अक्षर आकार:

श्रीरामनामसङ्कीर्तनम्

shrIrAmanAmasaMkIrtanam

श्रीरामनामसङ्कीर्तनम्

श्रीनाथे जानकीनाथे अभेदः परमात्मनि । तथापि मम सर्वस्वः रामः कमललोचनः ॥ ॐ श्रीरामचन्द्राय नमः । स्तवः वर्णानामर्थसङ्घानां रसानां छन्दसामपि । मङ्गलानां च कर्तारौ वन्दे वाणीविनायकौ ॥ १॥ भवानीशङ्करौ वन्दे श्रद्धाविश्वासरूपिणौ । याभ्यां विना न पश्यन्ति सिद्धा स्वान्तःस्थमीश्वरम् ॥ २॥ वन्दे बोधमयं नित्यं गुरुं शङ्कररूपिणम् । यमाश्रितो हि वक्रोऽपि चन्द्रः सर्वत्र वन्द्यते ॥ ३॥ सीतारामगुणग्रामपुण्यारण्यविहारिणौ । वन्दे विशुद्धविज्ञानौ कवीश्वरकपीश्वरौ ॥ ४॥ उद्भवस्थितिसंहारकारिणीं क्लेशहारिणीम् । सर्वश्रेयस्करीं सीतां नतोऽहं रामवल्लभाम् ॥ ५॥ यन्मायावशवर्ति विश्वमखिलं ब्रह्मादिदेवासुराः यत्सत्त्वादमृषैव भाति सकलं रज्जौ यथाहेर्भ्रमः । यत्पादप्लवमेव भाति हि भवाम्भोधेस्तितीर्षावतां वन्देऽहं तमशेषकारणपरं रामाख्यमीशं हरिम् ॥ ६॥ प्रसन्नतां या न गताभिषेकतस्तथा न मम्लौ वनवासदुःखतः । मुखाम्बुजश्रीरघुनन्दनस्य मे सदास्तु सा मञ्जुलमङ्गलप्रदा ॥ ७॥ नीलाम्बुजश्यामलकोमलाङ्गं सीतासमारोपितवामभागम् । पाणौ महासायकचारुचापं नमामि रामं रघुवंशनाथम् ॥ ८॥ मूलं धर्मतरोर्विवेकजलधेः पूर्णेन्दुमानन्ददं वैराग्याम्बुजभास्करं त्वघहरं ध्वान्तापहं तापहम् । मोहाम्भोधरपुञ्जपाटनविधौ खेसम्भवं शङ्करं वन्दे ब्रह्मकुले कलङ्कशमनं श्रीरामभूपप्रियम् ॥ ९॥ सान्द्रानन्दपयोदसौभगतनुं पीताम्बरं सुन्दरं पाणौ बाणशरासनं कटिलसत्तूणीरभारं वरम् । राजीवायतलोचनं धृतजटाजूटेन संशोभितं सीतालक्ष्मणसंयुतं पथिगतं रामाभिरामं भजे ॥ १०॥ कुन्देन्दीवरसुन्दरावतिबलौ विज्ञानधामावुभौ शोभाढ्यौ वरधन्विनौ श्रुतिनुतौ गोविप्रवृन्दप्रियौ । मायामानुषरूपिणौ रघुवरौ सद्धर्मवन्तौ हितौ सीतान्वेषणतत्परौ पथिगतौ भक्तिप्रदौ तौ हि नः ॥ ११॥ ब्रह्माम्भोधिसमुद्भवं कलिमलप्रध्वंसनं चाव्ययं श्रीमच्छम्भुमुखेन्दुसुन्दरवरे संशोभितं सर्वदा । संसारामयभेषजं सुमधुरं श्रीजानकीजीवनं धन्यास्ते कृतिनः पिबन्ति सततं श्रीरामनामामृतम् ॥ १२॥ शान्तं शाश्वतमप्रमेयमनघं निर्वाणशान्तिप्रदं ब्रह्माशम्भुफणीन्द्रसेव्यमनिशं वेदान्तवेद्यं विभुम् । रामाख्यं जगदीश्वरं सुरगुरुं मायामनुष्यं हरिं वन्देऽहं करुणाकरं रघुवरं भूपालचूडामणिम् ॥ १३॥ केकीकण्ठाभनीलं सुरवरविलसद्विप्रपादाब्जचिह्नं शोभाढ्यं पीतवस्त्रं सरसिजनयनं सर्वदा सुप्रसन्नम् । पाणौ नाराचचापं कपिनिकरयुतं बन्धुना सेव्यमानं नौमीड्यं जानकीशं रघुवरमनिशं पुष्पकारूढरामम् ॥ १४॥ आर्तानामार्तिहन्तारं भीतानां भयनाशनम् । द्विषतां कालदण्डं तं रामचन्द्रं नमाम्यहम् ॥ १५॥ श्रीराघवं दशरथात्मजमप्रमेयं सीतापतिं रघुकुलान्वयरत्नदीपम् । आजानुबाहुमरविन्ददलायताक्षं रामं निशाचरविनाशकरं नमामि ॥ १६॥ वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे मध्ये पुष्पक आसने मणिमये वीरासने संस्थितम् । अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनीन्द्रैः परं व्याख्यातं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ १७॥ प्रार्थना नान्या स्पृहा रघुपते हृदयेऽस्मदीये सत्यं वदामि च भवानखिलान्तरात्मा । भक्तिं प्रयच्छ रघुपुङ्गव निर्भरां मे कामादिदोषरहितं कुरु मानसं च ॥ ॐ श्रीसीता-लक्ष्मण-भरत-शत्रुघ्न-हनुमत्समेत- श्रीरामचन्द्रपरब्रह्मणे नमः ॥ अथ संकीर्तनम् । बालकाण्डम् १. शुद्धब्रह्मपरात्पर राम । २. कालात्मकपरमेश्वर राम ॥ ३. शेषतल्पसुखनिद्रित राम । ४. ब्रह्माद्यमरप्रार्थित राम ॥ ५. चण्डकिरणकुलमण्डन राम । ६. श्रीमद्दशरथनन्दन राम ॥ ७. कौशल्यासुखवर्धन राम । ८. विश्वामित्रप्रियधन राम ॥ ९. घोरताटकाघातक राम । १०. मारीचादिनिपातक राम ॥ ११. कौशिकमखसंरक्षक राम । १२. श्रीमदहल्योद्धारक राम ॥ १३. गौतममुनिसम्पूजित राम । १४. सुरमुनिवरगणसंस्तुत राम ॥ १५. नाविकधावितमृदुपद राम । १६. मिथिलापुरजनमोहक राम ॥ १७. विदेहमानसरञ्जक राम । १८. त्र्यम्बककार्मुकभञ्जक राम ॥ १९. सीतार्पितवरमालिक राम । २०. कृतवैवाहिककौतुक राम ॥ २१. भार्गवदर्पविनाशक राम । २२. श्रीमदयोध्यापालक राम ॥ अयोध्याकाण्डम् २३. अगणितगुणगणभूषित राम । २४. अवनीतनयाकामित राम ॥ २५. राकाचन्द्रसमानन राम । २६. पितृवाक्याश्रितकानन राम ॥ २७. प्रियगुहविनिवेदितपद राम । २८. तत्क्षालितनिजमृदुपद राम ॥ २९. भरद्वाजमुखनन्दक राम । ३०. चित्रकूटाद्रिनिकेतन राम ॥ ३१. दशरथसन्ततचिन्तित राम । ३२. कैकेयीतनयार्थित राम ॥ ३३. विरचितनिजपितृकर्मक राम । ३४. भरतार्पितनिजपादुक राम ॥ अरण्यकाण्डम् ३५. दण्डकवनजनपावन राम । ३६. दुष्टविराधविनाशन राम ॥ ३७. शरभङ्गसुतीक्ष्णार्चित राम । ३८. अगस्त्यनुग्रहवर्धित राम ॥ ३९. गृध्राधिपसंसेवित राम । ४०. पञ्चवटीतटसुस्थित राम ॥ ४१. शूर्पणखार्तिविधायक राम । ४२. खरदूषणमुखसूदक राम ॥ ४३. सीताप्रियहरिणानुग राम । ४४. मारीचार्तिकृदाशुग राम ॥ ४५. विनष्टसीतान्वेषक राम । ४६. गृध्राधिपगतिदायक राम ॥ ४७. शबरीदत्तफलाशन राम । ४८. कबन्धबाहुच्छेदक राम ॥ किष्किन्धाकाण्डम् ४९. हनुमत्सेवितनिजपद राम । ५०. नतसुग्रीवाभीष्टद राम ॥ ५१. गर्वितवालिसंहारक राम । ५२. वानरदूतप्रेषक राम ॥ ५३. हितकरलक्ष्मणसंयुत राम । सुन्दरकाण्डम् ५४. कपिवरसन्ततसंस्मृत राम ॥ ५५. तद्गतिविघ्नध्वंसक राम । ५६. सीताप्राणाधारक राम ॥ ५७. दुष्टदशाननदूषित राम । ५८. शिष्टहनूमद्भूषित राम ॥ ५९. सीतावेदितकाकावन राम । ६०. कृतचूडामणिदर्शन राम ॥ ६१. कपिवरवचनाश्वासित राम । युद्धकाण्डम् ६२. रावणनिधनप्रस्थित राम ॥ ६३. वानरसैन्यसमावृत राम । ६४. शोषितसरिदीशार्थित राम ॥ ६५. विभीषणाभयदायक राम । ६६. पर्वतसेतुनिबन्धक राम ॥ ६७. कुम्भकर्णशिरच्छेदक राम । ६८. राक्षससङ्घविमर्दक राम ॥ ६९. अहिमहिरावणचारण राम । ७०. संहृतदशमुखरावण राम ॥ ७१. विधिभवमुखसुरसंस्तुत राम । ७२. खस्थितदशरथवीक्षित राम ॥ ७३. सीतादर्शनमोदित राम । ७४. अभिषिक्तविभीषणनत राम ॥ ७५. पुष्पकयानारोहण राम । ७६. भरद्वाजाभिनिषेवण राम ॥ ७७. भरतप्राणप्रियकर राम । ७८. साकेतपुरीभूषण राम ॥ ७९. सकलस्वीयसमानत राम । ८०. रत्नलसत्पीठास्थित राम ॥ ८१. पट्टाभिषेकालङ्कृत राम । ८२. पार्थिवकुलसम्मानित राम ॥ ८३. विभीषणार्पितरङ्गक राम । ८४. कीशकुलानुग्रहकर राम ॥ ८५. सकलजीवसंरक्षक राम । ८६. समस्तलोकाधारक राम ॥ उत्तरकाण्डम् ८७. आगतमुनिगणसंस्तुत राम । ८८. विश्रुतदशकण्ठोद्भव राम ॥ ८९. सीतालिङ्गननिर्वृत राम । ९०. नीतिसुरक्षितजनपद राम ॥ ९१. विपिनत्याजितजनकज राम । ९२. कारितलवणासुरवध राम ॥ ९३. स्वर्गतशम्बुकसंस्तुत राम । ९४. स्वतनयकुशलवनन्दित राम ॥ ९५. अश्वमेधक्रतुदीक्षित राम । ९६. कालावेदितसुरपद राम ॥ ९७. आयोध्यकजनमुक्तिद राम । ९८. विधिमुखविबुधानन्दक राम ॥ ९९. तेजोमयनिजरूपक राम । १००. संसृतिबन्धविमोचक राम ॥ १०१. धर्मस्थापनतत्पर राम । १०२. भक्तिपरायणमुक्तिद राम ॥ १०३. सर्वचराचरपालक राम । १०४. सर्वभवामयवारक राम ॥ १०५. वैकुण्ठालयसंस्थित राम । १०६. नित्यानन्दपदस्थित राम ॥ १०७. राम राम जय राजा राम । १०८. राम राम जय सीता राम ॥ भजनम् भयहर मङ्गल दशरथ राम । जय जय मङ्गल सीता राम ॥ मङ्गलकर जय मङ्गल राम । सङ्गतशुभविभवोदय राम ॥ आनन्दामृतवर्षक राम । आश्रितवत्सल जय जय राम ॥ रघुपति राघव राजा राम । पतितपावन सीता राम ॥ स्तवः कनकाम्बर कमलासनजनकाखिल-धाम । सनकादिकमुनिमानससदनानघ भूम ॥ शरणागतसुरनायकचिरकामित काम । धरणीतलतरण दशरथनन्दन राम ॥ पिशिताशनवनितावधजगदानन्द राम । कुशिकात्मजमखरक्षण चरिताद्भुत राम ॥ धनिगौतमगृहिणीस्वजदघमोचन राम । मुनिमण्डलबहुमानित पदपावन राम ॥ स्मरशासनसुशरासनलघुभञ्जन राम । नरनिर्जरजनरञ्जन सीतापति-राम ॥ कुसुमायुधतनुसुन्दर कमलानन राम । वसुमानितभृगुसम्भवमदमर्दन राम ॥ करुणारसवरुणालय नतवत्सल राम । शरणं तव चरणं भवहरणं मम राम ॥ श्रीरामप्रणामः आपदामपहर्तारं दातारं सर्वसम्पदाम् । लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥ रामाय रामचन्द्राय रामभद्राय वेधसे । रघुनाथाय नाथाय सीतायाः पतये नमः ॥ श्रीहनुमत्प्रणामः अतुलितबलधामं स्वर्णशैलाभदेहं दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् । सकलगुणनिधानं वानराणामधीशं रघुपतिवरदूतं वातजातं नमामि ॥ १॥ गोष्पदीकृतवाराशिं मशकीकृतराक्षसम् । रामायणमहामालारत्नं वन्देऽनिलात्मजम् ॥ २॥ अञ्जनानन्दनं वीरं जानकीशोकनाशनम् । कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ॥ ३॥ उल्लङ्घ्य सिन्धोः सलिलं सलीलं यः शोकवह्निं जनकात्मजायाः । आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ॥ ४॥ मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥ ५॥ आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम् । पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् ॥ ६॥ यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम् । वाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ॥ ७॥ इति अष्टोत्तरशतनामरामायणं समाप्तम् । Swami Mahayogananda This prayer is sung at many branches of the Ramakrishna Math and Ramakrishna Mission on ekadashi days. it is an expanded version of nAmarAmarAmAyaNa.