अक्षर आकार:

श्रीरामपादुकास्तोत्रम्

Shri Ramapadukastotram

श्रीरामपादुकास्तोत्रम्

(श्रीवेदान्तदेशिककृतम्) सन्तः श्रीरङ्ग-पृथ्वीश-चरणत्राण-शेखराः । जयन्ति भुवन-त्राणपदपङ्कज-रेणवः ॥ १॥ वन्दे विष्णुपदासक्तं तमृषिं तां च पादुकाम् । यथार्था शठजित्संज्ञा मच्चित्तविजयाद्ययोः ॥ २॥ वन्दे तद्रङ्गनाथस्य मान्यं पादुकयोर्युगम् । उन्नतानामवनतिः नतानां यत्र चोन्नतिः ॥ ३॥ भजामः पादुके याभ्यां भरतस्याग्रजस्तदा । प्रायः प्रति-प्रयाणाय प्रास्थानिकमकल्पयत् ॥ ४॥ प्रशस्ते रामपादाभ्यां पादुके पर्युपास्महे । आनृशंस्यं ययोरासीदाश्रितेष्वनवग्रहम् ॥ ५॥ अधीष्टे पादुका सा मे यस्याः साकेतवासिभिः । अन्वयव्यतिरेकाभ्यामन्वमीयत वैभवम् ॥ ६॥ पाहि नः पादुके यस्याः विधास्यन्नभिषेचनम् । आभिषेचनिकं भाण्डं चक्रे रामः प्रदक्षिणम् ॥ ७॥ अभिषेकोत्सवात्तस्माद्यस्या निर्यातनोत्सवः । अत्यरिच्यत तां वन्दे भव्यां भरतदेवताम् ॥ ८॥ नमस्ते पादुके पुंसां संसारार्णवसेतवे । पदारोहस्य वेदान्ताः वन्दिवैतालिकाः स्वयम् ॥ ९॥ शौरेः श‍ृङ्गारचेष्टानां प्रसूतिं पादुकां भजे । यामेष भुङ्क्ते शुद्धान्तात्पूर्वं पश्चादपि प्रभुः ॥ १०॥ अग्रतस्ते गमिष्यामि मृद्नन्ती कुश-कण्टकान् । इति सीताऽपि यद्वृत्तिं इयेष प्रणमामि ताम् ॥ ११॥ शौरेः सञ्चारकालेषु पुष्पवृष्टिर्दिवश्च्युता । पर्यवस्यति यत्रैव प्रपद्ये तां पदावनीम् ॥ १२॥ पान्तु वः पद्मनाभस्य पादुकाकेलिपांसवः । अहल्यादेहनिर्माणपर्यायपरमाणवः ॥ १३॥ श्रुतीनां भूषणानां ते शङ्के रङ्गेन्द्रपादुके । मिथः सङ्घर्षसञ्जातं रजः किमपि शिञ्जितम् ॥ १४॥ उदर्चिषस्ते रङ्गेन्द्रपदावनि बहिर्मणीन् । अन्तर्मणिरवं श्रुत्वा मन्ये रोमाञ्चिताकृतीन् ॥ १५॥ मुखबाहूरूपादेभ्यो वर्णान् सृष्टवतः प्रभोः । प्रपद्ये पादुकां रत्नैर्व्यक्तवर्णव्यवस्थितिम् ॥ १६॥ प्रपद्ये रङ्गनाथस्य पादुकां पद्मरागिणीम् । पदेकनियतां तस्य पद्मवासामिवापराम् ॥ १७॥ बद्धानां यत्र नित्यानां मुक्तानामीश्वरस्य च । प्रत्यक्षं शेषशेषित्वं सा मे सिद्‍ध्यतु पादुका ॥ १८॥ वन्दे गारुत्मतीं वृत्त्या मणिस्तोमैश्च पादुकाम् । यया नित्यं तुलस्येव हरितत्वं प्रकाश्यते ॥ १९॥ हरिणा हरिनीलैश्च प्रतियत्नवतीं सदा । अयत्नलभ्यनिर्वाणामाश्रये मणिपादुकाम् ॥ २०॥ शौरेः शुद्धान्तनारीणां विहारमणिदर्पणम् । प्रसत्तेरिव संस्थानं पदत्राणमुपास्महे ॥ २१॥ कल्याणप्रकृतिं वन्दे भजन्तीं काञ्चनश्रियम् । पदार्हां पादुकां शौरेः पद एव निवेशिताम् ॥ २२॥ सृष्टं भूमावनन्तेन नित्यं शेषसमाधिना । अहं सम्भावयामि त्वामात्मानमिव पादुके ॥ २३॥ प्रपद्ये पादुकारूपं प्रणवस्य कलाद्वयम् । ओन्तं मितमिदं यस्मिन् अनन्तस्यापि तत्पदम् ॥ २४॥ अणोरणीयसीं विष्णोर्महतोऽपि महीयसीम् । प्रपद्ये पादुकां नित्यं तत्पदेनैव सम्मताम् ॥ २५॥ उदग्रयन्त्रकां वन्दे पादुकां यन्निवेशनात् । उपर्यपि पदं विष्णोः प्रत्यादिष्टप्रसाधनम् ॥ २६॥ सूचयन्तीं स्वरेखाभिरनालेख्यसरस्वतीम् । आलेखनीयसौन्दर्यामाश्रये शौरिपादुकाम् ॥ २७॥ कलासु काष्ठामातिष्ठन् भूम्ने सम्बन्धिनामपि । पादुका रङ्गधुर्यस्य भरताराध्यतां गता ॥ २८॥ विधौ प्रवृत्ते यद्द्रव्यं गुणसंस्कारनामभिः । श्रेयस्साधनमाम्नतं तत्पदत्रं तथास्तु मे ॥ २९॥ प्रतिष्ठां सर्वचित्राणां प्रपद्ये मणिपादुकाम् । विचित्रजगदाधारो विष्णुर्यत्र प्रतिष्ठितः ॥ ३०॥ प्रपद्ये पादुकां देवीं परविद्यामिव स्वयम् । यामर्पयति दीनानां दयमानो जगद्गुरुः ॥ ३१॥ उपाख्यातं तथात्वेन वसिष्ठाद्यैर्महर्षिभिः । उपायफलयोः काष्ठामुपासे रामपादुकाम् ॥ ३२॥ जयति यतिराजसूक्तिर्जयति मुकुन्दस्य पादुकायुगळी । तदुभयधनास्त्रिवेदीमवन्ध्ययन्तो जयन्ति भुवि सन्तः ॥ ३३॥ इति श्रीवेदान्तदेशिककृतं श्रीरामपादुकास्तोत्रं सम्पूर्णम् ।