अक्षर आकार:

श्रीरामोत्सवकल्पलतोद्धृता श्रीरामनामावलिः

Sri Rama Namavali from Ramaotsava Kalpalata

श्रीरामोत्सवकल्पलतोद्धृता श्रीरामनामावलिः

ॐ श्रीसीतारामचन्द्रपरब्रह्मणे नमः । श्रीराम नवरात्रोत्सव कल्पः नामावलीस्त बकः । श्रीरामोत्सवकल्पलतोद्धृता श्रीरामनामावली ॐ श्रीमद्गौरीश वागीश शचीशादि सुरार्चिताय नमः । ॐ पक्षीन्द्रगमनोद्वृत्त पाञ्चजन्यरवाञ्चिताय नमः । ॐ पाकारिमुखदेवौघ केकिलोक घनाघनाय नमः । ॐ परमेष्ठि मुखाम्भोज पद्मिनीवल्लभाकृतये नमः । ॐ शर्वहृत्कैरवोल्लास चन्द्रिकायित सुस्मिताय नमः । ॐ चक्राद्यायुधसंयुक्त चतुर्भुज समन्विताय नमः । ॐ गर्भीकृत भयामर्त्य निर्भीकरण पण्डिताय नमः । ॐ दानवारण्य संशोषदावीकृत निजायुधाय नमः । ॐ धरणीभारकृद्दैत्यदारणोद्यत निश्चयाय नमः । ॐ समानीकृतवैकुण्ठसाकेतपुर लोलुपाय नमः । ॐ प्राजापत्येष्टिसम्भूतपायसान्न रसानुगाय नमः । ॐ कोसलेन्द्रात्मजागर्भकरोद्भूत हरिन्मणये नमः । ॐ निर्विशेषगुणोपेतनिजानुज समन्विताय नमः । ॐ पङ्क्तिस्यन्दनसन्तोषपारावार सुधाकराय नमः । ॐ धर्मशास्त्रत्रयीतत्त्वधनुर्वेद विचक्षणाय नमः । ॐ यज्ञान्तरायसञ्जातायास कौशिकयाचिताय नमः । ॐ गुरुबोधितपित्राज्ञागुर्वीकरण पौरुषाय नमः । ऊ गाधेयबोधितोदारगाधाद्वयजितश्रमाय नमः । ॐ ताटकोरस्थलक्रौञ्चधराभृद्दारणाग्नि भुवे नमः । ॐ सृष्टानलास्त्र सन्दग्धदुष्टमारीचसोदराय नमः । ॐ समीरास्त्राब्धिसङ्क्षिप्तताटकाग्रतनूभवाय नमः । ॐ सत्रभागसमायातसुत्रामादि सुभिक्षकृते नमः । ॐ रूढक्रतुजमुन्मौनिगाढालिङ्गितविग्रहाय नमः । ॐ अहल्याशापपापाब्दिहारणोद्यतपद्रजसे नमः । ॐ शर्वबाणासनाद्रीन्द्र गर्वभञ्जन जम्भ घ्ने नमः । ॐ साक्षाद्रमावनीजातासाक्षतोदकरग्रहिणे नमः । ॐ दुर्वारभार्गवाखर्वगर्वदर्वीकराहिभुजे नमः । ॐ स्वस्वपत्नीसमायुक्त सानुजोदितभाग्यवते नमः । ॐ निजदारसमावेशनित्योत्सवितपूर्जनाय नमः । ॐ मन्थरादिष्ट कैकेयीमत्यन्तरितराज्यधुरे नमः । ॐ निषादवरपुण्यौघनिलिम्पद्रुफलोदयाय नमः । ॐ गङ्गावतरणोत्सृष्टश‍ृङ्गिबेरपुराधिपाय नमः । ॐ भक्त्युत्कटपरिक्लुप्त भरद्वाजपदानतये नमः । ॐ चित्रकूटाचलप्रान्तचित्रकाननभूस्थिताय नमः । ॐ पादुकान्यस्त साम्राज्यभरवत्कैकयीसुताय नमः । ॐ जातकार्यागतानेक जनसम्मर्दनासहाय नमः । ॐ नाकाधिपतनूजातकाकदानवदर्पहृते नमः । ॐ कोदण्डगुणनिर्घोषघूर्णितायितदण्डकाय नमः । ॐ वाल्मीकिमुनिसन्दिष्टवासस्थलनिरूपणाय नमः । ॐ विराधशाल्मलीवृक्षविध्वंसानिलसंहतये नमः । ॐ निराकृतसुराधीशनीरेश शर भ ङ्गकाय नमः । ॐ अनसूयाङ्गरागाञ्चदवनीतनयान्विताय नमः । ॐ सुतीक्ष्णमुनि सं सेवासूचितात्मातिथिक्रियाय नमः । ॐ कुम्भजात दयादत्त जम्भारातिशरासनाय नमः । ॐ दण्डकावनसंलीनचण्डासुरवधोद्यताय नमः । ॐ प्राञ्चत्पञ्चवटीतीर पर्णागारपरायणाय नमः । ॐ गोदावरीनदीतोयगाहनाञ्चितविग्रहाय नमः । ॐ हासापादितरक्षस्त्री नासाश्रवण कर्त नाय नमः । ॐ खर सैन्याटवीपातसरयाभीलमारुताय नमः । ॐ दूषण त्रिशिरःशैलतुण्डनोग्रशरासनाय नमः । ॐ विरूपितानुजाकार विक्षोभितदशाननाय नमः । ॐ हाटकाकारसञ्छन्नताटकेयमृगद्विपिने नमः । ॐ सीतापराधदुर्मे धिभूतानुजविनिन्दकाय नमः । ॐ पं क्त्यास्याहतषक्षीन्द्र परलोकसुखप्रदाय नमः । ॐ सीतापहरणोध्बूतचिन्ताक्रान्तनिजान्तराय नमः । ॐ कान्तान्वेषणमार्गस्थकबन्धासुरहिंसकाय नमः । ॐ शबरीदत्त पक्वाम्र ङातास्वादकुतूहलाय नमः । ॐ पम्पासरोवरोपान्त प्राप्त मारुतिसंस्तुतयेनमः । ॐ श स्त प्रस्तावसामीरिशब्दसौष्ठवतोषिताय नमः । ॐ सिन्धुरोन्नतकापेयस्कन्धारोहणबन्धुराय नमः । ॐ साक्षीकृतानलादित्य कौक्षेयकपिसख्यभाजे नमः । ॐ पूषजानीत वैदेहिभूषालोकनविग्रहाय नमः । ॐ सप्ततालनिपातात्त सचिवामोदकोविदाय नमः । ॐ दुष्टदौन्दुभ कङ्कालतोलनाग्रपदङ्गुलये नमः । ॐ वालिप्राणानिलाहारवाताशननिभाम्बकाय नमः । ॐ कान्तराज्यरमारूढकपिराजनि षेविताय नमः । ॐ रुमासुग्रीववल्ली द्रुसुमाकरदिनायिताय नमः । ॐ प्रवर्षणगुहावास परियापितवार्षिकाय नमः । ॐ प्रेषितानुजरुद्भीत पौषानन्दकृदीक्षणाय नमः । ॐ सीतामार्गणसन्दिष्टवातापत्यार्पितोर्मि काय नमः । ॐ सत्यप्रायोपवेशस्थ सर्ववानरसंस्मृताय नमः । ॐ राक्षसीतर्जनाधूतरमणीहृदयस्थिताय नमः । ॐ दहनाप्लुतसामीरिदाहस्तम्भनमान्त्रिकाय नमः । ॐ सीतादर्शनदृष्टान्तशिरोरत्न निरीक्षकाय नमः । ॐ वनिताजीववद्वार्ताजनितानन्दकन्दलाय नमः । ॐ सर्ववानर सङ्कीर्णसैन्यालोकनतत्पराय नमः । ॐ सामुद्रतीररामेशस्थापनात्तयशोदयाय नमः । ॐ रोषभीष नदीनाथपोषणोचितभाषणाय नमः । ॐ पद्यानोचितपाथोधिपन्थाजङ्घालसैन्यवते नमः । ॐ सुवेलाद्रितलोद्वेलवलीमुखबलान्विताय नमः । ॐ पूर्वदेवजनाधीशपुरद्वारनिरोधकृते नमः । ॐ सरमावरदुर्दैन्यचरमक्षणवीक्षणाय नमः । ॐ मकरास्त्रमहास्त्राग्निमार्जनासारसायकाय नमः । ॐ कुम्भकर्णमदेभोरः