अक्षर आकार:

रामकर्णरसायनम्

rAmakarNarasAyanam

रामकर्णरसायनम्

श्रीरामभद्रदीक्षितकृतम् । प्रथमो निष्यन्दः । दिशतु स कुशलं जिते दशास्ये विधिविहितस्तुतिवेदितस्वरूपः । उपदिशति शिवो नृणां यदीयं मनुमविमुक्तपुरे विभुक्तिहेतोः ॥ १॥ विहितविधिमपास्यता निषिद्धा- न्यपि चरताप्यकृताक्षनिग्रहेण । यदघमुपचितं मया यतिष्ये रघुवरसंस्मरणेन तन्निमार्ष्टुम् ॥ २॥ चिरपरिचितया मनो विकृष्टं दिशि दिशि वासनया च मे नियाम्यम् । इति कवनपथेऽवतार्य राम - स्मरणविधावनघे करोम्युपायम् ॥ ३॥ प्रकृतिरिति सरस्वतीति लक्ष्मी- रिति गिरिजेति जगन्मयीति वा याम् । गदति मुनिगणः कवित्वसिद्ध्यै कथमपि तां कलये विदेहकन्याम् ॥ ४॥ मधुरभणितये पतिव्रतानां मकुटमणिं कलये महीकुमारीम् । पतिकृतरिपुपातनप्रतिज्ञा- दलनभयादहितेऽप्यदत्तशापाम् ॥ ५॥ हृदय विषयमेव सेवसे किं यदयमुदग्रविषोपमः क्रमेण । मदयति च निहन्ति च प्रकामं तदयनमेत्य गिरां भजस्व रामम् ॥ ६॥ रघुवरचरणारविन्दभक्ति- च्छलमकरन्दनिरन्तराभिषिक्ताः । वकुलपरिमला गिरो मदीयाः कविकुलकर्परसायनानि सन्तु ॥ ७॥ भरतविदितपादुकाप्रभावं धरणिसुतादरणीयनामधेयम् । करतलधृतकार्मुकं पुमांसं मरकतनीलशरीरमाश्रयामः ॥ ८॥ निटिलनयननिर्वृतिप्रदाख्यं कुटिलनिशाचरकुम्भिनां मृगेन्द्रम् । कटिलसदसिमम्बुदाभमेकं ज्जन्तिलपुरीकृतचापबाणमीडे ॥ ९॥ निलयमखिलमङ्गलस्य रक्षो- वलयवसप्रबलायितानलास्त्रम् । कलयति हृदयं विदेहकन्या- वलयपदाङ्कितकन्धरं पुमांसम् ॥ १०॥ विमोहयति विष्टपत्रयजनान्गुणारोपण- क्षपात्रुटितचण्डिकारमणचापचण्डध्वनौ । जयत्यसकृदुन्मिषत्पुलकयोरपेतत्रपं परस्परनिरीक्षणं रघुवरक्षमाकन्ययोः ॥ ११॥ करोमि हृदयाम्बुजे कमपि वीरमम्भोनिधेः निबन्धनमबिन्धनज्वलनबन्धुतूणीशयम् । न कश्चिदपि दृश्यते जगति यस्य शक्तो जये स्मरप्रहितजानकीनयनपद्मबाणं विना ॥ १२॥ कष दलदुत्पलद्युतिरुदारवेषोज्ज्वलः स्वयं विशति मे मनस्त्वरितमाः परिज्ञायते । स एष ननु जानकीकुचतटीपटीरद्रव- प्रसक्तघनवासनाघुमुङ्घुमायमानः प्रभुः ॥ १३॥ भजे शरधनुर्धरं विकटचित्रकूटाटवी- चरं कमपि शङ्करप्रणयिनीप्रियाख्यं प्रभुम् । स्फुटाकलितकुङ्कुमा वदति यस्य वक्षस्तटी मृगेन्द्ररसितत्रसज्जनकजाहठालिङ्गनम् ॥ १४॥ चिरस्य विधुरस्य मे विषयघर्मघोरातपैः पयोदनिचयोदयप्रतिनिधिः किलेयं दशा । नराघमुषि राघवे यदधुना मनः प्रीयते समस्तसुरमस्तकप्रणतिकर्मणि ब्रह्मणि ॥ १५॥ कटीघटितवल्कलं घनलसज्जटामण्डलं करात्तशरकार्मुकं कमलपत्रमित्रेक्षणम् । तमालदलमेचकं धरणिकन्यकाकामुकं तरङ्गितकृपारसं तरणिवंशदीपं भजे ॥ १६॥ अचोदितकुलक्रमं पुनरपृष्टजातिक्रियं नयानयविचारणाविधुरमस्तशङ्काकणम् । उपेयुषि विभीषणे झटिति दत्तमस्याभयं मयेति समुदीरिता भगवतो गिरः पान्तु नः ॥ १७॥ कह्लाराम्बुजगन्धिमन्दपवने खेलन्मृगालङ्कृते कूजत्कोकिलबालचूतगहने कूले सरय्वाः शुभे । पश्यान्वेति शुकं शुकीति चुबुके गह्णन्करेण प्रियां चित्ते भाति स कोऽपि मे दशशिरोमत्तेभकण्ठीरवः ॥ १८॥ माद्यत्केकिनि चित्रकूटकटके मन्दाकिनीमेदुरे प्रत्यग्रप्रसवस्य केसरतरोः प्रच्छायशीते तले । कौशेयास्तरणे विदेहदुहितुः कुर्वाणमङ्के शिरो नीलाम्भोदनिभं भजे रघुकुलप्राचीनभाग्यं प्रभुम् ॥ १९॥ त्रस्तप्रस्थितहंसयूथमभितोनृत्यन्मयूरव्रजं वल्मीकान्तरसम्प्रविष्टभुजगं पङ्क्तीभवच्चातकम् । पुष्प्यन्नीपसिलिन्घ्रकेतकिजनस्थानाटवीमेयुषा कालिम्ना मम केनचित्कवचितं चेतो विराधद्विषा ॥ २०॥ संरम्भस्खलितोत्तरीयमवनिन्यस्ताग्रपादं भुजा- बुद्यम्य श्लथनीवि पुष्पनिचयं सगलतीं जानकीम् । पश्यन्पश्चवटीवने मुहुरपि प्रच्छन्न एवान्तिके हस्तोपात्तधनुःशरः स्फुरतु मे चित्ते रघुग्रामणीः ॥ २१॥ निर्वृत्ते खरदूषणत्रिशिरसामुन्मूलनादाहवे वैदेही परिषस्वजे सपदि यं मूर्तां जयश्रीरिव । उन्मीलत्पुलकश्रमाम्भसि धनुर्न्यस्तैकहस्ताम्बुजे तस्मिन्सस्मितवक्त्रचन्द्रमसि मे देवे मनो धावति ॥ २२॥ पायात्पर्णकुटीगतो घनघटासिक्तावनीसौरभ- घ्राणव्यापृतपुष्करद्विपकुले नीपप्रसूनाकुले । केकाकण्ठशिखण्डिताण्डवयुते खेलत्पुरोमारुते नन्दन्प्रावृषि चित्रकूटकटके सीतासखो राघवः ॥ २३॥ अर्धावर्तितमन्त्रमर्धविरतस्वाध्यायमर्धोज्झित- ब्रह्मोपासनमर्धमुक्तहवनातिथ्यादिसर्वक्रियम् । दृष्ट्वा पञ्चवटीजुषो यमृषयः सार्थं तपो मेनिरे कन्दर्पायुतसुन्दरं व्रजति मे काकुत्स्थमेनं मनः ॥ २४॥ चारुस्मेरमुखाम्बुजं चरणयोर्मञ्जुक्वणन्नूपुपरं चञ्चद्रत्नललन्तिकालिकलसत्कस्तूरिकाचित्रकम् । कान्तव्याघ्रनखानुबन्धिकनकग्रैवेयकालङ्कृतं कौसल्याङ्कविभूषणं कुवलयश्यामं भजामः शिशुम् ॥ २५॥ दत्त्वा पार्श्वजुषो विदेहदुहितुश्चापं कराम्भोरुहे गुल्फद्वन्द्वनिवेशितस्फिगवनौ कुर्वन्समे जानुनी । दृष्ट्या कूणितया कराम्बुजयुगव्यासक्तमूलाञ्चलं पश्यन्बाणमृजुर्न वेति हृदि मे वीरोऽयमारोहति ॥ २६॥ उन्मीलन्नवमल्लिकापरिमलोदञ्चद्विरेफारवै- रारण्ये तुलसीवने मुखरिते दृश्ये शुकश्यामले । शश्वल्लीनमयूरदृग्वलनया शश्वद्गृहीतं बला- ज्जानक्या सह चित्रकूटकटके देवं मनो धावति ॥ २७॥ सीतादत्तकराम्बुजं पदयुगश्लिष्यन्मणीपादुकं हर्षावेक्षिविहारबर्ह्युपसृताभ्यर्णं घटोध्न्या गवा । स्वामिन्देव जयेति पञ्जरशुकस्वानोल्लसत्तोरणं साकेताधिपतेरुषस्यवतु नः शय्यागृहान्निर्गमः ॥ २८॥ पाणौ मुष्टिगृहीतपन्नगलतापर्णोच्चये बिभ्रतीं वामे रत्नकरण्डकं तदपरे वीटीं विदेहात्मजाम् । पश्यन्कूजति पार्श्वतः कलरवे दृष्ट्या तिरश्चीनया मन्दस्मेरमुखीं हृदि स्फुरति मे मञ्चाधिरूढो विभुः ॥ २९॥ शैलान्मत्तोऽवतरति करी ज्यास्वनैर्वारयैनं सौमित्रे मा भवतु चकिता जानकीति प्रहिण्वन् । तज्ज्वाघोषं मृगपतिरवं व्याहरन्वेपिताङ्ग्या गाढाश्लिष्टो जनकसुतया कौसलेयोऽवतान्नः ॥ ३०॥ हंसी मन्दं चलति हरिणी वीक्षते लोललोलं रम्यं कूजत्ययमिह पिको राजते बर्हिणोऽसौ । इत्याश्चर्याद्वनभुवि वधूं दर्शयन्तीं यदि त्वां पश्याम्येतैरलमिति वदन्पातु न वै कौसलेयः ॥ ३१॥ देव त्वां रघुवीर नीरदनिभं सीतातडित्सङ्गतं कारुण्यामृतवर्षिणं कतिपये दृष्ट्वा मयूरा इव । किं नृत्यन्ति न चातका इव परे किं वा न गाद्यन्त्यतः स्वामिन्पालय पालयेत्पहमपि क्रोशामि मणडूकवत् ॥ ३२॥ खेलत्केकिनि सञ्चरन्मृगशिशौ चूतस्फुरद्वल्कले नीपन्यस्तनिषङ्गधन्वनि जनस्थानोटजप्राङ्गणे । सीतां पुष्पसमित्कुशान्हृतवतीं सम्भावयन्तं दृशा बद्धस्वस्तिकमेणचर्मणि घनच्छायं भजेयं प्रभुम् ॥ ३३॥ सम्प्राप्तो मृगयां विधाय नलिनीपत्राहृतैरम्बुभिः सङ्क्षाल्यांशुकपल्लवेन कुचयोः पादाब्जमुन्मार्जतीम् । मृष्टा नेह मनः शिलेति विसृतां रत्नाङ्गुलीयश्रियं वैदेहीं प्रति दर्शयन्हृदि कृतव्याजो विभुः पातु नः ॥ ३४॥ श्लथकचभरान्नैतद्भूमौ निपातय सुन्दरी- त्युदितहसितं सव्रीडाया महीदुहितुर्दिशन् । वनतरुतले मल्लीपुष्पैः कृतं नवगर्भकं दिनकरकुलोत्तंसो देवोऽधिरोहति मे मनः ॥ ३५॥ दलितदनुजाटोपे चापाधिरोपितसायके मरकतमणिच्छायादायादकायमनोहरे ( होभरे)। प्रपातजनताप्राणत्राणप्रवीणपराक्रमे स्फुरति पुरतोऽस्माकं सीतापतौ दुरितं कुतः ॥ ३६॥ अविदितनतक्लेशानीशानपास्य दिशामहो सह परिहरन्कालीकेलीसखं मुरलीभृता । वनमृगपरीवारे वीरे वरेषुधनुर्धरे कुवलयदलश्यामे रामे कुतूहलि मे मनः ॥ ३७॥ स्फटिकधवलान्मेघश्यामे गृहीतमृगानला- द्धृतधनुरिषौ भूतेशानात्प्लवङ्गमसेविते । मतिरवतरत्यात्तव्याघ्राजिनाद्धृतवल्कले शिखरितनयानाथात्पृथ्वीसुतापरिणेतरि ॥ ३८॥ स्वच्छन्दं व्रजसुन्दरीजनविटाद्बद्धैकदारव्रते लीलावेणुलसत्करात्त्रिभुवनत्राणाय चापस्पृशि । चौर्याकृष्टवधूजनात्परिणतौ कीटादिमुक्तिप्रदे व्यावृत्तं मम यादवाद्रघुपतौ चेतः स्वयं धावति ॥ ३९॥ कश्चिद्बालो मृत्तिकां भक्षयित्वा कश्चिद्वृद्धश्चूतमूले लुठित्वा । मां रक्षेच्चेन्मास्तु तद्यन्ममास्ते त्राता सीताकेलिलोलो युवैकः ॥ ४०॥ अभिमतफलसिद्ध्यै ध्यातुमेकं सुराणा- मनुसरति मनो मे यावदाबद्धवेगम् । अपहरति निरुन्धन्नन्तरा तावदेत- त्कपिकुलपरिवारः कश्चिदम्भोदनीलः ॥ ४१॥ क्षणचलितनिरूढस्वर्णदीकर्णभूषे परिहृतमयकन्यापत्रलेखाप्रसङ्गे । विरचितसुरसुभ्रूविभ्रमप्रातिभाव्ये कुतुकितमतिभव्ये क्वापि कालिम्निचेतः ॥ ४२॥ कचभरनिटिलभ्रूकर्णदृङ्नासिकोष्ठ- स्तनजघननितम्बं पश्यदन्याङ्गनानाम् । मलिनयति मनश्चेन्मन्मथस्तावताल किं विमलयितुमहल्यापावनोऽप्यस्ति वीरः ॥ ४३॥ नवकुलवलयदामश्यामलः कोमलाङ्ग्या विरचितमधुरश्रीरेकया विद्युतेव । जलधर इव काले जृम्भमाणो मयूरं कुतुकयति मनो मे कोऽपि कोदण्डभूषः ॥ ४४॥ मनसि मम समिन्द्धे पुण्यभाजामवेक्ष्यः कपिसदसि मुनीनां चेतसास्वादनीयः । जनकनृपतिकन्यासस्पृहालिङ्गनार्हः श्रुतियुवतिकबर्याः कोऽपि सौरभ्यसारः ॥ ४५॥ कुवलयदलनीलः कोऽपि रक्षोवधूनां कुचगिरिषु निपातं बाष्पवृष्टेर्विधाता । निखिलभुवनचेतोबर्हिनृत्तैकहेतुः शमयति मम तापं शार्ङ्गचापाम्बुवाहः ॥ ४६॥ निगमशिखरिश‍ृङ्गान्नित्यमागत्य खेलन् मुनिजनहृदरण्ये मोहसारत्वमुक्ते । दशवदनगजेन्द्रे दर्शिताघातलीलो वशयति रधुसिंहो मानसं नः प्रसन्नः ॥ ४७॥ करयोः शरकार्मुकाभिरामं पदयोरश्मविवेककृत्परागम् । कलितेषुधिमंसयोः प्रभुं तं करुणापूर्णमपाङ्गयोरुपासे ॥ ४८॥ अवलम्ब्य शरासमद्रिसारं गुणमाकृष्य गुरुध्वनिं विमुञ्चन् । विशिखानहितेषु रुक्मपुङ्खान्विहरत्याहवसीम्नि वीररामः ॥ ४९॥ चरमाङ्गनिबद्धचारुतूणं सुरमाङ्गल्यधुरीणचापबाणम् । अलिनीलमुपैति मानसं मे नलिनीनायकवंशभागधयेम् ॥ ५०॥ दृशि कारुणिकः करे धनुष्मान्कुशिकापत्यमखस्य रक्षिता यः । रजनीचरतूलचण्डवातो भजनीयो मम सोऽयमेक एव ॥ ५१॥ वदने शबरीफलाभिलाषं वचने सत्यधुराविराजमानम् । नयनेऽप्यनवेक्षितान्यदारं चरणे जीवलमाश्रये नृपालम् ॥ ५२॥ नवनीरदनीलमात्तचापं भवनीहाररविं श‍ृणोतु लोकः । अवनीतनयासखं जगत्यां स्तवनीयं मम दैवमेकमेव ॥ ५३॥ भरिता दयया दृशोः सुराणां परितापक्षतये गृहीतचापा । दुरितानि धुनोतु कापि लीला च्छुरिता भूमिसुताकुचाङ्गरागैः ॥ ५४॥ सुरचारणसिद्धबद्धसेवः शरचापाभरणो नवाम्बुदश्रीः । अहिमांशुकुलार्णवेन्दुरेको महिमाऽन्तःकरणे ममाविरस्तु ॥ ५५॥ धनुषा सह सायकं दधाने जनुषा भूषितचण्डरश्मिमवंशे । कुचनम्रमहीसुतानुरक्ते क्वचन न्यस्तमिदं महिम्नि चेतः ॥ ५६॥ भयकम्पितसागरप्रशस्ते मयकन्यातनुमण्डनासहिष्णौ । नवगारुडरत्नभासुरे स्यादवगाढं हृदयं क्वचित्प्रभौ मे ॥ ५७॥ निजनामरसज्ञनीलकण्ठं भजनाय प्लवगावृतोपकण्ठम् । बलयन्त्रितसिन्धुमन्तरेकं कलयन्नन्यमुपासितुं त्वरे कम् ॥ ५८॥ विकटभ्रुकुटिर्विलोकतेऽरीन्विशिखान्सुञ्चति विग्रहान्विभिन्ते । अनुलिम्पति शोणितैर्धरित्रीं रणरङ्गे रघुपुङ्गवः समिन्द्धे ॥ ५९॥ स्मयमानमुखेन्दुरिन्द्रनीलद्युतिरम्भोजदलेक्षणो धनुष्मान् । तरलीकृतजानकीदृगन्तस्तरुणः कश्चन मे मनो धिनोति ॥ ६०॥ दलदुत्पलदामकोमलाङ्गी दशकण्ठायुरपायकालभङ्गी । मनसे मम रोचतेऽभिरूपा करुणा काचिदुपात्तबाणचापा ॥ ६१॥ मौलौ निधेहि मकुटं त्यज बर्हिबर्हं बाणं गृहाण धनुषा सह मुञ्च वेणुम् । शाखामृगैर्विहर सन्त्यज गोपबालान् रामो यदूद्वह भव त्वमथाश्रये त्वाम् ॥ ६२॥ कृष्णैकसूतरथकेतनभूतदूतः सोऽनूरुसारथिरथात्मजमित्रभूतः । वाणीशयन्तृकरथस्य शरासभङ्क्ता कश्चिन्मनो हरति कार्मुकभूषणो मे ॥ ६३॥ दृप्यद्दशाननकलत्रकठोरगर्भ- विभ्रंशविभ्रमपरिस्फुटसाहसेन । घण्टा विलुण्ठयतु नः कलुषं रवेण कोदण्डकोटिघटिता कुलदेवतायाः ॥ ६४॥ देवद्विषां विजयि देहभृतां शरण्यं कारुण्यभूषितकटाक्षमुदग्रचापम् । टङ्कत्रुटन्मरकतोपलरत्ननीलं धाम स्मरामि धरणीतनयासहायम् ॥ ६५॥ आस्ते कृतान्त इति पापिषु दपडकारी- त्याकर्णितेऽपि मुहुराप्तपरम्परायाः । रक्षिष्यतीति रघुनन्दनमेव साक्षा- द्विश्वस्य केवलमहं न विचिन्तयामि ॥ ६६॥ तिष्ठन्तु दारुणतरा निरयाः सहस्रं तिष्ठन्तु घोरचरिता यमकिङ्करा वा । पापात्मनोऽपि नियतं परिपालनाय कोदपडपाणिरिति कोऽपि ममास्ति नाथः ॥ ६७॥ लीलोपात्तबलिप्रसूनमुकुलाः स्निग्धेन सौमित्रिणा वैदेहीकरपल्लवात्तकलशीधाराम्बुसंवर्धिताः । दृष्टा वत्सलया दृशा रघुपतेः पुत्रा इव प्रत्यहं प्रायः पञ्चवटीकुटीरतरवः प्रीणन्ति मे मानसम् ॥ ६८॥ सौवर्णीमवसक्थिकामधिवसन्पार्श्वस्थपृथ्वीसुता- हस्ताम्भोजयुगक्रमप्रसृतया जातिस्रजा दीर्धया । पाणिभ्यामधिवेष्टयन्कचभरं मौल्येकपार्श्वोचितं देवो मे हृदि भाति दत्तनयनो दृश्ये तदेकस्तने ॥ ६९॥ चापसंहितशरं चरमाङ्गे बद्धतूणमुपनीवि कृपाणम् । वञ्चनाभृगवधाय वनान्ते सञ्चरन्तमिनमन्तरुपासे ॥ ७०॥ कौणपाधिपकदर्थितामरीकाङ्क्षितप्रणयिबाणकार्मुकम् । कञ्चन श्रुतिकरण्डमौक्तिकं कालिमानमवलोकयामहे ॥ ७१॥ जानकीस्तनतटान्तपालिकाजातुकुङ्कुमविभागपिञ्जरः । दृश्यते हृदि दयाधुरन्धरः कोऽपि कोसलकुलीनकुञ्जरः ॥ ७२॥ मामके हृदि महीकुमारिकाकामकेलिकुतुकी नृपात्मजः । आतनोति पदमस्त्रबन्धुरो नूतनोदयपयोदसुन्दरः ॥ ७३॥ चन्द्रशेखरशरासनच्छिदा चातुरीचणकरारविन्दया । स्वीकृतं मम सुरानुकूलया लीलया हृदयमभ्रनीलया ॥ ७४॥ कौणपालिकदलीविषाणिना बाणचापपरिकर्मपाणिना । चण्डिकारमणचापखण्डने पण्डितेन मम मण्डितं मनः ॥ ७५॥ कृत्तकीर्णकुटिलक्षपाचरे कृत्रिमेतरगिरामगोचरे । धावते हि कुलदेवतेति मे चित्तमेवमिदमुत्तमे नृणाम् ॥ ७६॥ कालिकानिभरुचिः कनीयसा कान्तया च सह कल्पितासिका । कार्मुकाशुगलसत्कराम्बुजा काचिदस्ति करुणा गतिर्मम ॥ ७७॥ मामके मनसि धान्यमालिनीभूषणासहभुजोष्मशालिनी । सा चकास्ति शरचापधारिणी भानुमालिकुलभाग्यधोरणी ॥ ७८॥ याति तेजसि मनः सनातने दूतभूषितकिरीटिकेतने । यामिनीचरचमूभयङ्करे जानकीनयनकेलिकिङ्करे ॥ ७९॥ चङ्क्रमानुगतगन्धसिन्धुरा सिन्धुराजकृतसेतुबन्धना । वासना धृतशरासनाशुगा मेचका मनसि मे चकास्ति सा ॥ ८०॥ वानरक्षपितराक्षसव्रजं दीनरक्षणविचक्षणं प्रभुम् । श्रीमदग्र्यशरचापमेति मे जामदग्न्यमदनिग्रहं मनः ॥ ८१॥ कण्ठे कालशरासभञ्जनचपां कल्याणनानागुणं कारुण्याभरणं खरान्तकरणं कञ्जाभिरामेक्षणम् । पाणिद्वन्द्वगृहीतबाणधनुषं पाथोदनीलत्विषं पौलस्त्यासुमुषं भजामि पुरुषं पार्श्वे वधूटीजुषम् ॥ ८२॥ कुवलयदलनीलश्रीभृतां भूकुमारी- कुचकलशविराजत्कुङ्कुमैरङ्कितानाम् । दशमुखभुजतेजोदर्पतूलानलानां दशरथसुकृतानां दासभावं भजामः । ८३ करधृतशरचापः कान्तिमत्पङ्कजाक्षो निहितशरधिरंसे नीरदस्निग्धनीलः । वनमृगपरिवारो वन्दनीयो मुनीनां मदयति हृदयं मे मैथिलीप्रापानाथः ॥ ८४॥ मघवदुपलनीले मण्डलीकृत्य चापं मुहुरभिदशकण्ठं मुञ्चतीषुप्रपञ्चम् । रणधरणिरजोभिर्धूसरे वासरेश- प्रभवकुलभवानामुत्तमे चित्तमेति ॥ ८५॥ शुभगुणकलकण्ठस्तोममाकन्दशाखा नियमिनिवहचेतोनीलकण्ठाभ्ररेखा । दशवदनवधूटीचक्रवाकीत्रियामा जनयति कुतुकं मे जानकीप्रेमभूमा ॥ ८६॥ कल्याणमावहतु दाशरथेः कटाक्षः शाखामृगे शतमखादपि सानुकम्पः । आभाति भूमितनयाधरबिम्बलोभ- सम्पातसङ्क्रमितलाक्ष इवारुणो यः ॥ ८७॥ तारुण्यदर्पतरलीकृतगोपकन्या- दृष्टिप्रियं तव यदस्ति वपुस्तदास्ताम् । काकुत्स्थवीर कमलानयनाभिरामं गात्रं त्विदं तव करोति मुदं मदन्तः ॥ ८८॥ स कश्चन गिरीन्द्रजासखशरासनव्रश्चनो मनो हरति मामकं मरकतोपलश्यामलः । धनुः शरलसत्करो धरणिकन्यकाप्रेमभूः धनञ्जयरथध्वजाभरणभूतदूतः प्रभुः ॥ ८९॥ धन्या वयं धरणिकन्यकया सनाथे नाथे स्थिते जगति नः परिपालनाय । यः शीलितो यतिभिरात्मनि निष्कलङ्के लङ्केश्वरं लवितुमात्तमनुष्यरूपः ॥ ९०॥ दीनानुकम्पि दिवसेश्वरवंशरत्नं कर्तृव्यपेतवचसा कथमप्युपेयम् । तापिञ्छनीलरुचि तामरसायताक्षं चापोज्ज्वलं किमपि वस्तु ममाविरस्तु ॥ ९१॥ आबद्धतूणमंसे करकमलद्वन्द्वधृतधनुर्बाणम् । पश्यामि हृदयकमले रामं दूर्वादलश्यामम् ॥ ९२॥ मज्जति मनो मदीयं क्वचिदपि दलितेन्द्रनीलमणिनीले । महिमनि महीकुमारीकुचकुड्मलकुङ्कुमाङ्कितोरस्के ॥ ९३॥ जगदघहरप्रशंसे जनकसुतावलयपदविलसदंसे । निगमान्तनलिनहंसे रमते मम हृदयमिनकुलावतंसे ॥ ९४॥ विकचेन्दीवरनीलं विदेहतनयाकुचस्तबकलोलम् । निगमान्तसुधानिलयं माधुर्यं पिबति मामकं हृदयम् ॥ ९५॥ सरसघनसारमेदुरचन्दननिष्यन्दशीतलालोकम् । कमपि दलितमयकन्यामङ्गलमालिङ्गति मनो मे ॥ ९६॥ गिरिशधनुस्तरुकरिणं दलितभृगुप्रवरगर्वसर्वस्वम् । कलयामि कमपि वीरं कृत्तकबन्धं कृताम्बुनिधिबन्धम् ॥ ९७॥ कुशिकसुतकुतुकदायी कुवलयदलनीलकोमलशरीरः । कोसलकुलतिलको मे कोऽपि गतिः कोविदाररथकेतुः ॥ ९८॥ कुवलयदामसरूपं कुण्ठितदशकण्ठनिरुपमाटोपम् । करतलगृहीतचापं कलये तद्धाम पामरदुरापम् ॥ ९९॥ दलितेन्दीवररूपे दर्शितदशकण्ठयौवतविलापे । धूतशरचापकलापे दीव्यति हृदयं दिलीपकुलदीपे ॥ १००॥ निगमान्तवनकुरङ्गे निर्मलमुन्यन्तरङ्गनटरङ्गे । रुचितुलितरवितुरङ्गे क्वचन रमे रघुकुलार्णवतरङ्गे ॥ १०१॥ दशकन्धरमदसिन्धुरदलनधुरन्धरनिशातशरनखरम् । पटुमवने निगमवनेचरमवनेः कन्यया हरिं कलये ॥ १०२॥ कपिकुलकलितपरिधये करुणानिधये शरास्तवारिधये । वितनोमि दाशरथये विनतिं सीताविहारसारथये ॥ १०३॥ वन्देऽहं दीनदयावासं देहकृतजलदसन्देहम् । तं जनकजाक्षिरञ्जनतारुण्यमपाङ्गसङ्गतारुण्यम् ॥ १०४॥ रक्षोनीकं दलयन्कन्दलयन्योऽभवन्मुदमृषीणाम् । इषुणा सहसा लवनं सालवनं नीतवान्स मे शरणम् ॥ १०५॥ शशधरखण्डमपडनशरासनिरासकला कुशलकराम्बुजेऽम्बुदकदम्बविडम्बचणे । निशिचरसिंहसंहननलाविशिखं विशिखं दधति दधामि धामनि मनो मुनिमोदपदे ॥ १०६॥ धरणिसुताजयोधरधराधरकूटतटी- घुस-णरजोभिशोभितभुजान्तरबन्धुरया कवचितमेकया करणमन्तर्दं तरुणी- कृतशिलया दिनाधिपकुलोदयया दयया ॥ १०७॥ दशरथसूनवे नवसुधायशसे वसुधा- दुहितृविहारगौरवपुषे करुणावपुषे । प्रणतिमुदारनीरनिधिसाध्वसदाय सदा कुवलयदामकोमलतनूरुचये रचये ॥ १०८॥ दशमुखभङ्गसङ्गमितसर्वसुपर्वचतु- र्वदनसविस्तरस्तवनिवर्तितमर्त्यमतौ । हृदयमरातिभीतिकरणेषुधनुःस्मरणे कलिहरनाम्नि धाम्नि रुणानिलये कलये ॥ १०९॥ भुजगकलापचापपरिभञ्जनसञ्जनित- स्तुति भुजविक्रमक्रमगृहीतमहीतनया । मम हृदि वासना स्मरति सङ्गररङ्गरण- द्दशमुखसर्पदर्पभरशिक्षणपक्षिपतिः ॥ ११०॥ अरविन्दजदलसुन्दरनयनं दरहसितं मणिकुण्डलकृतमपडनमुखमण्डलशशिनम् । रघुपुङ्गवमिदमङ्गजमदभङ्गदवपुषं मम चिन्ततु हृदयं ततमपि कृन्ततु दुरितम् ॥ १११॥ निगमावलिसुगमाकृति गतये रिपुहतये विनतामरजनतावृतजनुषे धृतधनुषे । अनयाशरजनयाम्यनगरवेदनगुरवे तनुमो नतिमनुमोदितयतये रपुषतये ॥ ११२॥ दशकन्धरभृशकम्पितसुमनोभयशमनो नदनायककदनाशुगहृदयो मम हृदये । सुजनोचितभजनो घनरुचिराकृतिरचिरा- दुपयाति स कृपयाऽवनिसुतया सह हितया ॥ ११३॥ क्षणदाचरगणदारणचणदारुणविशिखं करुणारसवरुणालयमरुणान्वयतिलकम् । प्रियया घनदयया सविनयया सह मिलितं स्मर मानस चरमायुषि परमापदि सुखितुम् ॥ ११४॥ भज मानस परिपालितभजमानसमुदयं कपिलक्षण विरहासहकपिलक्षणनिकटम् । रघुनन्दनमघभञ्जनरपुनन्दनवनिके कलितापदममरद्विषि कलितापदकथनम् ॥ ११५॥ गुरुत्वराकृतानतीन्मरुत्वदादिदिक्पती- नतीत्य तीव्रमञ्जनासुतादिमाञ्जनानपि । क्रमेण मेऽयते मनस्तमेव मेघमेचकं करस्थचापसायकं ककुत्स्थवंशनायकम् ॥ ११६॥ करारविन्दयोः शरं शरासनं च बिभ्रती बिसप्रस्तसप्रभा भृशं विशालयोर्दृशोः । तनूकृताभ्रविभ्रमा मनूदितान्वयक्रमा दया महीसुतासखी मया मनस्युपास्यते ॥ ११७॥ दशाननं निबर्हितुं भृशानतामरोक्तिभि- र्गृहीतमर्त्यविग्रहा महीतले सकृन्मया । मदीयवंशदेवता यदीयमीड्यते तदा कृतान्ततो न मे भयं नितान्तभीषणादपि ॥ ११८॥ यमार्यमादिपञ्चकक्रियोपभोगिभीतिदं यमार्यमाहुरागमा महात्मनामिहाश्रये । विभावरीचरेश्वरप्रभावदावपावके विभावरीणवैभवे मनो विनोदमेति च ॥ ११९॥ भजामहे वयं सुधाभुजामहेयसेवनं भुजामहेभहस्तसङ्गृहीतबाणकार्मुकम् । उदारसारराक्षसच्छिदारसाकुलं रणे सदारसानुजस्थितिं सदा रघूद्वहं प्रभुम् ॥ १२०॥ सहस्रं सन्त्यन्ये शतमखशशाङ्कप्रभृतयः । परावृत्तं तेभ्यः प्रसजति मनो मे क्वचिदपि । नवाम्भोदश्यामे नलिनदलसोदर्यनयने धनुर्बाणाकल्पे धरणितनयाविभ्रमपदे ॥ १२१॥ शरासं बिभ्राणां शातमखशरासाभमिषुणा सहारातिग्रीवारुधिरमधुसेवारुचिमता । भजामो जीमूतश्रियमवनिजामोहनतनुं दयावश्यापाङ्गां दशरथतपस्यापरिणतिम् ॥ १२२॥ मदक्षीबक्ष्वेलामुखरखरकीलालघुसृण- द्रवैरालिम्पन्तं रणधरणिमेणीदृशमिव । भजे व्योमस्थानां नयनकुतुकस्थानसमरं जनस्थानारण्यायतनमनरण्यान्वयमणिम् ॥ १२३॥ भ जाने प्राचीने जनुषि सुकृतं किं न्वकरवं सतां वंशे चाहं समजनिषि कीदृङ्महिमनि । अधीशो लोकानां मम हृदयमारोहति यतो जगद्वन्द्यः श्रीमाञ्जनकनृपकन्यासहचरः ॥ १२४॥ स्फुरन्नानाकल्पं भुजपटिमजल्पाकपुरभि- द्धनुष्कं किष्किन्धानवनृपतिसन्धानचतुरम् । कमप्यन्तः कुर्वे करतलगृहीतेषुधनुषं तमालश्यामाङ्गं तपनकुलराजन्यतनयम् ॥ १२५॥ गिरिजापतिगीयमाननाम्ने नलिनीनायकवंशभाग्यभूम्ने । प्रपातोऽस्मि पयोदमेचकिम्ने वनमालाधरवक्षसे महिम्ने ॥ १२६॥ दिक्पालस्मयधस्मरक्रमदशग्रीवग्रहव्यग्रदोः - स्तम्भाडम्बरकार्तवीर्यविजयव्याख्यातमुख्यौजसः । जेतारं जमदग्निजन्मन ऋषेर्वीरस्य सारस्वत- स्रोतः स्यूतघनालिमालिखति मे चेतः शरण्यं नरम् ॥ १२७॥ अङ्के निवेशितविदेहकुमारिकाणां लङ्केशदारललितासहसायकानाम् । आसारवाहिकरुणाभृदपाङ्गितानां कासामपि प्रपदनं कलयामि भासाम् ॥ १२८॥ न हि तन्न करोमि यन्निषिद्धं विहितं यद्यपि कर्म नचाचरामि । धरणीदुहितुस्तथापि नाथं शरणीकृत्य कृतार्थतामुपैमि ॥ १२९॥ अयं शक्रादीनां गणमगणयित्वा दिविषदा- मुपेक्ष्य स्वच्छन्दं द्रुहिणमनवेक्ष्य त्रिनयनम् । पदत्रस्यापि श्रीकरमृषिवङूकल्मषहरं नमस्कारोऽस्माकं रधुपतिपदाब्जं मृगयते ॥ १३०॥ प्रत्यग्राम्बुदजालनीलवपुषं पाणिस्फुरत्कार्मुकं पार्श्वद्वन्द्वनिविष्टपत्न्यवरजं राजन्यमेकं प्रभुम् । नेत्रश्रीनिगृहीतनीरजलदच्छायामदं मे मुदा चेतः शीतमयूखशेखरधनुर्द्रोढारमाढौकते ॥ १३१॥ असुपवनभुजङ्गीभूतबाणामरीणां निगमवनकुरङ्गीं नीरदश्यामलाङ्गीम् । मदनतरलसीतामानसाम्भोजभृङ्गीं कलयति हृदयं मे कामपि प्रेमभङ्गीम् ॥ १३२॥ ज्यावल्लि कारणवशाद्रघुवंशकेतोः कर्णान्तमेष्यसि कदापि विकृष्यमाणा । देवे निवेदय तदा मम दौरवस्थ्यं धर्माश्रितासि यदतः किल ते ब्रवीमि ॥ १३३॥ कृत्वा स्थावरतावहानि कतिचित्पापानि पापप्रियो नाभूवं सरयूतटे तृणमपि प्रागेव कस्मादहम् । यत्तत्रत्यचराचरेभ्य इव मे देवः स्मराविष्कृत- स्वर्गस्त्रैणनिसर्गकेलिमधुरान्सान्तानिकान्दापयेत् ॥ १३४॥ हिन्दोलभूषणमकृत्रिमवाक्तरुण्या मन्दोदरीमदनकेलिसमापनास्त्रम् । केलीसखं जनकराजकिशोरिकाया नालीककार्मुकधरं नरमाश्रयामः ॥ १३५॥ चेतः शतक्रतुमुखेषु मखाशनेषु तिष्ठन्तु निष्ठुरपुराणतपोबलेन । उत्कण्ठतेऽद्य दशकण्ठमदद्विपेन्द्र- कण्ठीरवं कमपि वीरमुपासितुं नः ॥ १३६॥ प्राचीनप्रभवशतार्जितैस्तपोभिः प्रोन्मीलत्कुतुकतरङ्गमन्तरङ्गम् । दिष्ट्या मे दिनकरवंशदीपमेकं कोदषडाभरणमुपैति कोसलेन्द्रम् ॥ १३७॥ कारुण्यामृतपरिवाहभागपाङ्गं वैदेहीस्तनघनसारवासिताङ्गम् । नाराचक्षपितनदीश्वरावलेपं ध्यायामः कमपि करात्तवाणचापम् ॥ १३८॥ लङ्केशद्विरदमृगाधिपो गुणानां सङ्केतस्थलमवनीसुतासहायः । निर्वेलप्रसृदतयोऽस्तु मे शरण्यः सर्वेषामपि जगतां स कश्चिदीशः ॥ १३९॥ अशनिपरुषघोषा जीवितं हर्तुकामा यमभटजनपङ्क्तिर्यावदायाति भीमा । मरकतमणिनीले मैथिलीकेलिलोले महिमनि मम तावन्मग्नमस्त्वन्तरङ्गम् ॥ १४०॥ देहावसानसमये दयया रघूणां वीरः कराम्बुजविराजदभीतिमुद्रः । आरुह्य पुष्पकमलङ्कृतवामभागो देव्या विदेहसुतया मम सन्निधत्ताम् ॥ १४१॥ सुरैः प्रथमः स्तुता तदनु योगिभिर्भाविता ततः प्लवगभल्लुकैर्जय जयेति सम्भाविता । जगत्त्रितयनायिका जनकराजकन्यान्विता मदीयकुलदेवता वसति रत्नसिंहासने ॥ १४२॥ आश्चर्यं न किमनवेक्ष्य लोकपालान् उल्लङ्घ्य द्रुहिणमुपेक्ष्य चन्द्रचूडम् । अस्माभिः सविनयमञ्जलिः कृतोऽयं पादाब्जं भजति पयोधिबन्धनस्य ॥ १४३॥ श्रीकण्ठायुधशिथिलीकृतिप्रवीणो निःशेषीकृतभृगुनन्दनावलेपः । स्रोतस्विन्यधिपतिसूचितप्रतापो देवो मे दशमुखशासनः शरण्यः ॥ १४४॥ सुत्रामप्रमुखसुपर्ववन्द्यलीलं भल्लूकप्रवगपरिष्कृताङ्घ्रिमूलम् । वैदेहीवलयपदाङ्कशोभितांसं चेतो मे स्मरति चिरन्तनं पुमांसम् ॥ १४५॥ सङ्क्रन्दनस्यन्दनभूषणानां नाराचधारार्दितरावणानाम् । वेमानिकाश्चर्यरणक्रमाणा- मध्येमि केषामपि विक्रमाणाम् ॥ १४६॥ आम्नायमौलिमणिमब्जभवादिवन्द्यं नाम्ना विभूषितनगेन्द्रसुतामुखेन्दुम् । द्वैधीकृतेशधनुषं पुरुषं तमेकं नाथं विधाय हृदयं मम नानटीति ॥ १४७॥ सुग्रीवाङ्गदजाम्बवद्धनुमतां सूक्ष्मेक्षिकालक्षितं श्रुत्वा मन्त्रमनन्यतन्त्रहृदये श्च्योतद्दयोर्मीमये । दर्पान्धं दशकन्धरं विजहतस्तद्भ्रातुरभ्यागमं सार्थीकुर्वति निर्वृतिं भजति मे स्वान्तं कबन्धान्तके ॥ १४८॥ पारावारतटे धनुःशरपरिष्काराग्रहस्ताम्बुजं नम्रस्याशरनायकानुजनुषो नाथीभवद्याचतः । मेघश्यामलकान्तिमेदुरकृपामेदस्विनेत्राञ्चलं किञ्चिद्वस्तु निवस्तुमस्तु हृदि मे कीशाच्छभल्लावृतम् ॥ १४९॥ उत्सृज्याग्रजमुग्रजल्पितमपि क्रव्यादभव्याधिपं सम्प्राप्तेन विभीषणेन सचिवैः सार्धं स्थितेनाम्बरे । दीनत्राणधुरीण देव करुणा देया मयीत्यर्थितं भक्तास्मो हृदि राघवं परिवृतं भल्लूकशाखामृगैः ॥ १५०॥ सुग्रीवागतमेनमानय दशग्रीवानुजं वा दश- ग्रीवं वा प्लवगेन्द्र किं गणनया दत्तं मयास्याभयम् । इत्यामन्त्र्य विभीषणाय ददतो लङ्काधिपत्यं प्रभो- र्ध्यायामः प्रतिपन्नसन्नतदयादीक्षान्कटाक्षाङ्कुरान् ॥ १५१॥ दर्भास्तरन्यस्तशरीरभारं सिन्धोः प्रसादाय रघुप्रवीरम् । मदव्यपेतं महति प्रतापेऽप्यन्वेति नन्वेष ममान्तरात्मा ॥ १५२॥ दानोत्कर्षक्षममुपदधद्दक्षिणं बाहुदण्डं दीर्घीकुर्वन्नितरमसितज्याकिणाङ्कप्रकोष्ठम् । प्रान्ते कृत्वा धतुरिषुमपि प्रातुमब्धेः प्रसादं देवो दर्भास्तरणशयितश्चित्तभुत्तम्भते नः ॥ १५३॥ भक्तिप्रह्वविभीषणार्पितकरन्यस्तैकहस्ताम्बुजः सुग्रीवेण पुरो निवारितजनः सौमित्रिणानुद्रुतः । सम्भ्राम्यद्भरतोपनीतचरणत्राणार्पिताङ्घ्रिद्वयो दिष्ट्या सम्प्रति मानसं विशति मे राजैष राज्ञामपि ॥ १५४॥ वयश्चतुरमस्थिरं गुणवती वाधूरद्रुवा न सम्पदविनश्वरा न चिरजीविनो बान्धवाः । इति स्वयमवेत्य चिद्घनसदात्भके शाश्वते रमस्व रघुपुङ्गवे हृदय नान्यदालोचय ॥ १५५॥ उत्तुङ्गभूमितनयाकुचशैलश‍ृङ्ग- काश्मीरगैरिकपरागकरम्बिताङ्गः । भग्नक्षपाचरतरुर्भरताग्रजन्मा मत्तद्विपो विहरतान्मनसि ह्रदे मे ॥ १५६॥ रणभुवि कृतलङ्कातङ्कहुङ्कारगर्भ- भ्रुकुटिविकटव कार्भुकारूढपत्रः । निखिलनिजसपक्षक्षेमकामः पुरो मे स भवतु रधुवीरर साध्वसध्वंसहेतोः ॥ १५७॥ रणप्रवणरावणव्रणदबाणमोक्षक्षण- क्वणद्गुणधनुर्ध्वनित्वरितमारितारिव्रजः । जगद्दुरितजर्जरीकरणजागरूकक्रमो मम व्यपनयेद्भयं मनुकुलप्रवीराग्रणीः ॥ १५८॥ स्फुरदभिनवरत्नश्रेणिरज्यत्किरीटे सुरभिलवनमालालङ्कृतोरःकवाटे । सरति खलु मनो मे सर्वलोकैकनाथे पुरभिदभिमताख्ये पुंसि सीतासनाथे ॥ १५९॥ पुष्पपाण्याक्षिपता फलानि हरता पृथ्वीरुहान्भञ्जता व्याघ्रान्द्रावयता द्विपान्प्रहरता कण्ठीरवान्कर्षता । रक्षःसैन्यजिगीषुणा हरिचमूचक्रेण साकं व्रजन् स्वामी चेतसि मे मुदं स कुरुते भूमीसुतावल्लभः ॥ १६०॥ कदनमरिनगर्याः कर्तुमुद्दामभीमैः कपिभिरनिलसूनुस्कन्धमारुह्य यान्तम् । कनकशिखरिश‍ृङ्गारूढकालाम्बुदाभं कमपि मनसि वीरं कुर्महे शर्महेतोः ॥ १६१॥ उग्रे तपस्यपि पयोधिमुपेक्षमाणं बाणत्रुटत्तिमितिमिङ्गिलरक्तशोणम् । कुर्वन् रुषा मनुकुलीनकुमारवीरः कौतूहलं दिशति मे हृदि कौसलेयः ॥ १६२॥ जलधिजनितकोपजायमानभ्रुकुटिविटङ्कभयङ्कराननाय । गगनचरगणः प्रणाममस्मत्कुलपतये कुरुते स्म राघवाय ॥ १६३॥ जलदनीलतनौ जनकात्मजावदनचन्द्रवशीकृतमानसे । शरशरासनचारुकराम्बुजे रघुपतौ रमतां हृदयं मम ॥ १६४॥ दलदुत्पलदामकोमलाङ्गं दयमानं मनुवंशशैलश‍ृङ्गम् । करपद्मगृहीतचापवाणं कलये कञ्चन पूरुषं पुराणम् ॥ १६५॥ पिपासितास्त्रनिष्पीतप्रेयसीमातृमेखलम् । वस्तु विध्वस्तपौलस्त्यं पुरस्तादाविरस्तु नः ॥ १६६॥ स्मरतरलविदेहराजकन्या- कुचतटकुङ्कुमयोगपिञ्जराय । मनुकुलमणये नमोऽस्तु गौरी- रमणशरासनसालकुञ्जराय ॥ १६७॥ द्वितीयो निष्यन्दः । वन्दे तमिन्दीवरदामनीलं वन्दारुमन्दारपदारविन्दम् । रामं सुरामङ्गलकृद्विरामं क्षेमङ्करामन्दशराभिरामम् ॥ १॥ भजामि देवं भरताग्रजं तं पदाम्बुजं यस्य पवित्रकीर्त्तेः । शिरांसि वा शीलयति द्युतीनां मनांसि वा मत्कुलसम्भवानाम् ॥ २॥ ममान्तरुन्मीलति मानवेन्दुर्महीसुताविभ्रमसूत्रकारः । निपातयामास निशाचरेन्द्रं विदन्बुधानां विधिगौरवं यः ॥ ३॥ देवतासु शरणीकरणार्थं धावता सुचिरमेकतमा मे । चेतसा गतिवशेन गृहीता धूतसागरमदा विशिखैर्या ॥ ४॥ कुम्भजादिमुनिकोटिनुतं चेत्तं भजानि तपनान्वयदीपम् । वासरे न चरमे भविता मे कासरेण सह कालनिरीक्षा ॥ ५॥ आमनेम यदि कोमलवर्णं रामनाम भुवने महनीयम् । व्योमसीमनि वसेम सुखाख्ये धाम डामरमियाम न याम्यम् ॥ ६॥ नूतनागमघनाभशरीरे भूतनाथधनुरक्षमसारे । पूतनामनि मनो यदि रामे यातना न भविता यमतो मे ॥ ७॥ पूर्वजन्मकृतपुण्यमहिम्ना पुञ्जितेन मतिरुज्झितनिम्ना । कुत्रचिद्विहरते गुणतुङ्गे कुम्भकर्णकुमुदैकपतङ्गे ॥ ८॥ पापिनोऽयमिह पावयितेति प्रत्ययेन मम चित्तमुपैति । भूयसा हतनिशाचरलोकं भूसुताहृदयतस्करमेकम् ॥ ९॥ अङ्कितं जनकजाकुचभाजा कुङ्कुमेन च कुरङ्गमदेन । तं कठोरशरकारितलङ्कातङ्कमेव मतिरेति युवानम् ॥ १०॥ उत्पलद्युतिमुदञ्चितयोगं विद्युतेव च विदेहकुमार्या । चातको नवमिवाम्बुदमेकं चापभूषितमुपैति ममात्मा ॥ ११॥ अस्तु मे हृदयमप्यणुभात्रं वस्तुमेव वलते कृपयाऽस्मिन् । कोटिभिः परिवृतः प्लवगानां कोऽ पि कोकनदबन्धुकुलीनः ॥ १२॥ निग्रहे युधि निशाटचमूनामुग्रहेतिभिरुदग्रविहारम् । तापसामरशरण्यमुपासे चापसायकधरं रघुवीरम् ॥ १३॥ हस्तेनाम्बुजकोमलेन चरणाम्भोज्जक्वणन्नूपुरं कौसल्याकरपल्लवाङ्गुलिदलान्यालम्व्य मन्दं चरन् । पश्यत्पङ्क्तिरथाक्षिपङ्कजनवादित्यो हरत्येव मे चित्तं कोऽपि चिरन्तनोक्तियुवतेरुत्तंसभूतः शिशुः ॥ १४॥ चेतः शीतलयत्यधिष्ठितवता सौधस्थलीमुन्नता- मानन्दार्द्रितचेतसा दशरथेनालोकिताभ्यागमः । श्यामाङ्गः शरदिन्दुबिम्बवदवः स्मेरारविन्देक्षणः कोऽपि स्वर्णकुथाभिरामकलभस्कन्धाधिरूढः शिशुः ॥ १५॥ मणिसरधरं कण्ठे मध्ये हिरण्मयकिङ्किणी- नहनसुभगं नालीकाक्षं नवाम्बुदमेचकम् । दशरथनृपस्त्रीणामङ्केषु सङ्क्रमितं क्रमा- द्विचिनुत जनास्त्रय्यन्तार्थं विडम्बितशैशवम् ॥ १६॥ गुरूपरिचरणेनालं कुवलयनीलं गृहीतशिशुलीलम् । द्रक्ष्यथ दशरथनृपतेः शुद्धान्तेष्वागमान्तसिद्धान्तम् ॥ १७॥ प्रतिकलमजसूनुसुन्दरीभिः पृथगुपलालितमङ्कमण्डलेषु । विकचकुवलयद्युतिं विनोदादुपनिषदर्थमुदीक्षितुं यतध्वम् ॥ १८॥ हत्वा चण्डपराक्रमं दशमुखं क्षिप्रं रणप्राङ्गणे वामं न्यस्य करं शरासशिखरे सव्ये शरं बिभ्रतः । बन्धस्रंसिजटाभरस्य निटिलव्याकीर्णघर्माम्भसो देवस्यावतु नस्त्रिभङ्गिललिता धीरोद्धता च स्थितिः ॥ १९॥ केनापि कीशभटकोटिनिषेवितेन मन्दोदरीमधुमदासहमार्गणेन । जीमूतमेचकरुचा जलजेक्षणेन वीरेण तुष्टमपि हृष्टमिदं मनो मे ॥ २०॥ धाराधीश्वरवंशमण्डयितरि क्रोधोत्पतत्ताडका- हन्तर्यध्वररक्षितर्यृषिवधूशापव्यपाकर्तरि । चन्द्रापीडशरासभेत्तरि महीकन्यासमुद्वोढरि क्रुध्यद्भार्गवदर्पभङ्क्तरि मनः कुर्यां नृवर्यात्मजे ॥ २१॥ नवकुवलयश्यामे वामेन बिभ्रति पाणिना धनुषमितरेणाजावाजानसिद्धजयं शरम् । विहर हृदयेदानीमानीलजूटजटाधरे विबुधमकुटीहीरे वीरे विराधविरोधिनि ॥ २२॥ कमपि च पुरुषं कृपाविधेयं गुहजननीगुणनीयनामधेयम् । शरविदलितशाम्बरीकुरङ्गं शरणमुपैति मदीयमन्तरङ्गम् ॥ २३॥ सान्द्रं पुष्यति चम्पकः कुरबको धत्ते नवान्कोरकान् माकन्दः स्तबकान्व्यनक्ति बकुलः पुष्पाणि पुष्णाति च । झङ्कुर्वन्ति मधुव्रता विदधते चारुस्वनं कोकिलाः पश्येति क्षितिकन्यकामनुनयन्दीव्यत्यटव्यां प्रभुः ॥ २४॥ स्वेनालङ्कृतपद्मबान्धवकुलां मेनातनूजापते- र्भङ्क्त्वा चापमवापितां वसुमतीकन्याकराब्जग्रहम् । कामप्यन्वहमाश्रयेम करुणां कादम्बिनीमेचकां काकक्रोष्टुकदम्बसात्कृतखरक्रव्यामटव्यां पुरा ॥ २५॥ कल्याणी मतिरद्य काङ्क्षितपरित्राणा रघूणां प्रभुं सौवर्णत्सरुरच्यमानचलरुच्याक्षेपिकौक्षेयकम् । मायूरच्छदमेचकच्छविमिलत्पुङ्खस्फुरन्मार्गणं कञ्चित्काञ्चनपट्टलाञ्छनबृहत्कोदण्डमाहिण्डते ॥ २६॥ वालास्फालितवारणैः करतलव्याकर्णिकपतीरवैः पादाघातचटच्चटायितपतत्प्रोत्तुङ्गपृथ्यीरुहैः । गर्जद्भिः कपियूथपैः सह दशग्रीवं विजेतुं व्रजन् इन्द्रे चेतसि मे समीरतनयस्कन्धेऽधिरूढो विभुः ॥ २७॥ अंसे निषङ्गमवसज्य करारविन्दे चापं शरं च जनकात्मजया वहन्त्या । साकं प्रसूतहरणाय वने चरन्तं साकेतनाथमनुयाति मनो मदीयम् ॥ २८॥ पुण्ये पञ्चवटीनदीपरिसरे पुष्पावचाये कृते प्रस्विन्नाननपङ्कजः प्रसृमरश्वासालसालोकनः । श्रीखण्डद्रुममूलवर्तिनि शिलापट्टे समन्दानिले विश्राम्यन्सह सीतया मनसि मे विश्राम्यतीव प्रभुः ॥ २९॥ सेवन्तामितरे शशाङ्कशकलोत्तेसं पुमांसं तथा वेणूदञ्चितनादवञ्चितलसद्गोपीजनं वा जनाः । सेव्यः कश्चन निश्चितो मम जनस्थानाटवीसङ्कट- क्रव्याद्योधसहस्रसप्तकयुगच्छेदक्रियासाहसी ॥ ३०॥ चक्रीकृत्य शरासनं धलधलाकुर्वत्सुवर्णाञ्चलं मुञ्चन्दिक्षु विदिक्षु काञ्चनभृतः पुङ्खानुपुङ्खान् शरान् । स्वामी नः खरसेनया निखिलया साकं समीकक्षितौ कृत्तक्षिप्तभुजाशिरश्चरणया क्रूरं परिक्रीडते ॥ ३१॥ यस्याः सन्ति कराः सहस्रमपि वा यस्याः सहस्रं दृशः कृत्त्वा देवतयोर्द्वयोरपि तयोः स्वस्थौ सुतौ विश्रुते । वीरे विश्रवसश्चतुर्ष्वपि सुतेष्वाद्यन्तशेषीक्रिया- विद्याचुञ्चुशिलीमुखे विहरते वीतक्लमं मे मनः ॥ ३२॥ आक्रान्तं हृदयं दयापरवशस्वान्तेन दान्ते जने चापज्यापटुघोषभीषितनमल्कल्लोलिनीकामिना । क्रव्यादेषु कृतान्तकेलिकलनाचातुर्यधुर्येषुणा केनापि प्लवमानसैनिकपरीवारेण वीरेण मे ॥ ३३॥ प्रच्छायद्रुम ऋश्यमूकशिखरे पार्श्वस्थितेनैकशः सुग्रीवेण निवेद्यमानजननस्थानप्रभावाह्वयान् । पश्यन्वानरयूथपानुपगतान्पाथोदनीलाकृति- र्वीरः सावरजः स भाति हृदि मे विश्वत्रयाधीश्वरः ॥ ३४॥ कृपारसपयोधिना खरवरूथिनीयोधिना महामहिमशालिना मुनिहदब्जकोशालिना । मनो मम कृपाणिना शरशरासमृत्पाणिना जटामकुटधारिणा तरलितं विराधारिणा ॥ ३५॥ कन्दर्पकोटिशतसुन्दररूपधेयं कञ्चित्प्रभुं भुवनमङ्गलनामधेयम् । नन्वस्थिरेऽपि हृदये नतिकृद्विधेयं कुर्मः कुशेशयसुहृत्कुलभागधेयम् ॥ ३६॥ मौलिविराजन्मणिमयमकुटीमङ्क्षुनिपातनहृतरिपुगर्वः सर्वसुपर्वस्तुतिपदसमरप्राङ्गणचङ्क्वणदिषुगणलीलः । भल्लुकमल्लप्लवगवरचमूपाणिपदाहतिविरचितलङ्का- गोपुरभङ्गः कुतुकयति मनः कोऽपि कुशेशयदयितकुलीनः ॥ ३७॥ वार्षिकपाथोवहरुचिवपुषा वारितवारिधिबहलमदेन प्रातरुदञ्चत्प्रभकमलदलप्रस्तुतविस्तृतनयनतुलेन । निटिलजटालीनिबिडितशिरसा निस्तुलकार्मुकविशिखधरेण क्रीतमिवान्तःकरणमिदमहो केनचिदाननसुलभकृपेण ॥ ३८॥ सुन्दराकृति यत्कबन्धवसुन्धरारुहखण्डने गन्धसिन्धुरदूमिबन्धुरसिन्धुबन्धधुरन्धरम् । यस्तु निस्तुलमस्तु तद्धृदि शस्त्रशस्तपुलस्त्यभू- हस्तमस्तकमास्तिकस्तुतिविस्तरार्हयशस्ततम् ॥ ३९॥ कृत्तराजसमत्तरावणमुत्तराधरयोः समं दत्तमङ्गलमुत्तमं नृषु चित्तमञ्चति मामकम् । तं कुतूहलि सङ्कुचल्लिकुचस्मयक्षितिजाकुच- द्वन्द्वसङ्गमलग्नकुङ्कुमपिञ्जरं रघुकुञ्जरम् ॥ ४०॥ कल्पकद्रुमदर्पहृत्पदपङ्कजप्रचलद्रजः स्पर्शदर्शितगौतमाप्रियमेतमप्रतिमं नरम् । तुङ्गसङ्गररङ्गसङ्गमितप्लवङ्गमपुङ्गव- प्रेरितद्रुमदारितक्षणदाचरं गतिमाचरम् ॥ ४१॥ ऊर्मिलध्वनिकार्मुकच्छलवार्मुगुज्झितमार्गणा- सारदुर्बलवीरकर्बुरवारनिर्भरकौतुकैः । गृध्रमोदिनि युद्धसीमनि सिद्धचारणकिन्नरैः श्लाघितो हृदि मोघितैनसि राघवो मम भासते ॥ ४२॥ तापसामरगोपसाहसिचापसायकलाञ्छनः चारुगोस्तनजानकीस्तनकौतुकी स्तनयित्नुभाः । क्रुध्यदापतदुद्यतायुधविध्यदन्तककिङ्करे कश्चिदेव हि निश्चितो मम पश्चिमेऽहनि रक्षिता ॥ ४३॥ दिष्ट्या सम्प्रति मे मनः स्पृहयते दुष्टाशरानीकिनी- कष्टापादनतुष्टिकृत्कपिचमूश्रीकामिने स्वामिने । दूरादस्तसुरार्तये दशमुखध्वंसोन्मिषत्कीर्तये तत्कालस्थितलोकलोचनसुधावर्तीभववन्मूर्तये ॥ ४४॥ कलमकणिशपुञ्जपिञ्जराङ्ग- प्लवगकदम्बकरन्धितोपकण्ठम् । उदयदरुणचन्द्रबिम्बचिह्व- प्रभमुपसर्पति मानसं प्रभुं नः ॥ ४५॥ शरहतदशकधरं धरित्रीदुहितृपयोधरपत्रलेखधुर्यम् । कमपि नृपकुमारमेकवीरं भजति मनो मम भानुवंशरत्नम् ॥ ४६॥ विकचकमलपत्रमित्रनेत्रं विकटजटापटलीभृदुत्तमाङ्गम् । कपिकुलकलिताब्धिसेतुबन्धं कमपि कबन्धभुजाभिदं भजामः ॥ ४७॥ आकाशमध्यगतनाकालयप्रकरशोकापनोदनजय- श्रीकामवानरसमीकावपातितमहाकायराक्षसकुलम् । राकामृगाङ्कमधुराकारवक्त्रमगनीकाशकार्मुकधरं काकापराधसहमाकारयामि हृदि लोकाधिपं रघुपतिम् ॥ ४८॥ वन्दारुहृष्यदरविन्दासनप्रभृतिवृन्दारकव्रजशिरः - सन्दानिताभिनवमन्दारदाममकरन्दाभिषिक्तचरणम् । तं दाशरथ्यभिहितं दानवारिमृषिवृदाय मोक्षपदवी- सन्दायिनं भजति मन्दापि गे मतिरियं दाशकीशसुलभम् ॥ ४९॥ सुत्रामपावकपवित्रादिदेवजनवित्रासनक्षमभुजा- मित्रातिघोरदशवक्त्रावखण्डनजचित्रावदातयशसि । सत्रा शरेण धनुरत्त्रासुपञ्चकममित्रावलेर्दधति मे कुत्रापि- धामनि पवित्राभिधेऽनुषजति त्राणलिन्तु हृदयम् ॥ ५०॥ तीराचलोदरविसारानुनादितगुणारावभैरवधनुः दूरापविद्धशरधारानिपातहृतनीराकरस्मयभरम् । आराधनीयमखिलैरादियोगिभिरुदारानुकम्पमधुना धीरादरेण मम वीराग्रगण्यमयते राघवान्वयमणिम् ॥ ५१॥ भूतावसादिति रणे तादृशि च्युततनौ ताडिते दशमुखे गीतापदानमुपयाता सुरैः सह विनीताशयेन विधिना । सीताविहारसखमातातमाविधि च मे तावदन्वयभुवां नेतारमेव भजते तापमुज्झितुमुदीतादरं मन इदम् ॥ ५२॥ पश्यन्तः शबरार्भकाः शुकगणभ्रान्त्या जिघृक्षन्ति यां सारङ्गाश्च नवोन्मिषत्तृणधिया संरुन्धते चर्वितुम् । दूरादेव पलायते फणिकुलं बर्हभ्रमाद्भर्हिणां सैषा पश्चवटीजुषो रघुपतेः शोभा पुरो भाति मे ॥ ५३॥ अस्तामीलनमक्षिनीलनलिनव्यूहेन देहेऽर्चितेः शङ्काऽऽतङ्कविवर्जितेन शबरस्त्रीणां मृगीणामिव । वीरश्चेतसि विश्लथीकृतखरोच्छ्रायो महायोगिनां वन्द्यः पश्चवटीवनान्तरकुटीवासी ममासीदति ॥ ५४॥ पाण्योः कार्मुकमाशुगं च शिरसि श्यामं जटामण्डलं कट्या चीरमुदारमंसफलके तूणीरमाबिभ्रतम् । शाणोल्लीढहरिन्मणिस्मयहरच्छायं कृपायन्त्रितं भूमानं कमपि स्मरन्मरकतश्यामायते मे मनः ॥ ५५॥ अधिरोहतीव हृदयं ममाधुना युधि रोषपातितविभीषणाग्रजः । स्मरचारुतामदहरस्तनुश्रिया शरचापलाञ्छितकराम्बुजः प्रभुः ॥ ५६॥ अवसानहीनभवसागरान्तरे पतितः परेतपतितस्त्रसन्नहम् । शरणीकरोमि धरणीकुमारिकादयितं दयावलयितं दृगञ्चले ॥ ५७॥ किमनेन मेऽन्यनमनेन लभ्यते लघुना यदस्मि रघुनायकं भजन् । कुरुते जनः किमुरुतेजसाऽऽर्जिते कनकाञ्चले क्वचन काचमार्गणम् ॥ ५८॥ मनुराजवंशजनुराजवङ्गवच्छिदुरोऽसदाननदुरासदाभिधः । महता शरेण स हताशरेश्वरः कृपयातिमात्रमुपयाति मानसम् ॥ ५९॥ एकवारमपि नाकवासिषु विवेकवानधिकमेकको धावता न घटतेऽवतारयितुमेव तादृशि कृपां मयि । एहि मान्यगुण पाहि मामिति ततोऽहिमांशुकुलशेखरं चेतसाऽवृणि निशातसायकविघूतसागरमदं प्रभुम् ॥ ६०॥ भैरवाहवविहारवानरचमूरवाकलितराक्षस- त्रासना गिरिसुतासनाथपुरशासनादृतनिजाभिधा । घोरदानवशरीरदारणविशारदाशुगधनुर्धरा भावना परिजनावनानुगुणसेवना मनसि भाति मे ॥ ६१॥ न क्षिणोति खलशिक्षणोऽतिममदक्षिणोदधिमवज्ञया जोषमास्थितमशेषमान्यगतिरेष मार्गणगणः कथम् । इत्यमुं मथितुमत्यमुञ्चदिह नित्यमुञ्छितरिपूनिषून् यस्तमालिखति नस्तमालरुचिमस्तमायिकमृगं मनः ॥ ६२॥ गीर्वाणैरिव कविभिः कृताभिमुख्ये नित्यं च क्षितिसुतया निबद्धसख्ये । मच्चेतः सरति मनुप्रसूतिमुख्ये मैनाकस्वसृमहनीयमङ्गलाख्ये ॥ ६३॥ किं ब्रूमहे तत इतोऽपि गवेषणाया- मालम्बनं क्वचिदपि त्रिज्गत्यलब्ध्वा । हन्त द्रुतं पतति मामकमन्तरङ्गं काकुत्स्थनामनि गभीरकृपाम्बुराशौ ॥ ६४॥ कादम्बिनीनिभरुचा कमलेक्षणेन कात्यायनीकमनकार्मुकभञ्जनेन । केनापि कीलितपयोनिधिना गृहीतं चित्तं तथापि मम चिन्तयते न किञ्चित् ॥ ६५। नक्तञ्चरेन्द्रजयनन्दितविष्टपेन नालीकिनीरमणवंशनवाङ्कुरेण । नाथेन बद्धमपिनद्धनदीश्वरेण नन्वद्य मानसमिदं मम नानटीति ॥ ६६॥ दशग्रीवोदग्रस्मयदलनकेलीचणशरः शरीरश्रीनिर्वापितहरितदूर्वारुचिमदः । स कश्चिन्निश्चिन्तः प्रविशति कठोरेऽपि हृदि मे दृषद्रूक्षारण्यभ्रमणकृतशिक्षाबल इव ॥ ६७॥ भ्रान्त्वा दिक्षु विदिक्षु दुर्लभसुखोपायं मदीयं मनो दिष्ट्या धावति देवताः परिहरद्दीनानुकम्पोज्झिताः । प्राप्ते साप्तपदीनतां करुणया दाशेन कोशेन वा नन्दिग्रामकृताधिपत्यचरणत्राणे पुराणे नरे ॥ ६८॥ उत्प्लुत्य व्रजतां स्फुटभ्रुकुटिकं हुङ्कारमातन्वतां वालाग्राणि विधून्वतां किलिकिलाकोलाहलं कुर्वताम् । योधानामरविन्दकेसररुचां मध्ये तमध्येति मे चेतश्चापशिलीमुखोज्ज्वलकराम्भोजं रघूणां प्रभुम् ॥ ६९॥ प्रायेण चेतसि मम प्रणयेन वस्तु- मस्मत्प्रभुः समुपसर्पति पुष्पकेण । चण्डोन्मिषत्किलिकिलाश्चलदीर्घपुच्छा यच्छादयन्ति गगनं गणशः प्लवङ्गाः ॥ ७०॥ कोऽयं विकर्षति मनो मम कुञ्जरेन्द्रो नालीकनालमिव नन्वयमेव जाने । रक्षोधिराजरमणीहृदयार्पिताग्नि- रक्षौहिणीशतपतिः कपिभल्लुकानाम् ॥ ७१॥ भल्लूकप्रकरेण जङ्गममषीपाषाणखण्डत्विषा गोलाङ्गूलकदम्बकेन वदने नीलाञ्चितश्मश्रुणा । पक्वोदुम्बरपाटलेन च कपिव्यूहेन नीरन्ध्रया वाहिन्या सह वर्तते हृदि स मे स्तोकेऽपि लोकेश्वरः ॥ ७२॥ स्वच्छन्दं कपिभिर्विहृत्य सुतरामाश्लिष्य दिव्यान्मुनी- न्दिक्पालेष्ववतीर्य मन्दमितरान्देवानतीत्याञ्जसा । दीनं दूरत एव साध्वसवशात्तिष्ठन्तमेतीव मां देवस्य क्षणदाचरेन्द्रजयिनो दृष्टिर्दमाशीतला ॥ ७३॥ वेदान्तविभ्रमवने विहितप्रचारः काकुत्स्थवंशमवतीर्य कदापि खेलन् । वाल्मीकिवाङ्निकरवागुरया गृहीतो हृत्पञ्चरं व्रजति कश्चिदयं शुको मे ॥ ७४॥ दशकण्ठकलत्रकण्ठरिक्तीकृतिधौरेयशरे क्वचिन्नरेन्द्रे । कलहंस इव स्फुटेऽरविन्दे कलयत्येष कुतूहलं ममात्मा ॥ ७५॥ विषयेषु विहारि निर्विशङ्कं हृदयं मे हृतवानलीव कीटम् । विभुरेष विदेहराजकन्या- कुचकुम्भच्युतकुङ्कुमारुणाङ्गः ॥ ७६॥ अयि मन्मथ कोप लोभमोहौ मद मात्सर्य वृथायमुद्यमो वः । शरणङ्कुरुते यतो मनो मे शरकृत्ताशरनायकं प्रभुं तम् ॥ ७७॥ पश्यङ्घ्रितापमचिरोज्झितपञ्चबाण- विद्यापुनर्गणनदायिपदारविन्दे । देवे मनश्चरति चन्द्रकलापचाप- द्वैतोपदेशविधिदेशिकबाहुदण्डे ॥ ७८॥ देवतान्तरमपास्य जन्मितादावतान्तजनभुक्तिदायिनम् । जानकीशमवलम्बते दयास्थानकीशनिवहं मनो मम ॥ ७९॥ वारिधिस्मयनिरोधिसायके वासराधिपतिवंशनायके । भक्तलोकभरणक्षमाशये भद्रकाङ्कि हृदयं निवेशये ॥ ८०॥ तिष्ठन्साकमनेकवानरभटैस्तीरेऽम्बुधेरुत्तरे देवश्चेतसि भाति मे कुटिलितभ्रूवल्लिदत्तेक्षणः । आगच्छत्यपगच्छति व्यतिषजत्युज्जृम्भमाणे पत- त्याविध्यत्यभिगर्जति प्रतिमुहुः कल्लोलजाले पुरः ॥ ८१॥ उत्सर्पज्जलसर्पजालकमुपागच्छद्दुलीकच्छपं वल्गत्कर्कटशङ्खसङ्घमुदयत्कुम्भीरडिम्भोत्करम् । उद्धूताण्डजषण्डमुच्चनिनदप्रारम्भमम्भोनिधिं लक्षीकुर्वति वर्वृतीति मम धीरक्षीणसारे प्रभौ ॥ ८२॥ गङ्गादिमेन तटिनीगृहिणीशतेन साकं कृताञ्जलिपुटं शरणं वृणानम् । वैदूर्यवर्णतनुमर्णवमन्वगृह्णा- द्दीनैकबन्धुरहिमद्युतिवंशदीपः ॥ ८३॥ द्रागुन्मूलितनीतशैलशिखरप्रक्षेपशीर्णध्वन- त्कल्लोलोत्पतदम्बुशीकरकुलक्लिन्नैः प्लवङ्गव्रजैः । नीरन्ध्रीकृततीरसैकततले नीराकरे कौतुक- न्यस्ताक्षो हृदि भाति मे धृतधनुर्बाणो रघूणां प्रभुः ॥ ८४॥ खेयाम्भांसि मुखैः पिबाम चरणैर्मथ्नाम सालं गृहा- न्प्लोषाम ज्वलनेन विभ्रमवनान्युत्पाटयामौजसा । रक्षांसि प्रहराम पाणिभिरिति व्याहारिभिर्वानरै- र्लङ्कां रोधयति स्म राथवकुलालङ्कारभूतः प्रभुः ॥ ८५॥ मा चेतस्त्वरितं गमः परिसरे देवस्य यद्दूरत- स्तौ सुग्रीवविभीषणावपि समं सौमित्रिणा तिष्ठतः । हस्ताग्रापिहिताननं हनुमता कर्णे गिरं जल्पता द्वन्द्वं मन्त्रयते प्लवङ्गमचमूमध्यस्थितोऽयं प्रभु-॥ ८६॥ पामरसार्थदुरापं तामरसार्थनपदाक्षिसौलभ्यम् । मानसमुद्धतमयते दीनसमुद्धरणदक्षिणं रामम् ॥ ८७॥ पातकराजिहराख्यं शीतकराजिक्षमाननं देवम् । कुञ्जरयानमुपासे पिञ्जरयानद्धकार्मुकं मौर्व्या ॥ ८८॥ सुग्रीवेण यवाग्रशोभिकणिशश्रेणीपिशाङ्गश्रिया कालोन्मीलितकर्णिकारकलिकागौरेण सौमित्रिणा । साकं वानरसैनिकेषु निवसन्सान्द्रानुबद्धातसी- सच्छायः कुतुकं करोति हृदि मे साकेतपृथ्वीपतिः ॥ ८९॥ सन्नह्यद्भटकोटिकौणपपुरीसन्दर्शने कौतुका- दारूढेन सुवेलशैलशिखरं श्यामाम्बुवाहश्रिया । चापं वासवचापचारु दधता शाखामृगानीकिनी- सम्बाधान्तिकभूमिना हृतमिव स्वान्तं मम स्वामिना ॥ ९०॥ आरूढभ्रुकुटीविटङ्कनिटिलामारक्तनेत्राम्बुजां गाढोन्नद्धजटाभरां कपिचमूकल्याणदानोन्मुखीम् । बाणानुत्सृजतीं रणे निशिचरप्राणापहारक्षमां लीलां कामपि चिन्तयामि मनसा नीलाम्बुदश्यामलाम् ॥ ९१॥ प्रसर्पदनुपप्लवप्लवगसैनिकप्रेक्षण- क्षणप्रहृतनैरृतद्रुतगृहीतधूतायुधे । रणे पटुरणद्गुणप्रहितबाणबाणासन- प्रसन्नकरपुष्करे रघुवरे विरूढं मनः ॥ ९२॥ बाणच्छिन्नविकीर्णरावणशिरः श्रेणीभुरीणीकृते घोरे सङ्गरचत्वरे क्रतुभुजां यः प्रीतये तत्वरे । तस्यातस्यसितश्रियः श्रितजनश्रेयस्कृतो धन्विनः स्मारं स्मारमये क्षिपेम समये दुर्वारसर्वापदः ॥ ९३॥ नाराचेन समं निशाचरचमूवाराशिकुम्भीभुवा प्रावृण्मेघमुहूर्तलाञ्छनधनुऽ पुण्यं दधानो धनुः । लङ्कातङ्कनिदानवानरभटव्रातानपेतान्तिको वीरः कोऽपि विकर्षतीव हृदयं विष्वक्प्रचारप्रियम् ॥ ९४॥ सालग्राम इवार्कमण्डल इव क्षीराम्बुराशाविव श्रीवैकुण्ठ इवागमाञ्चल इव प्राचेतसोक्ताविव । निर्व्याजेन कृपाभरेण नितरां निर्धूय मोहांहसी काङ्क्षत्येष ककुत्स्थवंशतिलकः कर्तुं पदं मे हृदि ॥ ९५॥ निहतवति कबन्धं नीरधौ सेतुबन्धं विहितवति विचित्रं वीक्षकाणां पवित्रम् । जगदुपकृतिनिष्ठे ज्याकिणाङ्कप्रकोष्ठे मम हृदयमुदारे मज्जति क्वापि वीरे ॥ ९९॥ शरस्फुरदुषर्बुधक्वथितजृम्भदम्भोवह- द्बृहत्तरतरङ्गसङ्कुलितकूलशैलोदरे । उदन्वति वितन्वति स्तुतिमवक्रिमप्रक्रमः क्रमेत हृदि मे तरण्यभिजनप्रदीपः प्रभुः ॥ ९७॥ जगत्त्रयपवित्रया जनितचित्रचारित्रया महीभवकलत्रया महितभानुमत्पुत्रया । दयारुचिरशीलया दमितताडकाबालया कयापि घननीलया कवचितं मनो लीलया ॥ ९८॥ निरर्गलधनुर्गुणप्रहितनिर्गलन्मार्गण- प्रपञ्चहतवञ्चनासमरचुञ्चुनक्तञ्चरम् । चिरत्नमुनिरत्ननत्युचितयत्नमात्मा मम स्मरत्ययमनत्ययं प्रभुमदित्यपत्यान्वयम् ॥ ९९॥ बिभ्रत्प्रत्यवपन्नसर्वभुवनश्वःश्रेयसश्रीपुनः प्रत्युत्थापनविभ्रमैकरसिकौ पापयोर्धनुःसायकौ । स्थान्यादेशपदाधिरोपितदशग्रीवेदमेकान्तर- भ्रातृव्यञ्जितशक्तिरस्तु हृदि मे वीराग्रणी राघवः ॥ १००॥ समीकभुवि चण्डया सरणधूतवेतण्डया भुजाविजितशुण्डया भुजगभीमकोदण्डया । प्रतिद्विषमकुण्ठया प्रथमवासवैकुण्ठया प्रविद्धदशकण्ठया प्रसृतमन्तरुत्कण्ठया ॥ १०१॥ प्रभूतगुणभूषणा प्रबलरक्षसां भीषणा प्रमोदितविभीषणा प्रदरजाब्धिसंशोषणा । मखाशिषु कृतावना महदमुक्तसंसेवना महीदुहितृसेवना मनसि भाति मे भावना ॥ १०२॥ दयारसधुरीणया दमिषु दत्तकल्याणया दरीसदृशतूणया दलितरावणप्राणया । मलीमसविदूरया मनुकुलोदिताकारया मनः सुकृतधारया मम हृतं महोदारया ॥ १०३॥ कृच्छ्रादन्तःसुरपरिषदः प्राप्य मार्गं प्रविश्य ब्रह्मर्षीणां गणमथ चलत्कीशसम्बाधखिन्नम् । राजन्ये मे लगति हृदयं कापि पृथ्वीकुमारी- पीनोत्तुङ्गस्तनमकरिकालेखविद्याधुरीणे ॥ १०४॥ निःशब्दस्तिमितप्लवङ्गमभटश्रेण्यन्तरालस्थली- विक्रान्ताङ्गदहूतदर्शितविभुक्तैकैकदिक्पालकाम् । आस्थानीमवलोकितस्मितशिरः कम्पादिसंवाहनां सन्तुष्यत्सकलामरां रघुपतेरन्तश्चिरं चिन्तये ॥ १०५॥ इति श्रीरामभद्रदीक्षितकृतं रामकर्णरसायनं सम्पूर्णम् ।