अक्षर आकार:

श्रीरामकृष्णयुगलस्तुतिः

Shri Ramakrishnayugalastutih

श्रीरामकृष्णयुगलस्तुतिः

त्रातः काकोदरो येन द्रोग्धापि करुणात्मना । पूतनामारणख्यातः स मेऽस्तु शरणं प्रभुः ॥ १॥ मर्दितरावणकंसौ सरयूयमुनाविहारिणौ देवौ । अर्पितविप्रकुमारौ हरिपतिहरिकेतनप्रियौ वन्दे ॥ २॥ यः पूतनामारणलब्धकीर्तिः काकोदरो येन विनीतदर्पः । यशोदयालङ्कृतमूर्तिरव्यात्पतिर्यदूनामथवा रघूणाम् ॥ ३॥ इति श्रीरामकृष्णयुगलस्तुतिः समाप्ता ।