अक्षर आकार:

श्रीरामप्रातःस्मरणम्

Shri Rama Pratahsmaranam

श्रीरामप्रातःस्मरणम्

प्रातः स्मरामि रघुनाथमुखारविन्दं लम्बालकावलिमधुव्रतमुग्धशोभम् । मन्दस्मितांशुमहनीयमरालशोभं कारुण्यपूरितकटाक्षकृतार्तरक्षम् ॥ १॥ प्रातः श‍ृणोमि रघुनायकवाक्यजालं दीनौघरक्षणमहाव्रतलब्धमूलम् । श्रोष्यामि येन न कथञ्चन कालदूत- वक्त्रोद्गतं जहि विदारय ताडयेति ॥ २॥ प्रातर्भजामि रघुनायकवामहस्तं कोदण्डदण्डपरिमण्डितमद्भुताभम् । यद्दर्शनाद्धृदयमाशरपुङ्गवानां सद्यस्स्फुटत्यखिललोकजयोद्धतानाम् ॥ ३॥ प्रातश्श्रयामि रघुनायकदक्षहस्तं साधुद्रुहां विदलनोत्सुकबाणयुक्तम् । आर्ताभयार्पणमहाव्रतबद्धदीक्षं दीनाल्यभीष्टवरदानसुधाशनद्रुम् ॥ ४॥ प्रातर्नमामि रघुनाथपदारविन्दं देवासुरोरगमुनीन्द्रमनुष्यवन्द्यम् । यत्स्पर्शभाग्यवशतो भरतप्रियार्थम् । साम्राज्यमाप किल दारु च पादुकाख्यम् ॥ ५॥ इति अगस्त्यमुनिकृतं श्रीरामप्रातःस्मरणं सम्पूर्णम् । ॥ श्रीरामशरणं मम ॥