अक्षर आकार:

श्रीरामलक्ष्मणस्तोत्रम्

Shri Ramalakshmana Stotram

श्रीरामलक्ष्मणस्तोत्रम्

कमललोचनौ काञ्चनाम्बरौ कवचभूषणौ कार्मुकान्वितौ । कलुषसंहरौ कामितप्रदौ रहसि नौमि तौ रामलक्ष्मणौ ॥ १॥ मकरकुण्डलौ मौनिसेवितौ मणिकिरीटिनौ मञ्जुभाषिणौ । मनुकुलोद्भवौ मानुषोत्तमौ रहसि नौमि तौ रामलक्ष्मणौ ॥ २॥ सत्यसङ्गरौ समरभीकरौ सर्वरक्षकौ साहसान्वितौ । सदयमानसौ सर्वपूजितौ रहसि नौमि तौ रामलक्ष्मणौ ॥ ३॥ धृतशिखण्डिनौ दीनरक्षणौ धृतहिमाचलौ दिव्यविग्रहौ । दिविजपूजितौ दीर्घदोर्युगौ रहसि नौमि तौ रामलक्ष्मणौ ॥ ४॥ पवनजानुगौ पादचारिणौ पटुशिलीमुखौ पावनाङ्घ्रिकौ । परमसात्त्विकौ भक्तवत्सलौ रहसि नौमि तौ रामलक्ष्मणौ ॥ ५॥ वनविहारिणौ वल्कलाम्बरौ वनफलाशिनौ वासवार्चितौ । वरगुणाकरौ बालिमर्द्दनौ रहसि नौमि तौ रामलक्ष्मणौ ॥ ६॥ दशरथात्मजौ पशुपतिप्रियौ शशिनिभाननौ विशदमानसौ । दशमुखान्तकौ निशितसायकौ रहसि नौमि तौ रामलक्ष्मणौ ॥ ७॥ कमललोचनौ समरपण्डितौ भीमविक्रमौ कामसुन्दरौ । दामभूषणौ हेमनूपुरौ रहसि नौमि तौ रामलक्ष्मणौ ॥ ८॥ भरतसेवितौ दुरितमोचकौ करधृताशुगौ सुरवरस्तुतौ । शरधिधारणौ धीरकवचिनौ रहसि नौमि तौ रामलक्ष्मणौ ॥ ९॥ धर्मचारिणौ कर्मसाक्षिणौ धर्मकारकौ शर्मदायकौ । नर्मशोभितौ मर्मभेदिनौ रहसि नौमि तौ रामलक्ष्मणौ ॥ १०॥ नीलदेहिनौ लोलकुन्तलौ कालिभीकरौ तालमर्द्दनौ । कलुषहारिणौ ललितभाषिणौ रहसि नौमि तौ रामलक्ष्मणौ ॥ ११॥ मातृनन्दनौ पात्रपालकौ भ्रातृसम्मतौ शत्रुसूदनौ । धातृशेखरौ जेतृनायकौ रहसि नौमि तौ रामलक्ष्मणौ ॥ १२॥ जलधिबन्धनौ दलितदानवौ कुलविवर्धनौ बलविराजितौ । शैलजार्चितौ फलविधायकौ रहसि नौमि तौ रामलक्ष्मणौ ॥ १३॥ राजलक्षणौ विजयकाङ्क्षिणौ गजवरारुहौ पूजितामरौ । विजितमत्सरौ भजितशूरिणौ रहसि नौमि तौ रामलक्ष्मणौ ॥ १४॥ शर्वमानितौ सर्वकारिणौ गर्वभञ्जनौ निर्विकारिणौ । दुर्विभावितौ सर्वभासकौ रहसि नौमि तौ रामलक्ष्मणौ ॥ १५॥ रविकुलोद्भवौ भवविनाशकौ पवनजाश्रितौ पावकोपमौ । रविसुतप्रियौ कविभिरीडितौ रहसि नौमि तौ रामलक्ष्मणौ ॥ १६॥ मणिकिरीटिनौ मानुषोत्तमौ कनककुण्डलौ दिनमणिप्रभौ । वानरार्चितौ वनविहारिणौ रहसि नौमि तौ रामलक्ष्मणौ ॥ १७॥ जननवर्जितौ जनकजान्वितौ वनजनानतौ दीनवत्सलौ । सनकसन्नुतौ शौनकार्चितौ रहसि नौमि तौ रामलक्ष्मणौ ॥ १८॥ यागरक्षकौ योगचिन्तितौ त्यागमानसौ भोगिशायिनौ । नागगामिनै निगमगोचरौ रहसि नौमि तौ रामलक्ष्मणौ ॥ १९॥ सत्यवादिनौ भृत्यपालकौ मृत्युनाशकौ सत्यरूपिणौ । प्रत्यगात्मकौ मुक्तिदायकौ रहसि नौमि तौ रामलक्ष्मणौ ॥ २०॥ मणिमयाङ्गदौ गुणविभूषणौ फणिभुगासनौ पुण्यशालिनौ । पूर्णविग्रहौ पूर्णबोधकौ रहसि नौमि तौ रामलक्ष्मणौ ॥ २१॥ रामलक्ष्मणाङ्कितमिदं वरं गीतमव्ययं पठति यः पुमान् । तेन तोषितौ तस्य सपदं कीर्त्तिमायुषं यच्छतस्सुखम् ॥ २२॥ इति श्रीरामलक्ष्मणस्तोत्रं सम्पूर्णम् ।