कुम्भनिर्भेद केसरिणे नमः । ॐ देवान्तकनरादाग्रदीप्यत्संयमनीपथाय नमः । ॐ नरान्तकसुरामित्रशिरोधिनलहृत्करिणे नमः । ॐ अतिकाय महाकायवधोपायविधायकाय नमः । ॐ दैत्यायोधनगोष्ठीकभृत्यान्दकराह्वयाय नमः । ॐ मेघनादतमोद्भेदमिहिरीकृतलक्ष्मणाय नमः । ॐ सञ्जीवनीरसास्वादनजीवानुज सेविताय नमः । ॐ लङ्काधीशशिरोग्रावटङ्कायितशरावलये नमः । ॐ राक्षसीहारलतिका लवित्रीकृतकार्मुकाय नमः । ॐ सुनाशीरारिनासीरघनोन्मूलकराशुगाय नमः । ॐ दत्तदानवराज्य श्री धारणाञ्चद्विभीषणाय नमः । ॐ अनलोत्थित वैदेहीघनशीलानुमोदिताय नमः । ॐ सुधासारविनिष्यन्धयथापूर्ववनेचराय नमः । ॐ जायानुजादिसर्वाप्तजनाधिष्ठित पुष्पकाय नमः । ॐ भारद्वाजकृतातिथ्यपरितुष्टान्तरात्म काय नमः । ॐ भरतप्रत्यया षेक्षापरिप्रेषीतमारुतये नमः । ॐ चतुर्धशसमान्तात्तशत्रुघ्नभरतानुगाय नमः । ॐ वन्दनानन्दितानेकनन्दिग्रामस्थमातृकाय नमः । ॐ वर्जितात्मीयदेहस्थवानप्रस्थजनाकृतये नमः । ॐ निजागमनजानन्दस्वजानपदवीक्षिताय नमः । ॐ साकेतालोकजामोदसान्द्रीकृतहृदस्ताराय नमः । ॐ भरतार्पितभूभारभरणाङ्गीकृतात्मकाय नमः । ॐ मूर्धजामृष्टवासिस्ठमुनिपादरजःकणाय नमः । ॐ चतुरर्णवगङ्गादिजलसिक्तात्म विग्रहाय नमः । ॐ वसुवासववाय्वग्निवागीशाद्यमरार्चिताय नमः । ॐ माणिक्यहार केयूरमकुटादिविभूषिताय नमः । ॐ यानाश्वगजरत्नौघनानोपपायनभाजनाय नमः । ॐ मित्रानुजोदितश्वेतच्छत्रापादितराज्यधुरे नमः । ॐ शत्रुघ्न भरताधूतचामरद्वयशोभिताय नमः । ॐ वायव्यादिचतुष्कोणवानरेशादि सेविताय नमः । ॐ वामाङ्काङ्कितवैदेहीश्यामारत्नमनोहराय नमः । ॐ पुरोगतमरुत्पुत्रपूर्वपुण्यफलायिताय नमः । ॐ सत्यधर्मदयाशौचनित्यसन्तर्पितप्रजाय नमः । ॐ यथाकृतयुगाचारकथानुगतमण्दलाय नमः । ॐ चरितस्वकुलाचारचातुर्वर्ण्यदिनाश्रिताय नमः । ॐ अश्वमेधादिसत्रान्नशश्वत्सन्तर्पितामराय नमः । ॐ गोभूहिरण्यवस्त्रादिलाभामोदितभूसुराय नमः । ॐ माम्पातुपात्विति जपन्मनोराजीवषट्पदाय नमः । ॐ जन्मापनयनोद्युक्त हृन्मानससितच्छदाय नमः । ॐ महागुहाजचिन्वानमणिदीपायितस्मृतये नमः । ॐ मुमुक्षु जनदुर्दैन्यमोचनोचितकल्पकाय नमः । ॐ सर्वभक्त जनाघौघसामुद्रजल बाडबाय नमः । ॐ निजदासजनाकाङ्क्षनित्यार्थ प्रदकामदुघे नमः । ॐ साकेतपुरसंवासिसर्वसज्जनमोक्षदाय नमः । ॐ श्रीभूनीलासमाश्लिष्ट श्री मदानन्दविग्रहाय नमः । इति श्रीरामोत्सवकल्पलतोद्धृता श्रीरामनामावलिः समाप्ता ।