अक्षर आकार:

श्रीराममङ्गलाष्टकम्

Shri Rama Mangalashtakam

श्रीराममङ्गलाष्टकम्

ॐ श्रीरामजयम् ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । नमः श्रीत्यागराजाय मदाचार्यवराय च । श्रीसीतारामभक्ताय गुरुदेवाय ते नमः ॥ ॐ सीतावराय विद्महे । त्यागगेयाय धीमहि । तन्नो रामः प्रचोदयात् ॥ अथ श्रीराममङ्गलाष्टकम् । सङ्गीतप्राणमूलाय सप्तस्वराधिवासिने । षड्जाधारश्रुतिस्थाय सद्गुरुस्वाय मङ्गलम् ॥ १॥ ऋषभारूढनूताय रिपुसूदनकीर्तये । ऋषिश्रेष्ठसुगीताय रिपुभीमाय मङ्गलम् ॥ २॥ गङ्गापावनपादाय गम्भीरस्वरभाषिणे । गान्धर्वगानलोलाय गभीराय सुमङ्गलम् ॥ ३॥ मङ्गलं क्षितिजापाय मङ्गलानन्दमूर्तये । मङ्गलश्रीनिवासाय माधवाय सुमङ्गलम् ॥ ४॥ पञ्चमस्वरगेयाय परिपूर्णस्वराब्धये । पाथोधिरागरङ्गाय परार्थाय सुमङ्गलम् ॥ ५॥ धन्याय धर्मपालाय धैवत्यधैर्यदायिने । ध्याताय ध्यानगम्याय ध्यातरूपाय मङ्गलम् ॥ ६॥ निषादगुहमित्राय निशाचरमदारये । निर्वाणफलदात्रे च नित्यानन्दाय मङ्गलम् ॥ ७॥ सप्तस्वराधिनाथाय सङ्गीतकृतिसेविने । सद्गुरुस्वामिगेयाय सीतारामाय मङ्गलम् ॥ ८॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया अनुरागेण कृतं श्रीराममङ्गलाष्टकं गुरौ समर्पितम् । ॐ शुभमस्तु । Source: Shri Tyagarama Pushpavali 2005 Copyright Pushpa Srivatsan