद्याभिनन्दाय ताराधिपाननाय च । तारकारामनाम्ने च तारणाय नमो नमः ॥ ६९॥ तिष्याय तिष्यसन्नाम्ने तिष्यकेतुस्तुताय च । तीर्थातितीर्थनाम्ने च तीर्णभावाय ते नमः ॥ ७०॥ तुम्बुर्वानूतगीताय तूष्णींस्थप्रणवाय च । तृष्णाक्षयाय तृष्याय तृप्तकामाय ते नमः ॥ ७१॥ तेजोजितायुतार्काय तेजस्कराय तेजसे । तोयालयगभीराय तोयात्मने नमो नमः ॥ ७२॥ तौर्यत्रिकाभिवन्द्याय तौर्यत्रिकप्रियाय च । त्यक्तसर्वसुहृत्स्थाय त्यागयुक्ताय ते नमः ॥ ७३॥ त्यागब्रह्मसुयुक्ताय त्यागराजनुताय च । त्यागब्रह्मसुवाक्स्थाय श्रीरामाय नमो नमः ॥ ७४॥ त्यागराजेष्टदैवाय त्यागराजार्चिताय च । त्यागराजनुलोलाय श्रीरामाय नमो नमः ॥ ७५॥ त्यागब्रह्मसुपक्षाय त्यागराजप्रियाय च । त्यागब्रह्मसमक्षाय श्रीरामाय नमो नमः ॥ ७६॥ त्यागराजकृतिस्थाय त्यागसङ्कीर्तितात्मने । त्यागब्रह्मात्मलीनाय श्रीरामाय नमो नमः ॥ ७७॥ त्राणानन्यातिदैवाय त्रिविद्यासारभाससे । त्रिगुणातीतसत्याय श्रीरामाय नमो नमः ॥ ७८॥ त्रिलोकवन्दितेशाय त्रितापार्तिविदारिणे । त्रिलोकातीतदेवाय त्रिविक्रमाय ते नमः ॥ ७९॥ दक्षशिक्षकनूताय दमादिशमदायिने । दहराकाशवासाय दयाकूटाय ते नमः ॥ ८०॥ दशावतारलीलाय दशाशुभकराय च । दशाननविदाराय दाशरथ्यर्किने नमः ॥ ८१॥ दिव्यवंशाद्रिदीपाय दिष्णवे सर्वदिष्णवे । दिनान्वयाब्धिचन्द्राय दिव्याय ते नमो नमः ॥ ८२॥ दिव्यगङ्गासमक्षाय दिव्यगङ्गाभिनन्दिने । दिव्यप्रयागदैवाय रघुनाथाय ते नमः ॥ ८३॥ दीर्घायुष्प्रददैवाय दीनावनव्रताय च । दुःखशोकनिवाराय दुरासदाय ते नमः ॥ ८४॥ दुर्गाभ्रात्रे च दुर्गाय दुर्गहैमाद्रिरूपिणे । दुर्गागङ्गासुमालाय दुर्गाढाय नमो नमः ॥ ८५॥ दूरीकृताघसङ्घाय दृढव्रताभयाय च । देहमानसपोषाय दृशानाय नमो नमः ॥ ८६॥ देवादिमृग्यपादाय देवदेवार्चिताय च । देवकुल्याप्रभावाय देवेशाय नमो नमः ॥ ८७॥ दैवाय दैत्यदाराय दोलारोपितमूर्तये । दोलोत्सवसुगीताय दोषहाय नमो नमः ॥ ८८॥ दौर्बल्यक्लान्त्यपोहाय दौर्ग्यविद्रावणाय च । द्युसरिद्भावभावाय द्युतिधाराय ते नमः ॥ ८९॥ द्युतिमण्डलवृत्ताय द्योतितान्तर्गुहाय च । द्रुतसिद्धिप्रदात्रे च द्रुतबाणाय ते नमः ॥ ९०॥ द्वन्द्वातीताय द्वन्द्वाय द्वन्द्वदुःखनिवारिणे । द्विकरेहपरार्थाय द्वैताद्वैताय ते नमः ॥ ९१॥ धरणीधरधीराय धराधिपनुताय च । धरणीतनयापाय धर्मात्मने नमो नमः ॥ ९२॥ धन्याय धर्मपालाय धाराधरस्वराय च । धाराधराभगात्राय धात्रे तुभ्यं नमो नमः ॥ ९३॥ धिष्ण्यहृत्स्थलदैवाय धीमन्दिरनिवासिने । धीताय धीतिगीताय धीरोदात्ताय ते नमः ॥ ९४॥ धुनिनाथनिवासाय धूननात्मजसेविने । धूपदीपादिसेव्याय धुरीणाय नमो नमः ॥ ९५॥ धृतकोदण्डचापाय धृतिकाराय धृत्वने । धृतहस्तसुनीथाय धृतात्मने नमो नमः ॥ ९६॥ धेयनामसुपेयाय धैर्यधैवत्यधाय च । धोरणीनामगेयाय धौतात्मने नमो नमः ॥ ९७॥ ध्येयाय ध्यानगम्याय ध्यानस्थान्तर्विलासिने । ध्यायमानाय रामाय ध्यातोंकाराय ते नमः ॥ ९८॥ ध्रुवसिद्धिप्रदात्रे च ध्रुवाक्षरान्तरात्मने । ध्वनितोंकारनादाय ध्वनिरूपाय ते नमः ॥ ९९॥ नतजीवनजीवाय नतमानससान्त्विने । नमस्कृताय नम्याय नन्दनीयाय ते नमः ॥ १००॥ नतपोषणतोषाय नवनव्यसुगीतये । नतराजाभिनूताय नरोत्तमाय ते नमः ॥ १०१॥ नरवेषधरापाय नवमन्मथरूपिणे । नलिनाक्षविशालाय नरानन्दाय ते नमः ॥ १०२॥ नादसुस्वरपूज्याय नादानन्दलयात्मने । नादोपासनतुष्टाय नादरूपाय ते नमः ॥ १०३॥ नारदानन्दगेयाय नागराजसुशायिने । नारदागीतलोलाय नारायणाय ते नमः ॥ १०४॥ निगमागमसाराय निश्चलानन्दचेतसे । निजदाससुरक्षाय निरामयाय ते नमः ॥ १०५॥ नित्यनूतनरूपाय नित्योत्सवसवाय च । नित्यत्ववरदात्रे च नित्यानन्दाय ते नमः ॥ १०६॥ निद्रालस्यातिदूराय निगमागमचारिणे । निर्वाणफलदात्रे च निरञ्जनाय ते नमः ॥ १०७॥ नीलनिर्मलरूपाय नीरजाह्लादकारिणे । नीरदश्यामशोभाय नीरजाक्षाय ते नमः ॥ १०८॥ नुतिश्रेष्ठसुगीताय नूपुरानादगामिने । नूतनक्षीरभक्षाय नूनंगोप्त्रे नमो नमः ॥ १०९॥ नृत्यवाद्यसुगीताय नृसिंहावतराय च । नृपोत्तमाय नेत्रे च नेत्रानन्दाय ते नमः ॥ ११०॥ नेत्रोत्सवसुरूपाय नैत्यसङ्गीतसिद्धये । नैगमागमसत्त्वाय नैःश्रेयसाय ते नमः ॥ १११॥ नैत्यनैर्मल्यरूपाय नैष्ठ्यनैष्कर्म्यसिद्धये । नैकाय एकवाचाय नैकात्मने नमो नमः ॥ ११२॥ नोदिताख्यातधर्माय नोधाभक्तिप्रगीतये । नौकातारकनाम्ने च न्यायरूपाय ते नमः ॥ ११३॥ पट्टाभिरामचन्द्राय पङ्कजाक्षीरताय च । पवमानसुताप्ताय परिपूर्णाय ते नमः ॥ ११४॥ परब्रह्मस्वरूपाय परमानन्दधीधये । पञ्चापगेशगीताय परेशाय नमो नमः ॥ ११५॥ पापाभावाय भावाय पापभावप्रणाशिने । पापसन्धावगङ्गाय पावनाय नमो नमः ॥ ११६॥ पामरौघविदूराय पाशबन्धविदारिणे । पामरासुरभीमाय पार्थिवीपतये नमः ॥ ११७॥ पितृवाक्परिपालाय पीताम्बराब्जमालिने । पीठहृत्सन्निवासाय पीयूषनिधये नमः ॥ ११८॥ पुण्यतीर्थसुनाम्ने च पुनर्जन्मनिवारिणे । पुराणाय सुपुण्याय पुष्पार्चिताय ते नमः ॥ ११९॥ पूर्णावतारपूज्याय पूर्णेन्दुमुखभातये । पूर्णत्वदाय पूर्णाय पुर्णानन्दाय ते नमः ॥ १२०॥ पृथुकीर्तिविराजाय पृथुकीर्तिप्रदायिने । पृषोदरात्मजाप्ताय पृथिवीपतये नमः ॥ १२१॥ पेलवाद्भुतपादाय पेयपेयूषवाणये । पेशलारम्यभाषाय पोतनाय नमो नमः ॥ १२२॥ पोतनोत्तमगेयाय पौरस्यध्यातमूर्तये । पौरस्यधृतपादाय पौलस्त्यहारिणे नमः ॥ १२३॥ प्रकृतिव्यक्तरूपाय प्रकृत्यव्यक्तशक्तये । प्रपन्नैकशरण्याय प्रपञ्चपालिने नमः ॥ १२४॥ प्रणतात्मप्रबोधाय प्रकृष्टाद्भुतकीर्तये । प्रक्षीणनतपापाय प्रशान्ताय नमो नमः ॥ १२५॥ प्राकृताप्राकृताभाय प्रांशुलक्षणबाहवे । प्राचीनकाव्यनाथाय प्राज्ञाय ते नमो नमः ॥ १२६॥ प्राञ्जलिप्राणदात्रे च प्राणिसद्गतिदायिने । प्राक्सन्ध्याचारुगीताय प्राणात्मने नमो नमः ॥ १२७॥ प्राप्तकामाय कामाय प्रार्थितार्थप्रदायिने । प्रार्थनावरदैवाय प्रार्थनीयाय ते नमः ॥ १२८॥ प्रियाभिरामरामाय प्रीतसद्भक्तिगीतये । प्रेष्ठाय प्रेक्षणीयाय प्रौढत्वसिद्धये नमः ॥ १२९॥ फणिनाथसुशय्याय फालनेत्रस्तुताय च । फुल्लारविन्दनेत्राय फुल्लाननाय ते नमः ॥ १३०॥ बदरीकाश्रमस्थाय नरनारायणाय च । बदरीधामदैवाय बदरीपाय ते नमः ॥ १३१॥ बलरामावताराय बलरामानुजाय च । बलारोग्यप्रदात्रे च बलिष्ठाय नमो नमः ॥ १३२॥ बालार्कसत्सुतेजाय बालार्काभसुवासिने । बाललीलाभिनन्दाय बालरामाय ते नमः ॥ १३३॥ बाणत्राणसुशौर्याय बाष्पकण्ठाभिगीतये । बाहुद्विरदतुल्याय बाधान्तकाय ते नमः ॥ १३४॥ बिल्वादिपत्रपूज्याय बिलहृत्स्थलवासिने । बिम्बोष्ठस्मितवक्त्राय बिठवेष्टाय ते नमः ॥ १३५॥ बीजप्रणवनाम्ने च बीजाक्षरनिवासिने । बीजोंकारस्थनादाय बीजरूपाय ते नमः ॥ १३६॥ बुद्ध्यतीताय बुद्धाय बुधवृन्दावनाय च । बुद्धावतारलीलाय बुधानाय नमो नमः ॥ १३७॥ बृहन्नाथाय नाथाय बैजिकोंकाररूपिणे । बोधसद्गुरुरूपाय ब्रह्मतेजाय ते नमः ॥ १३८॥ ब्रह्मत्वतत्त्वरूपाय ब्रह्मानन्दप्रकाशिने । ब्रह्मैकतथ्यबोधाय ब्रह्मबीजाय ते नमः ॥ १३९॥ भक्ताधीनाय भद्राय भक्तिस्तुतिप्रियाय च । भक्ताभीष्टप्रदात्रे च भक्ताधीताय ते नमः ॥ १४०॥ भगभव्यप्रभावाय भवरोगनिवारिणे । भगिनीरतनाम्ने च भयापहाय ते नमः ॥ १४१॥ भवशोकविरामाय भवभव्यप्रदायिने । भवतारकसन्नाम्ने च भवापहाय ते नमः ॥ १४२॥ भवचापविदाराय भवसन्नुतकीर्तये । भवमानसभावाय भवप्रियाय ते नमः ॥ १४३॥ भावस्थध्यातदैवाय भावाकूतस्तुताय च । भावस्थिराय भावाय भामण्डलाय ते नमः ॥ १४४॥ भावनावाय भावाय भावशुद्धिप्रियाय च । भावाभावाय भावाय भावभावाय ते नमः ॥ १४५॥ भिषज्यनादसाराय भीतिच्छिदे परौजसे । भीष्मश्लोकितसन्नाम्ने भीमार्चिताय ते नमः ॥ १४६॥ भुवनाधारमूलाय भुवनत्रयपालिने । भुक्तिमुक्तिप्रदात्रे च भुवनेशाय ते नमः ॥ १४७॥ भूपालार्चितभूपाय भूमिजानन्दवर्धिने । भूजाह्लादनशौर्याय भूरिधाम्ने नमो नमः ॥ १४८॥ भृगुसूनुधनुर्जेत्रे भृगुनन्दनरूपिणे । भृत्यवात्सल्यभाषाय भृत्यसंरक्षिणे नमः ॥ १४९॥ भेषजामोदसन्नाम्ने भैरवीरागरागिणे । भैषज्यरागधाम्ने च भैषजाय नमो नमः ॥ १५०॥ भोगराजविराजाय भोगतृष्णापहाय च । भोगिभोजिसुवाहाय भोगीन्द्रशायिने नमः ॥ १५१॥ भौपालसार्वभौमाय भौलीरागस्तुताय च । भ्रमिमानससान्त्वाय भ्रूमध्यस्थाय ते नमः ॥ १५२॥ मङ्गलानन्दरूपाय मङ्गलानन्ददायिने । मङ्गलानन्दनाम्ने च मङ्गलाय नमो नमः ॥ १५३॥ मानिताङ्कितगुण्याय मामनोरमणाय च । मानिषादाय मान्याय मामनोनिधये नमः ॥ १५४॥ मित्रपुत्रसुमित्राय मित्रवंशप्रभातये । मित्रोदयप्रगीताय मित्ररत्नाय ते नमः ॥ १५५॥ मिष्टवाक्स्तुतगीताय मिष्टसङ्गीततोषिणे । मिष्टसुस्वरभाषाय मिष्टनाम्ने नमो नमः ॥ १५६॥ मिथ्यापारैकसत्याय मीरपारप्रकीर्तये । मुक्तिकारकनाम्ने च मुक्तिधाम्ने नमो नमः ॥ १५७॥ मुक्तसद्गुरुगीताय मुमुक्षुश्रायकीर्तये । मुनिभावितपादाय मुनिवन्द्याय ते नमः ॥ १५८॥ मूकवाक्प्रददैवाय मूकवाक्संस्तुताय च । मूलाधारोत्थनादाय मूलस्थानाय ते नमः ॥ १५९॥ मृगणात्मप्रबोधाय मृगतृष्णापहाय च । मृत्युलोकभयाहन्त्रे मृतण्डभाससे नमः ॥ १६०॥ मृदुसत्त्वसुभाषाय मृदुमानसवासिने । मृदुसङ्गीततोषाय मृदुस्वराय ते नमः ॥ १६१॥ मृदुसुस्वरगीताय मृदङ्गलयमोदिने । मृदुपल्लवपादाय मृद्वङ्काय नमो नमः ॥ १६२॥ मेघस्वनगभीराय मेधाशक्तिविलासिने । मेघश्यामाभवीराय मेरुधीराय ते नमः ॥ १६३॥ मैथिलीप्राणनाथाय मैत्रावरुणगीतये । मैत्रीमयाय मैत्राय मैथिलीशाय ते नमः ॥ १६४॥ मोहनाङ्काय मोक्त्रे च मोहकाराय मोहिने । मोहनारामरामाय मोहापोहाय ते नमः ॥ १६५॥ मौनध्येयाय गेयाय मौनिराजस्तुताय च । मौनमानसवासाय मौनार्चिताय ते नमः ॥ १६६॥ यदुश्रेष्ठावताराय यादवाय यशस्विने । यतिश्रेष्ठसुगीताय याधवाय नमो नमः ॥ १६७॥ यतमानससंस्थाय यतिसज्जनसेविने । यान्तभान्तनिशान्ताय यागसंरक्षिणे नमः ॥ १६८॥ युक्तमानसपूज्याय युक्तपूजाभिनन्दिने । युक्तभूजाभिरामाय युक्ताय ते नमो नमः ॥ १६९॥ येष्ठगङ्गासुमूलाय योगक्षेमावहाय च । योगीन्द्रहृन्निवासाय योगारामाय ते नमः ॥ १७०॥ योगिश्रेष्ठाय योग्याय योगसङ्गीतसिद्धये । यौक्तिकस्तुतिगीताय यौवनाय नमो नमः ॥ १७१॥ रघुवंशललामाय रम्यश्रीवासचेतसे । रमणीयाननाभाय रघुरामाय ते नमः ॥ १७२॥ रागरागविवर्जाय रागरागसुरूपिणे । रागविद्यासुपूज्याय रागमूलाय ते नमः ॥ १७३॥ रागतालगतिस्थाय रागस्वरयुताय च । रागसङ्गीतलोलाय रामचन्द्राय ते नमः ॥ १७४॥ राजराजसुनेत्राय राजाधिराजभानिधे । राजराजसुपूज्याय राजश्रेष्ठाय ते नमः ॥ १७५॥ रिपुसूदनशौर्याय रीतिगङ्गासुगीतये । रुद्रप्रियाय रुद्राय रूपहर्षाय ते नमः ॥ १७६॥ रूपवद्भार्यरामाय रेणुकासुतरूपिणे । रैवताजप्तनाम्ने च रोगापहाय ते नमः ॥ १७७॥ रोचमानाय रोचाय रोमाञ्चनकराय च । रोहिणीसुतरूपाय रोदोधिपतये नमः ॥ १७८॥ रौद्रादिशत्रुदाराय रौद्रसंहतशत्रवे । रौक्मपत्नीकरामाय रौक्मगुण्याय ते नमः ॥ १७९॥ लक्ष्मीरमणपुण्याय लक्षणाङ्कितरूपिणे । लक्ष्मणानुजसेव्याय लक्षण्याय नमो नमः ॥ १८०॥ लक्ष्याय लगनीयाय लङ्केशसंहराय च । ललितामोदगुण्याय लघुगीताय ते नमः ॥ १८१॥ लालसापूर्णरामाय लावण्यराममूर्तये । लालितानन्दरामाय लास्यगीताय ते नमः ॥ १८२॥ लिपिरूपविलासाय लिङ्गरूपिप्रियाय च । लिप्तानुरागसाराय लिप्यर्चिताय ते नमः ॥ १८३॥ लीनमानसलीनाय लीनसुस्वरगीतये । लीलाचतुररामाय लीलावतारिणे नमः ॥ १८४॥ लुप्तलोभादिदोषाय लुब्धार्थपरदायिने । लुलितान्तःप्रशान्ताय लुब्धार्थाय नमो नमः ॥ १८५॥ लूनभक्ताघसङ्घाय लूनपुष्पार्चिताय च । लूषश्लोकाक्षराभाय लूषार्कमालिने नमः ॥ १८६॥ लेखितश्लोकधाराय लेखनीयाय लेखिने । लेखनाय च लेख्याय लेखसंस्थाय ते नमः ॥ १८७॥ लोकावनाय लोक्याय लोकत्राणावतारिणे । लोलुपापरिपूर्णाय लोकनाथाय ते नमः ॥ १८८॥ लौक्यातीतप्रभावाय लौकिकालौकिकात्मने । लौकिकार्तिनिवाराय लोकंपृणाय ते नमः ॥ १८९॥ वंशीसङ्गीतलोलाय वंशीधरावतारिणे । वंशप्रकाशदीपाय वंशोद्धाराय ते नमः ॥ १९०॥ वनवासातितोषाय वन्दारुगणवन्दिने । वन्द्रगेयाय वन्द्याय वनजाक्षाय ते नमः ॥ १९१॥ वटपत्रसुशय्याय वराहावतराय च । वरदाय वरिष्ठाय वरानन्दाय ते नमः ॥ १९२॥ वाक्पत्रामोदशय्याय वाचामगोचराय च । वाक्सम्पत्तिविधात्रे च वागम्बराय ते नमः ॥ १९३॥ वासवाद्यभिपूज्याय वामनावतराय च । वासनापरिधावाय वासुदेवाय ते नमः ॥ १९४॥ वायुभोजिसुशय्याय वायुपुत्रनुताय च । वातरायणवीराय वातालयाय ते नमः ॥ १९५॥ विराजराजपूज्याय विजितात्मकृपालवे । विभीषणशरण्याय विश्रामाय नमो नमः ॥ १९६॥ विनतासुतवाहाय विश्वरूपाय विष्णवे । विषयासक्तिदूराय विश्वनाथाय ते नमः ॥ १९७॥ वीतरागविरोधाय विमलाय विभाय च । वीतरागैकरागाय वीतशोकाय ते नमः ॥ १९८॥ वेदवेदान्तसाराय वेदवेद्याय वेधसे । वेङ्कटाद्रिनिवासाय वेङ्कटेशाय ते नमः ॥ १९९॥ वैदेहीभाग्यभोग्याय वैभोगरङ्गशायिने । वैराग्यत्यागरूपाय वैकुण्ठपतये नमः ॥ २००॥ व्यक्ताव्यक्तसुरूपाय व्याध्याध्यार्त्यपहारिणे । व्याप्तसर्वस्वरूपाय व्यासस्तुताय ते नमः ॥ २०१॥ शङ्करालीनसन्नाम्ने शङ्खचक्रादिधारिणे । शस्ततारकनाम्ने च शरदाभाय ते नमः ॥ २०२॥ शरजाननशोभाय शरनैपुण्यकीर्तये । शरणागतरक्षाय शरण्याय नमो नमः ॥ २०३॥ शापमोचनपादाय शान्तसौख्यावहाय च । शाम्भवीरतसन्नाम्ने शान्तिभूषाय ते नमः ॥ २०४॥ शिवारामसुनाम्ने च शिवप्रियशिवाय च । शिवरामाभिरामाय शिवंकराय ते नमः ॥ २०५॥ शीकागङ्गाभिषिक्ताय शीकरस्पर्शशान्त्विने । शीकारदृष्टिदीक्षाय शीलवृत्ताय ते नमः ॥ २०६॥ शुभाकराय शुभ्राय शुभाङ्कितसुरूपिणे । शुक्तिबीजस्मिताभाय शुचिव्रताय ते नमः ॥ २०७॥ शून्यापहाय शूराय श‍ृङ्गारशेखराय च । श‍ृङ्गारगुणधाम्ने च श‍ृङ्गारहरये नमः ॥ २०८॥ शेषतुल्यसुपाणाय शेषश्वासार्चिताय च । शेषतल्पसुशय्याय शेषाचलाय ते नमः ॥ २०९॥ शैलोत्तुङ्गसुपुण्याय शैलसारसुधर्मिणे । शैलोत्सङ्गगभीराय शैथिल्यहाय ते नमः ॥ २१०॥ शोकतौषारसूर्याय श्लोकितस्वसुकीर्तये । शोकोद्भूतसुकाव्याय श्लोकप्रियाय ते नमः ॥ २११॥ शौभाय शौर्यगुण्याय श्याममेघस्वनाय च । श्यामसुन्दरगात्राय श्यामाभाय नमो नमः ॥ २१२॥ श्रद्धालुसिद्धिदात्रे च श्रान्तसंवाहनाय च । श्रावितस्वचरित्राय श्रितावनाय ते नमः ॥ २१३॥ श्रीहयग्रीवरूपाय श्रीमानसविलासिने । श्रीरङ्गपुरिवासाय श्रीलक्ष्मीपतये नमः ॥ २१४॥ श्रीरम्यचित्तरम्याय श्रीशसानन्दवाग्मिने । श्रीमण्यङ्कितवक्षाय श्रीनिवासाय ते नमः ॥ २१५॥ श्रुतितालस्वरूपाय श्रुतिसङ्कुलवासिने । श्रुतिशुद्धसुगीताय श्रुत्याधाराय ते नमः ॥ २१६॥ श्रेष्ठाय श्रेष्ठनाम्ने च श्रेष्ठसङ्गीतकीर्तये । श्रेष्ठचारित्रपुण्याय श्रेष्ठोत्कृष्टाय ते नमः ॥ २१७॥ श्रैष्ठ्यदैवत्यपूर्णाय श्रोत्राभिरामकण्ठिने । श्रोत्रपेयूषभाषाय श्रीरामाय नमो नमः ॥ २१८॥ षट्चक्रशक्तिमूलाय षट्शत्रुसूदनाय च । षड्जाधारश्रुतिस्थाय श्रीरामाय नमो नमः ॥ २१९॥ षाडवौडवरागाय षोडशोपचराय च । षोडशार्चितदैवाय श्रीरामाय नमो नमः ॥ २२०॥ सकलागमसाराय सकलार्थप्रदायिने । सकलाधारमूलाय सकलार्थाय ते नमः ॥ २२१॥ सकलावनदैवाय सनकादिनुताय च । सकलार्तिनिवाराय सकलाप्ताय ते नमः ॥ २२२॥ सत्कारुण्याय सद्भाय सद्गङ्गाजनकाय च । सद्भक्तार्णवसोमाय सनातनाय ते नमः ॥ २२३॥ सदागतिजदासाय सदानन्दस्वरूपिणे । सदात्मानन्दभासाय सदारामाय ते नमः ॥ २२४॥ सप्तस्वरसुभूषाय सप्तस्वरसमष्टये । सप्तस्वरसुभाषाय सप्तस्वरधये नमः ॥ २२५॥ सङ्गीतस्वरनन्दाय सङ्गीतप्राप्तिदायिने । सङ्गीतस्वरमिष्टाय सङ्गीताय नमो नमः ॥ २२६॥ सत्यसन्धाय सत्याय सत्यप्रकाशभासिने । सत्यवाक्सत्यरूपाय सत्यकामाय ते नमः ॥ २२७॥ सत्त्वाय सत्त्वरूपाय सत्त्वतत्त्वप्रकाशिने । सत्त्वारिदैत्यदाराय सत्त्वातीताय ते नमः ॥ २२८॥ सर्वस्मै सर्वसाराय सर्वमन्त्रस्वरूपिणे । सर्वाभीष्टप्रदात्रे च सर्वोन्नताय ते नमः ॥ २२९॥ सहस्रातीतनाम्ने च सहस्रश्लोककीर्तये । सहस्रियकृतिस्थाय सहस्राकृतये नमः ॥ २३०॥ साधुमानसगेहाय साकेतपुरिवासिने । सारसाक्षमुखाभाय सारसाराय ते नमः ॥ २३१॥ साधुरूपवनस्थाय सालसम्पाटनाय च । साधुसज्जनजीवाय सानन्दाय नमो नमः ॥ २३२॥ सामादिनिगमार्थाय सामगानप्रियाय च । सामानसार्णवाब्जाय सारामाय नमो नमः ॥ २३३॥ सिद्धप्रियाय सिद्धाय सिद्धिसद्भुक्तिदायिने । सिद्धसद्गुरुगेयाय सिद्धारामाय ते नमः ॥ २३४॥ सीताहृत्सारसार्काय सीतामनोहराय च । सीतासाध्वीसुदाराय सीतारामाय ते नमः ॥ २३५॥ सुमनोजनमित्राय सुधासारसुभाषिणे । सुस्वराजितकंदाय सुरारामाय ते नमः ॥ २३६॥ सूर्यवंशाद्रिदीपाय सूर्यचन्द्रप्रभाससे । सूत्रधाराय सूराय सूरिनाम्ने नमो नमः ॥ २३७॥ सृष्टिस्थित्यन्तकाराय सेवितस्तुतिमालिने । सेविकानन्ददात्रे च सेवारामाय ते नमः ॥ २३८॥ सोत्कण्ठेष्टवराधात्रे सोत्कृष्टशक्तिदायिने । सोहँल्लयात्मलीनाय सोहंभावाय ते नमः ॥ २३९॥ सौमित्रिसुप्रियाप्ताय सौदामनीयभाससे । सौमङ्गलप्रदात्रे च सौम्याय ते नमो नमः ॥ २४०॥ स्नातगङ्गासुखादात्रे स्थावरास्थावरात्मने । स्वीकृतानन्यभक्ताय स्वरानन्दाय ते नमः ॥ २४१॥ स्वरान्तस्थस्वराभाय स्वरमाधुर्यसेविने । स्वराकाशप्रदीपाय स्वरारामाय ते नमः ॥ २४२॥ स्फुरत्सहस्रनाम्ने च स्वप्रकाशजिताग्नये । स्वतन्त्राय स्वमन्त्राय स्वात्मारामाय ते नमः ॥ २४३॥ हरिरामावताराय हरिनारायणाय च । हरिगोविन्दकृष्णाय हरये ब्रह्मणे नमः ॥ २४४॥ हंसाय हंसगुह्याय हर्षोत्कर्षप्रभाविने । हंसानन्दप्रकाशाय हंसारामाय ते नमः ॥ २४५॥ हिमालयप्रशान्ताय हिमगङ्गाप्रभूतये । हिमालयगभीराय हिमालयाय ते नमः ॥ २४६॥ हृज्जगङ्गाभिषिक्ताय हृद्गभीरार्चिताय च । हृल्लसत्सत्सुदीपाय हृत्सेविताय ते नमः ॥ २४७॥ हृद्गुहासन्निवासाय हृद्गुहादीपनाय च । हृदन्तरङ्गदैवाय हृदारामाय ते नमः ॥ २४८॥ हृदयालयपूज्याय हृदयालयवासिने । हृदयालयदीपाय हृदालयाय ते नमः ॥ २४९॥ हृत्स्थसद्गुरुरूपाय हृत्सारसार्चिताय च । हृत्पुष्पामोदवासाय हृद्गताय नमो नमः ॥ २५०॥ पुष्पावलिसुरागाय पुष्पामोदस्तुताय च । पुष्पार्चितपदाब्जाय सीतारामाय मङ्गलम् ॥ २५१॥ मङ्गलम् अवनीजायै मङ्गलं राममूर्तये । मात्रे सुमङ्गलं पित्रे सीतारामाय मङ्गलम् ॥ २५२॥ मङ्गलं रामभद्राय मङ्गलश्लोककीर्तये । मङ्गलश्रीनिवासाय सीतारामाय मङ्गलम् ॥ २५३॥ मङ्गलं भूमिजापाय मङ्गलं भूसुपालिने । मङ्गलं दिव्यगङ्गाय विष्णवे शुभमङ्गलम् ॥ २५४॥ सीतारामात्मलीनाय पुष्पावलिप्रमोदिने । त्यागब्रह्मगुरुस्वामिपादपुष्पाय मङ्गलम् ॥ २५५॥ श्रीरामनामसत्कीर्तिरक्षरावलिसंस्तुतिः । नामपुष्पार्चनप्राप्तिर्भगभव्यसुमङ्गलम् ॥ २५६॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया अनुरागेण कृता श्रीरामसहस्रनामाक्षरपुष्पावलिः गुरौ समर्पिता । ॐ शुभमस्तु । Source: Shri Tyagarama Pushpavali 2005 Copyright Pushpa Srivatsan